अभ्यासविकारेषु बाध्यबाधकभावो नास्ति
ननु 'अजीगणत्' इत्यादौ गणेरीत्वं निरवकाशत्वाद्धलादिःशेषं बाधेत, तत्राह –
अभ्यासविकारेषु बाध्यबाधकभावो नास्ति।६७।
'दीर्घोऽकितः' इत्यकिद्ग्रहणमस्या ज्ञापकम्। अन्यथा यंयम्यत इत्यत्र नुकि कृतेऽनजन्तत्वाद्दीर्घाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेव। इयं परान्तरङ्गादिबोधकानामप्यबाधकत्व-बोधिका। तेन अचीकरत्, मीमांसत इत्यादि सिद्धम्। आद्ये सन्वद्भावस्य परत्वाद्दीर्घेण बाधः प्राप्नोति। अन्त्ये 'मान्बध' इति दीर्घेणान्तरङ्गत्वादित्त्वस्य बाधः प्राप्तः। यत्तु यत्रैकैकप्रवृत्त्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमिति अत 'एके' इति सूत्रे कैयटः, तन्न। नुकि कृते दीर्घाप्राप्त्या धर्मिग्राहकमानविरोधान्मान्बधादीनां दीर्घे कृते इत्त्वाप्राप्त्या गुणो 'यङ्लुकोः' इति सूत्रस्थभाष्योक्ततदुदाहरणासङ्गतेश्चेत्यन्यत्र विस्तरः॥६७॥
कामाख्या
निरवकाशत्वादिति। गणरूपाभ्यास्येत्वमित्यर्थकस्येव गण इत्यस्य हलादिः शेषेण णकारलोपे निरवकाशत्वम्। बाधेतेति। तथा च णकारस्येत्वे ह्रस्वे च कृते अग्लोपित्वाद्दीर्घाभावे अजिगणदिति स्यादिति भावः। अकिद्ग्रहणस्य ज्ञापकत्वमुपपादयति अन्यथेति। अनजन्तत्वादिति। 'अचश्चे'ति परिभाषयाऽजन्तस्य दीर्घविधानेन तुकि कृते तथात्वाभावाद्दीर्घाप्राप्तिरिति भावः।
अयमाशयः - नुको दीर्घाप्राप्तियोग्ये अचारितार्थ्येनानवकाशत्वाद्दीर्घं बाधित्वा नुकि कृते अनजन्तत्वाद्दीर्घाप्राप्त्याऽकिद्ग्रहणं व्यर्थन्तेन परिभाषाज्ञापने तु नुकः पूर्वन्दीर्घो मा भूदित्यकिद्ग्रहणमिति। न चैवमपि अकितोऽभ्यासस्य सत्वेन दीर्घप्रवृत्तेर्दुर्वारतया स्वांशे चारितार्थ्याभाव इति वाच्यम्। यदि दीर्घो न स्यात्तदा नुगि सति अकिदिति निषेधः स्यादिति संभावनया उपसंजनिष्यमाणन्यायेन पूर्वन्दीर्घाप्रवृत्तेः। न च यंयम्यत इत्यादौ दीर्घं बाधित्वा नुक्यपि पश्चाद्दीर्घवारणाय किद्ग्रहणं चारितार्थमिति वाच्यम्। अनजन्तत्वेन दीर्घाप्राप्तेः। न च नुकि कृतेऽनजन्तत्वेन दीर्घाप्राप्त्याऽकिद्ग्रहणं व्यर्थमेवेति वाच्यम्। 'अभ्यासास्याचो दीर्घ' इति वैयधिकरण्यान्वयस्यापि ज्ञापनात्। न च दीर्घोऽनुक इत्येवसिद्धेऽकिद् ग्रहणेन वैयधिकरण्यान्वयो ज्ञाप्यत इति वाच्यम्। वनीवच्यते इत्यादौ नीकः प्राग्दीर्घव्यावृत्तये चारितार्थ्यात्। किद्भाविभिन्नस्येत्यर्थस्वीकारादिति केचित्। केचित्तु अभ्यासे सर्वत्र ह्रस्वस्यैव सत्वेन 'नुगतोऽनुनासिकान्तस्ये'ति तपरकरणे न औपदेशिकस्यातो ग्रहणाद्वा भाम्यत इत्यादौ दोषाभावेन कृते चारितार्थ्यस्य च नुकि सत्वेन तक्रन्यायेन दीर्घबाधे पुनर्द्दीर्घाप्राप्त्याऽकिद्ग्रहणवैयर्थ्येन ज्ञापकमित्याहुः। परिभाषार्थस्तु अभ्यासत्वावच्छिन्नोद्देश्यताककार्येषु बाध्यं पूर्वं प्रवर्तत इति। अत्र अभ्यासत्वावच्छिन्नोद्देश्यतेत्युक्त्या ऊखतुरित्यादौ ह्रस्वात्प्राक् न सवर्णदीर्घः अन्यथा बाध्यस्य सवर्णदीर्घस्य पूर्वं प्रवृत्तौ पश्चाद्ध्रस्वे तदसिद्धिः स्पष्टैव। यत्तु अभ्यासविकारेषु बाध्यबाधकयोर्य़थासमावेश स्यात्तथा कर्तव्य इति परिभाषार्थ इति। तन्न, बोभूयत इत्यादौ पूर्वं ह्रस्वे पश्चाद्गुणप्रवृत्त्या पूर्वं गुणे पश्चाद् ह्रस्व प्रवृत्त्या च कदाचिद्गुणोत्तरं ह्रस्वप्रवृत्तेर्दुर्वारित्वात्। अस्यां परिभाषायां बाध्यबाधकशब्दौ न प्रक्रान्तविषयकावेव किन्तु अन्यविषयकावपीत्याह इयंचेति। कैयटोक्तं दूषयति यत्विति।एकैकैति। उत्सर्गस्य अपवादस्य वा। यथा ननर्तीत्यत्रोरदत्वरुगादीनाम्॥६७॥
परिभाषार्थमञ्जरी
अत एकेति सूत्रे कैयट इति। तत्र भाष्ये लिटा आदेशविशेषणाभावे नेमतुः सहेत्यादौ अनादेशादेरिति निषेधशङ्कायां तस्य तद्विशेषणत्वे न पूर्व्वोक्तदोषपरिहारे[1]ऽस्त्वन्यत् लिट् ग्रहणस्य प्रयोजनम् इह मा भूत् पक्ता पक्तुम्। नैतदस्ति। क्ङितीत्यनुवर्त्तते। एवमपि पक्वः पक्ववानित्यत्र प्राप्नोति। अभ्यासलोपसन्नियोगेन [2]एत्वमुच्यते। न चात्राभ्यासलोपं पश्यामः। एवमपि पापच्यते अत्र प्राप्नोति दीर्घत्वमत्र बाधकं भविष्यति इत्युक्तम्। दीर्घत्वमत्रेति भाष्यमुपादायाभ्यासविकारेषु बाधका न बाधन्त इत्येतत्तु यत्र सर्व्वेषां प्रवृत्तिस्तत्राश्रीयते यद्यपि दीर्घे कृते एत्वाभ्यासलोपप्रसङ्गस्तथाप्येत्वाभ्यासलोपयोः कृतयोर्द्दीर्घत्वाप्रसङ्ग इति विरुद्धत्वादबाधकत्वाभाव इति तेनोक्तम्। तदुदाहरणन्तु नर्नर्त्त इत्यादावुरदत्वे रूगादयो बोध्याः। ज्ञापकसिद्धस्यासार्व्वत्रिकत्वेनानित्यत्वात्तस्यात्रानाश्रयणे परत्वाद्बाध इति तु भाष्यं सुयोज्यमितीदं सर्व्वं स्पष्टं विवरणे॥६७॥
[1]परिहारेण इति गे
[2]एस्त्वम् इति गे