अङ्गवृत्ते पुनर्वृत्तावविधिः
ननु 'युष्मभ्यमि'त्यादौ 'भ्यसः' इत्यत्र भ्यमिति च्छेदे भ्यसो भ्यमि कृतेऽन्त्यलोप एत्वं स्यादत आह -
अङ्गवृत्ते पुनर्वृत्तावविधिः।९३।
अङ्गे=अङ्गाधिकारे, वृत्तं = निष्पन्नं यत्कार्यं तस्मिन् सति पुनरन्यस्याङ्गकार्यस्य वृत्तौ = प्रवृत्तावविधानं भवतीत्यर्थः। एषा च 'ज्यादादीयसः' इति आद्-विधानेन ज्ञापिता। अन्यथेकारलोपेन 'अकृत्सार्व' इति दीर्घेण च सिद्धे तद्वैयर्थ्यं स्पष्टमेव। अत एव भिन्नस्थानिकाङ्गकार्यविषयाप्येषा। इयं चानित्या, 'द्वयोः' इति निर्देशात्। अनित्यत्वबललभ्यार्थमादायैव 'भ्यसो भ्यम्' इति सूत्रे भाष्ये निष्ठितस्येति पठितम्। केचित्तु अनया परिभाषया न किञ्चिल्लक्ष्यं साध्यते। अत एव 'ज्ञाजनोर्जा' 'ज्यादादीयसः' इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनम् इति प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्य इत्येव प्रयोजनमुक्तं न तु लक्ष्यसिद्धिरूपम्। तदुक्तम् - 'भ्यसो भ्यम्' इत्यत्राभ्यमिति च्छेदः शेषे लोपश्चान्त्यलोप एव 'अतो गुणे' इति पररूपेण सिद्धं 'युष्मभ्यमि'त्यमित्यन्यत्र निरूपितम्। एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं भाष्यं 'भ्यसोऽभ्यम्' इति सूत्रस्थं च भाष्यमेकदेश्युक्तिरित्याहुः॥९३॥
कामाख्या
परिभाषार्थमाह अङ्गे इत्यादि। तेन युष्मभ्यमित्यादावङ्गवृत्तं 'शेषे लोप' इति कार्यम्, तस्मिन् सति पुनरन्यस्याङ्गाधिकारीयस्यैत्वस्याविधानं सिद्धं भवति। अतएव। आद्विधानज्ञापितत्वादेव। ज्यात्परस्येयसो लोपो ज्यस्य तु दीर्घ इति भिन्नस्थानिकत्वं स्पष्टमेव। अपिना समानस्थानिकस्य संग्रहः। तेन युष्मभ्यमित्यादेः सिद्धिः। निष्ठितस्येति। परनिष्ठितस्य प्रयोगार्हस्येत्यर्थः। यदङ्गकार्यप्रवृत्तिं विनैव प्रयोगस्य परिनिष्ठितस्थं तदेवाङ्गकार्यमङ्गकार्ये कृते न प्रवर्तत इति भावः। अतएव। अस्या लक्ष्यासाधकत्वादेव। अन्यत् सुगमम्॥९३॥
परिभाषार्थमञ्जरी
नन्वेवमपि 'ज्ञाजनोर्ज्ज' इति जादेशविधानेन एकाङ्गसम्बन्धित्वरूपसमानस्थानिकत्वे एवैतत्प्रवृत्त्या प्रकृते भ्यमेत्वयोस्तत्त्वाभावेनैत्वावारणादत आह अत एव भिन्नेति।अस्मादात्वविधानाज्ज्ञापकादेवेत्यर्थः। एतेनाङ्गस्य यत्कार्यं तद्विषयिण्येवेयमिति प्राचीनमत-दूषकमनोरमाव्याख्यापकसामान्यप्रवृत्तिस्वीकारकशब्दरत्नादिविरोधइत्यपास्तम्॥९३॥