Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः


ननु 'भृशादिभ्यो भुव्यच्वेरि'त्यादौ विधीयमानः क्यङ्, क्व दिवा भृशा भवन्तीत्यत्रापि स्यादत आह - 

नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः।७५।

नञ्युक्तमिवयुक्तं वा यत्किञ्चिद् दृश्यते तत्र तस्माद्भिन्ने तत्सदृशेऽधिकरणे द्रव्ये कार्यं विज्ञायते, हि यतस्तथार्थगतिरस्ति। न हि 'अब्राह्मणमानय' इत्युक्ते लोष्ठमानीय कृती भवति। अतश्च्व्यन्तभिन्ने च्व्यन्तसदृशेऽभूततद्भावविषये क्यङ्ङिति नोक्तदोषः। 'ओषधेश्च विभक्तावप्रथमायामि'त्यादौ विभक्तिग्रहणं ह्येतन्न्यायसिद्धार्थानुवाद एव। एतेन विभक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति वदन्तः परास्ताः, अनित्यत्वे भाष्यसम्मतफलाभावात्। अत एव 'अकर्तरि चे'ति सूत्रे कारकग्रहणं भाष्ये प्रत्याख्यातमिति बोध्यम्। स्पष्टा चेयं 'भृशादिभ्यः' इति सूत्रे भाष्ये। अत्र अन्यसदृशेत्युक्त्या सादृश्यस्य भेदाघटितत्वं सूचयति। निरूपितं चैतन्मञ्जूषायाम्॥७५॥

 


कामाख्या

ननु 'भृशादिभ्यो भुव्यच्वो'रित्यस्य च्व्यन्तभिन्नेभ्यो भृशादिभ्य इत्यर्थेन 'क्व दिवा भृशा भवन्ती'त्यत्र च्व्यन्तभिन्न्त्वात् क्यङ् स्यादित्याशयेनाह नन्वितिअन्यसदृशेति। नञ् समभिव्याहृतमिव समभिव्याहृतं च पदं स्वसादृश्य स्वभन्नत्वोभयसम्बन्धेन स्वविशिष्टबोधकमित्यर्थः। अत्र च नञ्पदमिवपदं च तात्पर्यग्राहकम्। अत एव अब्राह्मणः चन्द्र इवेत्यादौ ब्राह्मणभिन्नो ब्राह्मणसदृशः क्षत्रियादिः। चन्द्रभिन्नश्चन्द्रसदृशो मुखादिश्च प्रतीयते न तु लोष्टादिः। तथाह्यर्थगतिरिति। हि = यतः लोके तादृशस्यैवार्थस्य शब्दशक्तिस्वभावाद्गतिः प्रतीतिरतोऽत्र ज्ञापकजिज्ञासा न कार्येति। लौकिकोदाहरणमाह नहीति। प्रकृते प्रयोजनमाह अतइति। नन्वेवमोषधेश्चविभक्तावप्रथमायाम् 'अकर्त्तरि च कारके संज्ञाया'मित्यत्र विभक्तावित्यादीनां वैयर्थ्यं स्यादत आह ओषधेरिति। यत्तु विभक्त्यादिग्रहणमेतत्परिभाषाया अनित्यत्वज्ञापकमिति। तन्मतं खण्डयति एतेनेति। वक्ष्यमाणहेतुना। ननु असूर्यं पश्यति मुखानीत्याद्यनित्यत्वफलं सम्भवतीत्यत आह भाष्यसम्मतेति। शब्दशक्तिस्वभावाल्लोके एतादृशस्थले सादृश्याप्रतीतिरेव प्रसिद्धेति भावः। ननु अनित्यत्वसिद्धार्थानुवाद एव विभक्त्यादिग्रहणादत आह अतएवेति। भाष्यानभिमतत्वादेव। सादृश्यम्। सदृशादिपदशक्यतावच्छेदको धर्मविशेषः। भेदाघटितमिति। तद्भिन्नत्वे सति तद्गतभूयो धर्मवत्वस्य सादृश्यत्वे सादृश्यकथनेनैव भेदलाभेऽन्येत्यस्य वैयर्थ्यापत्तेरिति तद्वादिमतं न युक्तम्॥७५॥

नास्ति।