तन्मध्यपतितस्तद्ग्रहणेन गृह्यते
ननु 'सर्वके, उच्चकैः' इत्यादौ सर्वनामाव्ययसंज्ञे न स्यातामत आह-
तन्मध्यपतितस्तद्ग्रहणेन गृह्यते।९०।
'नेदमदसोरकोरि'ति सूत्रे 'अकोरि'ति निषेधोऽस्या ज्ञापकः। 'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' इति 'येन विधिरि'ति सूत्रे भाष्ये पाठः॥९०॥
कामाख्या
संज्ञे न स्यादिति। साकच्कस्य शब्दान्तरत्वादिति शेषः। न च सर्वके उच्चकैरित्यादौ सर्वनामाव्ययत्वयोरकज्विशिष्टेऽसत्वेऽपि न क्षतिः। सुबन्तात् तद्धितोत्पत्तिरिति सिद्धान्तेन सुबुत्पत्त्यनन्तरमेवाकच् प्रवृत्त्या वर्णाश्रमेतराः अत्युच्चैः सावित्यदौ शीलुको वारणाय 'जसः शी' 'अव्ययादाप् सुप' इत्यादौ विहितविशेषणस्यावश्यकत्वेन अव्ययसर्वनामविहितसुप्जसोः सत्वादिति वाच्यम्। 'जसः शी'त्यादावङ्गस्येत्यस्य तदादेरित्यस्य विशेषणत्वं स्वीकृत्य अङ्गं तदादि वा यत्सर्वनाम ततः परस्य जसः शीविधानेन वर्णाश्रमेतरा इत्यादौ दोषाभावेन तत्र विहितविशेषणानङ्गीकारेण अत्युच्चैः सावित्यादौ दोषवारणस्य विहितखण्डनस्य च शेखरे एवोक्तत्वेन सर्वके उच्चकैरित्यादावङ्गाभिन्नसर्वनामाव्यवहितोत्तरत्वस्य अव्ययाव्यवहितोत्तरत्वस्य च सुप्यसत्त्वेनावतरणसंगतेः। गङ्गाप्रविष्टा नदी गङ्गाग्रहणेन गृह्यते देवदत्तास्थो गर्भो देवदत्ताग्रहणेन गृह्यत इति लोकन्यायेनायमर्थो न सिध्यति। सर्वनामत्वादेरूपसर्गत्वादिवदक्तपरिमाणत्वेन न्यूनेऽधिके वा शास्त्रव्यापारमन्तरेण तद्बुद्धेरभावादतो ज्ञापकमाह नेदमदसेरिति। तन्मध्यपतितत्वं च स्वविशिष्टत्वम्। वै. स्वघटकाव्यवहितोत्तरत्व स्वघटकाव्यवहितपूर्वत्व स्वनिष्ठोद्देश्यतानिरूपितविधेयताश्रयत्व सम्बन्धेनेति दिक्॥९०॥
नास्ति।