Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

व्यवस्थितविभषयाऽपि कार्याणि क्रियन्ते


ननु वातायनार्थे गवाक्षेऽवङो वैकल्पिकत्वाद् 'गोक्ष' इत्याद्यपि स्यादत आह - 

व्यवस्थितविभषयाऽपि कार्याणि क्रियन्ते।१०८।

लक्ष्यानुसाराद् व्यवस्था बोध्या। 'शाच्छोः' इति सूत्रे 'लटः शतृइत्यादिसूत्रेषु च भाष्ये स्पष्टा॥१०८॥

 


कामाख्या

व्यवस्थितविभाषात्वञ्च विभाषाशास्त्रीयोद्देश्यतावच्छेदकव्याप्यं यद्रूपन्तद्रूपव्यापकभावाभावान्यतरविधायत्वम्। यथा विभाषाशास्त्रम् 'अवङ् स्फोटायनस्ये'ति तदीयोद्देश्यतावच्छेदकं अजव्यवहितपूत्वविशिष्टैङन्तगोशब्दत्वं, तद्वाप्यरूपं वातायनबोधकघटकाजव्यवहितपूर्वत्वविशिष्टगोशब्दत्वं, तद्व्यापकभावविधायकत्वन्तस्येति लक्षणसमन्वयः। एवं 'अचि विभाषे'ति विभाषाशास्त्रीयोद्देश्यतावच्छेदकम् अजव्यवहितपूर्वत्वविशिष्टगृधात्ववयवरत्वं, तद्वाप्यं रूपं विषयता तात्पर्येणोच्चरितघटकाजव्यवहितपूर्वत्वविशिष्टगृधातुसम्बन्धिरत्वं तद्व्यापकाभावाविधायकत्वं तस्येति लक्षणसमन्वयः॥१०८॥


परिभाषार्थमञ्जरी

व्यवस्था बोध्येति। अत एव 'परिक्रयणे' इति सूत्रादन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषामाश्रित्य पापेऽभिनिवेश इत्यत्र कर्म्मत्वं नेति समर्थसूत्रादौ कैयटादयः। तदनुवृत्तौ मानञ्च एष्वर्थेष्वभिनिविष्टानामिति [1]समर्थसूत्रभाष्यमेव। यत्तु शेखरे परे तु एतद्भाष्यप्रयोगाद‌भिनिविश इत्यत्रानुपूर्व्या अविकृताया यत्र श्रवणं तत्रैव [2]तत्सूत्रप्रवृत्तिः। अन्यतरस्यां ग्रहणानुवृत्तौ व्यवस्थितविभाषाश्रयणे च न मानमित्याहुरित्युक्तम्। पापेऽभिनिवेश इत्यत्र पूर्वरूपेणाकारस्यापहारेण तदभाव इत्याशयः। तदसत्। उक्तभाष्यप्रयोगस्यैव मानत्वात्। न च ताः परिगणिताः इति वाच्यम्। भाष्यतात्पर्यविषयीभूतानां तासां बहुशस्त्वयापि 'गुरोरनृत' इत्यादिसूत्रेष्वभ्युपगमात्। तावता किमिति चेत सिद्धं प्रकृतेऽपि व्यवस्थितविभाषया। न च तद‌ङ्गीकारेऽप्यतिप्रसङ्गवारणाय व्याख्यानस्यानभिधानस्य वा ग्रहणे[3] गौरवम्। तस्यैव देयत्वेनन मानमित्यस्य व्याहतत्वात्। न च न केवलव्यवस्थितविभाषाश्रयणे न मानमिति नाशयः। किन्तु व्याख्यानानभिधानयोरन्यतरसहकृतव्यवस्थितविभाषाश्रयणेन मानमित्याशय इति वाच्यम्। तदन्यतराश्रयणस्य वृद्धकुमारीति न्यायेन नान्तरीयकतया दोषानाध्यायकत्वात्। किञ्च भाष्यप्रयोगऽपि वाक्यसंस्कारपक्षाश्रयेण संस्कारे श्रुतानुपूर्व्वक्रमेणैवान्वाख्यानस्य वाच्यतया पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वस्य कर्म्मसंज्ञायां सत्त्वेन कर्मसंज्ञादृष्ट्या आत्वस्यासिद्धत्वेन द्वितीयापत्तेर्दुवारत्वाच्च। अपि च कर्म्मत्वाविवक्षापरकृतपूर्वीकटमित्यादिभाष्यस्य च तत्तत्प्रयोगमात्रपरबोधकत्वदीयग्रन्थदृष्टान्तीकृत्य प्राप्तवादीदिग्गजोपमर्दनाय मूलोक्तव्यवस्थितविभाषांकुशस्यैव त्वयाप्यङ्गीकार्य्यत्वात्। एवञ्चान्ते रण्डाविवाहश्चेत्यादावेव कुतो न स इति न्यायेन पूर्वमेव तदङ्गीकारस्योचितत्वाच्च। किञ्च पापेऽभिनिवेश इत्यत्र संहिताया अविवक्षायां सन्ध्यभावे अविकृतानुपूर्व्व्याः सत्वेन द्वितीयापत्तेर्दुवारत्वाच्च। अत एव व्यवस्थितविभाषा[4]श्रयणामन्त्यभिन्नयोगीन्द्रोऽभिनिविष्टो यो ब्रह्मतत्त्वं परात्परं न पुनर्वर्तते लोको योगमार्गानुसारितः इति [5]लघुयोगकारस्थप्रयोगशुककपोतकामूलकृता व्यवस्थितविभाषा मञ्जूषासंगोपनेनानुगृहीताः। अत एव व्यवस्थितविभाषाश्रयणे प्रमाणमस्मरता न मानमित्येवोक्तम्। अन्यथा तदाश्रयणमसङ्गतमिति वदेदिति विदुषो विदाङ्कुर्व्वन्तु इति दिक्॥१०८॥

[1]सूत्रस्थभाष्यमेव इति गे

[2]एतत् इति गे

[3] आश्रयणे इति गे

[4]विभाषानाश्रयणम् इति गे

[5]लघुयोगसार इति गे