Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अनन्त्यविकारेऽन्त्यसदेशस्य


नन्वदमुयङ्ङित्यादौ पूर्वस्यापि मुत्वापत्तिरत आह -

अनन्त्यविकारेऽन्त्यसदेशस्य।१०४।

अन्त्यसदेशानन्त्यसदेशयोरेकप्रयोगे युगपत् प्राप्तावन्त्यसदेशस्यैवेति तदर्थः। अन्यथा धात्वादेर्नत्वसत्वे 'नेता सोते'त्यादावेव स्याताम्, न तु नमति सिञ्चतीत्यादौ। अनन्त्यविकार इति च लिङ्गम्। अन्त्येन समानो देशो यस्य सोऽन्त्यसदेशः। तत्त्वं च अन्त्यवर्णतद्वर्णयोरितराव्यवधानेन बोध्यम्। अत एव विद्ध इत्याद्यर्थं 'न सम्प्रसारणे' इति चरितार्थम्। 'अल्लोपोऽनः' इत्यादेः 'अनस्तक्ष्णे'त्यादावाद्याकारादावप्रवृत्तिरपि अस्याः फलम्, यजादिस्वादिपरानन्ताङ्गस्याकारस्य लोप इत्यर्थस्यैव अङ्गांशे प्रत्ययस्य उत्थिताकाङ्क्षतयौचित्याद् अङ्गावयवयजादिस्वादिपरस्यान इत्यादिक्रमेण अनेकत्रानेकक्लिष्टकल्पनापेक्षयाऽस्या उचितत्वात्। न चैषा 'ष्यङः सम्प्रसारणम्' इति सूत्रे भाष्ये प्रत्याख्यातेति भ्रमितव्यम्, वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धिं प्रदर्श्यापि यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा कर्तव्या प्रतिविधेयं दोषेषु, प्रतिविधानं चोदात्तनिर्देशात् सिद्धमित्युपसंहारात्। मिमार्जिषतीत्यर्थं चैषा। तत्र वृद्धेः पूर्वमन्तरङ्गत्वाद् द्वित्वे परत्वादभ्यासकार्ये ततोऽभ्यासेकारस्य वृद्धिवारणायावश्यकी। न च वृद्धौ पुनरभ्यासह्रस्वत्वेन सिद्धिः 'लक्ष्ये लक्षणस्य' इति न्यायेन पुनरप्रवृत्तेः। यत्तु 'न सम्प्रसारणे' इति सूत्रे भाष्ये नैतस्याः परिभाषायाः प्रयोजनानीत्युक्तं तस्यायमर्थः – एतत्सूत्रे प्रयोजनान्येतस्याः परिभाषायाः न भवन्ति, व्यधादावन्त्यसमानदेशयणोऽभावादिति। नैतान्येतस्याः प्रयोजनानीति पाठोऽपि क्वचिद् दृश्यते। वाचनिक्येवैषा। स्पष्टा च 'ष्यङः' इति सूत्रे 'अदसोऽसेरि'ति सूत्रे च 'केचिदन्त्यसदेशस्ये'त्यनेन भाष्य इत्यन्यत्र विस्तरः॥१०४॥

 


कामाख्या

अन्त्यं विकारयतीत्यन्त्यविकारः अथवा अनन्त्यस्यविकारो येन तस्मिन् शास्त्रेऽन्त्यसदेशस्येत्युपतिष्ठते इति परिभाषार्थः। अन्त्येन समानो देशो यस्य सोऽन्त्यसदेशः। तथा च अदद्र्यङिति स्थिते अन्त्यो यकारस्तस्य 'अदसोऽसे'रित्यनेन कार्याप्राप्तेस्तत्रान्त्यसदेशस्येत्युपस्थितौ अदः शब्दावयवस्यन्त्यसदेशस्य दत्वमत्वं तस्मात् परस्यैव प्रत्यासत्त्या रेफस्योत्वे अदमुयङिति सिद्धिः। अन्यथा। उक्तार्थानङ्गीकारे। ननु अन्त्यसदेशस्येत्येवास्तु। तावतैवोक्तार्थलाभादनन्त्यविकार इत्यस्य वैयर्थ्यमत् आह अनन्त्यविकारइतिच।लिङ्गमितितत्त्वञ्चेति। अन्त्यसदेशत्वञ्चेत्यर्थः। इतराव्यवधानेनेति। न च हंसशिरांसीत्यादौ अन्त्यतद्वर्णयोर्न्नकारव्यवधानसत्वादिदमसङ्गतमिति वाच्यम्। अन्त्यवर्णविशिष्टत्वमन्त्यसदेशत्वमिति स्वीकारेणादोषात्। वै. स्वावधिकपूर्वत्वत्व स्वावधिकपूर्वाच्कर्तृकव्यवधानशून्यत्वोभयसम्बन्धेन। अतएवेति। इतराव्यवधानेनेत्यस्योपादानादेव। विद्धइत्यादि। अत्रान्त्यवर्णो धकारस्तद्वर्णो यकारस्तयोरितरेणाकारेण व्यवधानादस्या अप्रवृत्त्या वकारस्य संप्रसारणमव्यावृत्तये 'न संप्रसारण' इति सूत्रं सार्थकम्। एवं चैतन्निवेशे इदमेव सूत्रं ज्ञापकमिति भावः। परिभाषायाः प्रयोजनान्याह 'अल्लोपोऽन' इति। क्लिष्टकल्पनेति। आक्षिप्तस्य शब्दबोधे भानाभावात्। संज्ञाशास्त्रस्य कार्यकालपक्षेऽपि विधिशास्त्रेण सह पदैकवाक्यता विरहाच्च क्लिष्टत्वमिति बोध्यम्। प्रतिविधानम्। अप्रवृत्तिः। उदात्तनिर्देशादिति। यत्र परिभाषाया अप्रवृत्तिरिष्टा तत्रोदात्तः पठनीयः, अनुदात्तत्वं च परिभाषालिङ्गं कर्तव्यमिति भावः। मिमार्जिषतीति। केचित्तु इदमयुक्तमम्। धातोः कार्यमुच्यमानमिति परिभाषया प्रत्ययाव्यवहितपूर्वस्य मृजेरिको वृद्धिरित्यर्थेनाभ्यासस्य प्राप्त्यभावात्। समुदायस्य मृज्वाभावात् अभ्यासस्य मृज्त्वेऽपि प्रत्ययाव्यवहितपूर्वत्वाभावात् अनर्थकत्वाच्चेत्याहुः। एतत्सूत्रप्रोजनानि। विद्ध इत्यादीनीत्यर्थः। सिद्धान्तिनस्तु नैषा परिभाषा भाष्यसम्मता। अत एव नैतस्याः परिभाषायाः प्रयोजनानीति भाष्ये उक्तम्। ग्रन्थकृद्व्याख्यानन्तु न युक्तम्। अक्षरस्वारस्य भङ्गापत्तेः। अतस्तक्ष्णोत्यादौ पूर्वाकारस्य लोपस्तु न षष्ठीप्रकृतिप्रयोज्यशाब्दबोधीयविषयताश्रयत्वरूपनिर्दिश्यमानत्वस्य स्वीकारेण पूर्वानस्तत्वाभावात्। हंसशिरांसीत्यादौ तु न दोषः सर्वनामस्थाने इति सान्तसंयोगविशेषणात्। अदमुयङिति रूपमेव न भवति। किन्तु अदद्र्यङित्येव नेत्येक इति मुख्यार्थकैकशब्दप्रयोगात्। असेर्हि दृश्यत इति हेतुबोधकहिशब्दघटितत्वाच्च पूर्वोक्तद्वयस्य केचित्पदघटितत्वेनारुचिग्रस्तत्वाच्चेत्याद्याहुरिति दिक्॥१०४॥


परिभाषार्थमञ्जरी

समानो देशो यस्येति। समानशब्दस्य समानदेशीय इत्यादौ एकार्थकत्ववत् समानाङ्गग्रहणमिति 'संप्रसारणाच्चे'ति सूत्रस्थवार्तिकस्थसमानशब्दवच्चैकार्थकत्वेनान्त्येन समान एकादेशः कालरूपो यस्य सोऽन्त्यदेश इत्यर्थः। भिन्नयोरपि कालयोरेकत्वमध्यवसितं बोध्यम्।इतराव्यवधानेनेति । ननु अनस्तक्ष्णेत्यादौ अल्लोपादीनामनया वारणपर 'ष्यङः सम्प्रसारणमि'ति सूत्रस्थभाष्यासङ्गतिः। अन्त्यवर्णतद्वर्णयोर्मध्येऽर्द्धमात्राकालव्यवायसत्वादिति चेन्न। तस्य व्यापकत्वेन वारयितुमशक्यत्वात्।तद्व्यवधानस्य सोढव्यत्वेनान्त्यवर्णतद्वर्णयोरित्युक्त्या प्रत्यासत्त्या वर्णविशिष्टस्यैव तस्य वार्यत्वेन चादोषात्। नन्वेवमपि अदमुयङित्यत्र अन्त्यवर्णरेफयोःतादृशव्यवायाभावेनैतस्याः प्रवृत्त्योत्वेऽपि अन्त्यवर्णदकारयोस्तत्त्वाभावेनैतदप्रवृत्त्या दोष एवेति चेन्न। इतरेत्यस्य विधिविधेयकार्यस्थानितानाक्रान्तवर्णेत्यर्थेन त्वदुक्तशङ्का निरासात्।

अत्रेदं विचार्यते विधिविधेयकार्य्यनिरूपितं स्थानित्वं किं कार्यद्व्यनिरूपितसमुदायस्य स्थानित्वमुत प्रत्येकम्। तत्राप्याद्येऽनुद्भूतावयवस्थानी उत उद्भूतावयवः। तत्राद्येनाद्यः। अन्त्यवर्णतद्वर्णयोः ककारादिव्यवधानाभावोघटकभावो वक्तव्यः। ककारादिश्च विधिविधेयकार्यद्वयसमुदायस्थानित्वानाक्रान्तः तत्र दकारस्य समुदायस्थानिघटकत्वस्यास्मिन् पक्षेऽभावेन प्रत्येकं तद्वर्णाभावात्। कयोः ककारादिव्यवधानाभावो वक्तव्यः। एवञ्च यत्र दकाराव्यवहितपूर्ववृत्तिदकारान्तरं तत्रैव तयोस्तद्व्यवधानाभावो वक्तुं शक्येतेति प्रकृते व्याप्तेः। न च मास्तु समुदायघटकत्वेन रूपेण तस्य स्थानित्वम्। किं अनवयवत्वस्य तत्राव्याहतत्वात्तेन रूपेण तद्वर्णत्वम्। एवञ्च तयोः तद्वयवधानाभावो वक्तुं शक्य एवेति वाच्यम्। विधिविधेयकार्यनिरूपितकार्य्यित्वमेव तद्वर्णत्वम्। तथा च समुदायस्यैव कार्यित्वेन तन्निरूपितत्वस्य तद्वर्णे भावेन तथा वक्तुमशक्यत्वात्। न च वयं पूर्वोक्तं तद्वर्णत्वं ब्रूमः। किन्तु अन्त्यसमीपवृत्तिर्यो वर्णस्तत्त्वम्। एवञ्च तयोस्तत्त्वमव्याहतं किञ्च तद्वर्णपदेन स्थानित्वाक्रान्तोऽनुद्भूतसमुदायो वा गृह्यत इति वाच्यम्। तावताप्यनुद्भूताऽवयवसमुदायस्थले प्रत्येकं स्थानित्वाभावस्य स्वस्वादौ प्रसिद्ध्या अतद्रीत्येतत्प्रयोगसमवायिरेफस्य स्थानित्वानाक्रान्तककारादितुल्यत्वेन तद्व्यवधानादव्याप्तेः। द्वितीये तु हंसशिरांसीत्यादावव्याप्तेः। किञ्च अदमुयङित्यादिलक्ष्यानुरोधेन कार्य्यद्वयनिरूपितसमुदायस्थानित्वानाक्रान्तत्त्वे लक्षणार्थेपि अनस्तक्ष्णेत्याद्यनुरोधेनैककार्यनिरूपिततत्त्वस्याप्यावश्यकतया चलीक्लृप्यादौ परिभाषाप्रवृत्तिप्रसङ्गात्। तथा हि एओङ्सूत्रे भाष्ये वर्णैकदेशानां वर्णग्रहणेन ग्रहणमिति पक्षमुपक्रम्य ऋकारोत्तराच्भागस्य स्पष्टं वर्णत्वाभावमेव बोधनेन तद्व्यवधानस्यावार्यत्वात् पूर्वत्र लत्वाभावप्रसङ्गे शेखरस्थ चलीक्लृप्यत इत्यादावुत्तराज्भागेन व्यवधानात् परिभाषाया अप्रवृत्तौ उभयत्रापि लत्वमिति ग्रन्थो व्याहत अज्भागस्य वर्णव्यवहाराभावेन तद्व्यवधानसत्वेऽपि वर्णव्यावधानशून्यत्वस्य सत्वात्। किञ्च स्थानिवत्त्वानाक्रान्तवर्णेत्यत्र किं वर्णपदेन तद्वर्णकूटस्तद्व्यवधानशून्यत्वमुत प्रत्येकं तद्व्यवधानशून्यत्वं वा। नाद्यः। विद्ध इत्यादावकारव्यधानेऽपि तत्तत्कूटव्यवधानाभावेनातिव्याप्तौ तत्परिहारकमूलशैथिल्यात्। चलीक्लृप्यादावतिव्याप्तेश्च। द्वितीयः। चलीक्लृप्यादावेव दोषात्। तदर्थं स्थानित्वानाक्रान्तो यः तद्व्यवधानशून्यत्वस्यावश्यकत्वे अनस्तक्ष्णेत्यादौ कालव्यवधानाद‌प्राप्तौ कालान्यत्वमपि विशेषणं देयम्। एवं च विधिविधेयकार्यस्थानित्वानाक्रान्तः कालान्यो यस्तद्व्यवधानशून्यत्वं लक्षणं पर्यवसन्नम्। अस्यापि हंसशिरांसीत्यादौ अव्याप्तेरिति दिक्। आद्यपक्षीयद्वितीयोऽपिन। सूत्रे द्वन्द्वानिर्देशेन प्रत्येकमेव स्थानित्वश्रवणान्न तादृशः सूत्रस्थान्यादेशभावः कल्पयितुं शक्यः। दात्परस्य उः दस्य च म इति श्रुतनिमित्तत्वकार्यित्वस्य च युगपद्दकारांशे बाधाच्च। हंसशिरांसीत्यादावव्याप्तेश्च। द्वितीयोऽपि।अनुकार्य्यानुकरणयोरभेदविवक्षायां गवित्ययमाहेत्यादाववादेशस्थानित्वाना- क्रान्तः कालान्यो यः यावान्वर्णस्तदन्तःपातित्वस्य रेफेऽपि सत्त्वेन अदमुयङित्यादावव्याप्तेः। न च प्रथमप्रवृत्तत्वविशेषणेन निर्वाहः। प्रथमत्वस्य तदुत्तरप्रवर्तमाननिरूप्यत्वेन गवित्ययमाहेत्यादौ तथात्वाभावादिति वाच्यम्। दत्तेऽपि विशेषणे दोषस्य दुर्वारत्वात्।

तत्र प्रथमप्रवृत्तत्वं किं विधौ विशेषणं उत कार्ये। नाद्य:। अदमुयङादावेकबारं प्रवृत्त्या क्रमेण कार्यद्वयस्यापि विधानात् न[1] पुनः सूत्राप्रवृत्तेः। न च लक्षणभेदेन तत्वम्। तावतापि पूर्वप्रवृत्तसूत्रेणैव कार्यद्वयस्यापि क्रमेण सिद्धौ पुनः सूत्रप्रवृत्तेः फलाभावेन तत्कल्पनायोगात्। पूर्वप्रवृत्तसूत्रे दस्य म इत्यंशं विहायेतरस्यापि विधानेन तदुत्तरप्रवृत्तसूत्रेण तस्यांशस्यापि विधाने तु सूत्रार्थस्यापि परित्यागेन प्रथमप्रवृत्तवाक्येप्रामाण्येन साधुत्वानापत्तेः। तत्परित्यागे मानाभावाच्च। न च योगविभागः। 'अदसोऽसेर्दादुदोमः'। उत्तरत्रादसोऽसेरित्यनुवर्त्तत इति तत्त्वं संभवत्येवेति वाच्यम्। हंसशिरांसीत्यादौ तदसंभवेनाव्याप्तेः। नापि द्वितीय:। हंसशिरांसीत्यत्रैवाव्याप्तेः। किञ्च सुध्युपास्यादिलक्ष्ये द्विर्वचनविध्यपेक्षया पूर्वप्रवृत्तयण्विधिविधेयकार्य्यस्थानित्वानाक्रान्तत्त्वस्य रेफनकारादिषु सत्वेन दोषध्रौव्याच्च। हंसशिरांसीत्यत्रैव दोषसद्भावेन एतत्परिभाषासाध्यलक्ष्यविषयकतद्विधेयकार्यस्थानित्वानाक्रान्तकालान्यो यस्तद्व्यवधान-शून्यत्वरूपलक्षणमपि वक्तुमशक्यमेवेति दिक्। एतत्परिभाषासाध्यलक्ष्यविषयको योऽल्लोपो न इति विधिस्तद्विधेयकार्यस्थानित्वानाक्रान्तत्वस्यादमुयङ्प्रयोगसमवायिरेफेऽपि सत्वेन प्राप्तदोषवारणाय तत्तदिति। एवञ्चान्त्यसदेशत्वं निर्वक्तुमशक्यमिति परिभाषार्थो दुर्ज्ञेयः। अत एवैतत्साध्यप्रयोजनानामन्यथासिद्धिः प्रदर्शिता भाष्ये इति परिभाषास्वीकारो दुराग्रहमूलक इति प्राप्ते ब्रूमः। एतत्परिभाषासाध्यलक्ष्यविषयकतद्विधिविधेयकार्यस्थानिविशेषणत्वानाक्रान्तस्थानित्वानाक्रान्तः कालान्यो यस्तद्व्यवधानशून्यत्वम्। कालान्यो यो वर्ण इत्युक्ते चलीक्लृप्यादौ दोषवारणाय इति। कालान्य इत्यनुक्तौ तु 'अनस्तक्ष्णे'त्यादावव्याप्तिः। अदमुयङादिसंग्रहाय स्थानित्वानाक्रान्तत्वम्। हंसशिरांसीत्यादावव्याप्तिनिरासाय स्थानित्वविशेषणानाक्रान्तेति। 'अनचि चे'त्यादिविधिविधेयद्वित्वरूपकार्यस्थानिविशेषणत्वाद्यनाक्रान्तत्वस्य रेफनकारादौ सत्वेनाव्याप्तेः। एतत्परिभाषासाध्यलक्ष्यविषयकत्वं विधौ विशेषणम्। तावताप्येतत्परिभाषासाध्यलक्ष्यमनस्तक्ष्णेति तद्विषयकाल्लोपो न विधिविधेयकार्यस्थानिविशेषणत्वाद्यनाक्रान्तत्वस्य रेफादौ सत्वेनाव्याप्तेस्तत्तदिति विशेषणं विधौ बोध्यम्। न च स्थानिविशेषणत्वानाक्रान्त इत्येवास्तु लक्षणघटकं मास्तु स्थानित्वानाक्रान्त इति। एवञ्च तावतापि दोषवारणसंभवादिति वाच्यम्। अदमुयङादौ रेफेऽपि तत्त्वसत्वाद्दोषापत्तेः। उत्त्वरूपकार्य्यनिरूपितस्थानिरेफविशेषणत्वाक्रान्त-दकारान्यवर्णघटकत्वस्य रेफेऽपि सत्वेन तद्व्यवधानेऽपि दोषध्रौव्यात्। यद्वा स्थानिविशेषणत्वानाक्रान्त-स्थानित्वानाक्रान्त इत्येतदन्यतर इति निवेशनीयम्। अन्यत्सर्वं पूर्ववत्। वस्तुत इतरत्वम् अच्त्वाश्रयेण तत्त्वम्। अच्त्वाश्रयश्च साक्षात्परम्परया वा। साक्षात् विद्ध इत्यत्र। परम्परया ऋकाराज्भागे। एवञ्च न काप्यनुपपत्तिरिति दिक्। अत्रार्थे मानं तु 'न संप्रसारणमि'ति मूलोक्तमेव। किञ्च केचिदिच्छन्ति लत्ववदिति वार्त्तिकोक्तमपि बोध्यम्। उभयवादिसम्मतस्यैव दृष्टान्तत्वात्। यद्ययं परिष्कारो न स्यात्तदा तदसंगतिः स्पष्टैव। कथन्तर्हि प्रथमप्रवृत्तविधिविधेयस्थानित्वानाक्रान्तवर्णे वृद्धोक्तं लक्षणमिति चेत् तददमुयङित्येतल्लक्ष्यसाधकमित्यवेहि। तदपि लक्षणं किञ्चिदंशे मदुक्तरीत्या पूरितं तदेव लक्ष्यसाधकं भवति नान्यथेति बोध्यम्। न च 'इको गुणवृद्धी'ति सूत्रस्थभाष्यविरोध:। तत्र हि तच्छेषपक्षे 'मृजेर्वृद्धि'रित्यादौ विनिगमनाविरहात्परिभाषाद्वयस्यापि निवृत्तौ सर्वादेशवृद्धिः स्यादिति प्रक्रम्य तत्पक्षे सर्व्वत्र प्रश्लेषयोगविभागादिना दोषवारणं कृतम्। तत्र 'मृजेर्वृद्धि'रित्यंशे मृजेर्वृद्धिरचः। ततो ञ्णिति इति योगविभागेन दोषमुद्धृत्त्यान्यमार्ट इत्यत्रापि वृद्धिः प्राप्नोति इत्याशंक्य अनया परिभाषया दोषवारणपरभाष्यासंगतिः, ऋकरोत्तराज्भागेन व्यवधानादिति वाच्यम्। तत्र ऋकारस्य विशिष्टस्यैव कार्य्यित्वेनोत्तरभागस्याव्यवधायकत्वात्। किञ्च अन्यार्थं क्रियमाणेन इक्ग्रहणेनैवै तद्दोषवारणस्य 'ष्यङ' इति सूत्रे भाष्ये भाष्यकृतोक्तत्वेन नैतत्परिभाषाया: प्रयोजनमिति 'इको गुण' इति सूत्रस्थविवरणाच्च। न चैवमपि 'ष्यङ' इति सूत्रस्थभाष्यविरोधः। तत्र वसोस्संप्रसारणे प्रयोजनं विदुषः पश्येति प्रथमवकारस्य संप्रसारणाभावमनयोक्त्वा नैतदस्ति 'निर्दिश्यमानस्या' इति परिभाषया न भविष्यतीति उक्तम्। एवञ्च भावदुक्तरीत्या परिभाषायाः संचाराभावादिति वाच्यम्। परिभाषोपक्रमे कानि प्रयोजनानि 'न संप्रसारणे संप्रसारणमि'ति न वक्तव्यम्। कस्मान्न भवति व्यधेर्विरुद्धमिति। अनन्त्यविकार इति न दोषो भवति। नैतदस्ति। क्रियते न्यास एवेति भाष्यस्थ प्रतीकमुपादायान्त्यसमानदेशत्वाभावान्न संप्रसारणमित्यस्यावश्यकत्वादिति भाव इति वदता विवरणकृताऽत्रापि तत्समाधेर्बोधनात्। एवञ्च तत्र दोषमनुद्भाव्य क्रियते न्यास एवेति समाधिकरणवदत्रापि निर्द्दिश्यमानपरिभाषया समाधिकरणं बोध्यम्। एवमेवान्त्यसदेशानन्त्यसदेशयोरित्यर्थ स्वीकारेण स्य नमतीत्यादावनया प्राप्तातिव्याप्तिवारणपरभाष्यमपि बोध्यम्। अत एव मूलेऽपि नमतीत्यादीनां वारणोत्तरमेवान्त्यसदेशत्व निर्व्वचनं कुर्वता ग्रन्थकृतापि नमतीत्यादौ न तद्दोष इति गूढाशयः प्रदर्शितः। अन्यथा वारणन्तु एतादृशार्थाज्ञानमूलं भाष्यमूलकं मूले। परिभाषास्वीकारे मुख्या युक्तिस्तु 'अदसोऽसे'रिति सूत्रस्थं भाष्यमेव। अन्यत्र परिभाषाकरणलाघवेन यथाकथञ्चिद्दोष वारणसंभवेऽपि तत्रागतेरितिसंक्षेपः। उदात्तनिर्द्देशादिति।यथा 'ख्यत्यात्परस्ये'ति सूत्रेऽपि क्रमेणान्वयवारणार्थं यत्र स्वरितत्वं प्रतिज्ञातं तत्रैव यथासंख्यप्रवृत्तिस्तथा यत्रोदात्तनिर्देशस्तत्रैवेयमुपतिष्ठते इति भाव:। लक्ष्ये लक्षणस्येति। ननु विकारकृतलक्ष्यभेदानाश्रयणेऽङ्गस्येति सूत्रस्थवव्रश्चेत्युदाहरणपरभाष्यासंगति। तत्र संप्रसारणे, पूर्वरूपे, उरदत्वे च कृते पुनः प्राप्तसंप्रसारणनिषेधाय संप्रसारणत्वस्यातिदेशेनैव प्राप्यत्वात्। तस्य चोरदत्वस्थानिन्यभावेनातिदेष्टुमशक्यत्वात्। किन्तु पूर्वरूपस्थानिविद्यमानस्य तस्यातिदेशेन पूर्वरूपैकादेशेऽतिदेशपश्चादुरदत्वे पुनः तेनैवातिदेशेनोरदत्वे तस्यातिदेशो वक्तव्यः इत्यतिदेशस्य द्विवारं प्रवृत्तेः[2]। किञ्च पूर्वरूपोत्तरं परम्परया अङ्गनिमित्तप्रत्ययनिमित्तोरदत्वस्य बहिरङ्गत्वेनासिद्धत्वादभ्यासविकारे बाध्यबाधकभावाभावाद्वा [3]प्राप्तसंप्रसारणनिषेधाय संप्रसारणत्वातिदेशे पुनः उरदत्वोत्तरक्रियमाणनिषेधाय पूर्वरूपे तदतिदेशे पश्चादुरदत्वे तस्यातिदेष्टव्यत्वेन वारत्रयमतिदेशप्रवृत्तेः। न चोरदत्वात्पूर्वमतिदिष्टस्य संप्रसारणत्वस्य तत्प्रयुक्तनिषेधे उरदत्वे पुनरतिदेशेन तस्यैवातिदेशे द्विवारमेवातिदेश इति वारत्रयमतिदेशप्रवृत्तिरनुचितेति वाच्यम्। यत्कार्यप्रवृत्तये यद्धर्मबुद्धिस्तद्धर्मप्रयुक्ततत्कार्ये जाते तद्धर्मबुद्धेरेवाभावात्। अन्यथा हे मामक्यत्र तिष्ठेत्यादौ 'स्कोरि'ति कलोपाप्रवृत्तयेऽतिदिष्टात् संबुद्धेरनिवृत्तौ मकारोत्तराकारस्य संयोगपरत्वाभावेन गुरुत्वानापत्त्या प्लुतानापत्तेः। संयोगसंज्ञापूर्वपरोभयकार्यत्वेन त्वन्मतेऽपि गुरुसंज्ञानिमित्तसंयोगसंज्ञायां कथं न स्थानिवत्वमिति तु न वाच्यम्। न च गुरुसंज्ञायां कर्तव्यायां स्थानिवत्वम्, तस्यापि संयोगसंज्ञायामेव पर्य्यवसानात्। न चोरदत्वोत्तरं पूर्वरूपैकादेशस्य स्थानिवत्त्वेन संप्रसारणत्वातिदेशे पश्चादुरदत्वे तदतिदेशस्य कर्तुमशक्यत्वादिति वाच्यम्। उरदत्वेन तस्यापहारात्। मदुक्तरीतौ तु स्थानिवत्सूत्रस्थं निष्कौशाम्बिः, अतिखट्वः, अतिखट्वायेत्यादौ स्थानिवत्वेन आप्त्वात्प्राप्तसुलोपयाडादीनां वारणाय प्रवृत्तङ्यापस्थानिको दीर्घभिन्नः आदेशो न स्थानिवदित्यनर्थकं 'ङ्याब्ग्रहणेऽदीर्घः आदेशो न स्थानिवदि'ति वार्तिककृदुक्तमेव तत्रातिखट्वायेत्यादौ ह्रस्वे स्थानिवत्वेन प्राप्त आप्त्वनिषेधेन 'सुपि चे'ति दीर्घात्पूर्वं स्थानिवद्भाव इत्यर्थस्य सूचनात्। 'याडाप' इत्यादौआ आबिति प्रश्लेषमाश्रित्य वार्तिकप्रत्याख्यानपरभाष्यव्याख्यापकयत्रोदाहरणे सूत्रभाष्यवार्तिकानां फलभेदः [4]आपतति तेषामनभिधानमेव। यथाऽतिखट्वस्य अः अतिखट्वा इत्यादौ। तत्रहि भाष्यमते सुलोपः, वार्तिकमते तु स्थानिवद्भावनिषेधेनाप्त्वस्य ह्रस्वे विच्छिन्नत्वेनोत्तरत्वावरोहाभावात्। यत्तु दीर्घात्पूर्वं फलाभावेन स्थानिवत्वाप्रवृत्तौ फलभेदस्यैवाभावाच्च इति विवरणशेखरादिग्रंथास्तु प्राचीनानुसरणिमनुसृताश्चिन्त्या एव। मदुक्तरीत्या स्थानिवद्भावप्रवृत्तौ भाष्यवार्तिकयोरेकवाक्यत्वेनैव व्याख्येयत्वात्। पूर्वोक्तलक्ष्ये सुलोपवारणं त्वनभिधानादेव बोध्यम्। अत एव साक्षात्स्थानिनिष्ठधर्मातिदेशकत्वेन कृतार्थस्य सूत्रस्य न परम्परयातिदेशेन तत्संपादकत्वं दीर्घात्पूर्वं फलाभावेन तदप्रवृत्तावपि विशिष्टादेशोत्तरं तत्प्रवृत्त्या फलभेदस्य नवीनत्वेन तथाफलभेदवारकग्रंथासंगत्यापत्त्या तेन तद‌भावस्य बोधनाच्च। एतेनोरदत्वे एकवारमेवातिदेशप्रवृत्त्या स्वाश्रयाश्रयत्वरूपपरम्परा सम्बन्धेन तदंशे क्व पुनर्लक्षणस्य प्रवृत्तिरित्यपास्तम्। दीर्घभिन्नेऽतिदिष्टङ्याप्त्वमादाय नसुलोपादीनीत्यनुक्त्वा तथानिषेधकरणपरवार्तिककृताप्यस्यार्थस्य सूचनाच्च। परम्परयातिदेशे न मानमिति तत्र तत्र शेखरग्रन्थाच्च। यत्तु दीर्घादिति पूर्वोक्तग्रन्थात्तथैव लाभाच्च[5]। संप्रसारणत्वस्य स्थानिवत्त्वेनोपात्ताल्वृत्तित्वेन स्थान्यलमात्रवृत्तित्वेन च स्थानिवत्सूत्रान्तवद्भावाभ्यामपि तदनतिदेशात्। नन्वत्र स्थानिवद्भाव एव न प्राप्नोति वर्णैकदेशानां वर्णग्रहणेनाग्रहणमिति पक्षे स्वतन्त्रवर्णसदृशरेफाभ्यासस्य पूर्वोत्तरयोरज्भागयोः स्थानिवत्वात्। स्थानिवद्भावस्तु अच् एव य आदेशस्तत्रैव। अत एव मावयतीत्यादौ वृद्धिसिद्धिः। न च वर्णैकदेशानां वर्णग्रहणेन ग्रहणमुपपाद्य अथवा न गृह्यन्त इति भाष्यस्थ अथवेति प्रतीकमुपादाय नरसिंहवर्णान्तरत्वाच्च सादृश्याच्च प्रत्यभिज्ञानात्तत्वासिद्धया पृथगुपलब्धानां वर्णानां समुदायेनास्ति तत्त्वम्। समुदायवाचोयुक्तिरपि तत्र वर्णान्तरेण तात्विकीभ्रान्तिवशात्त्ववयवसद्भावाश्रयेण[6] प्रवृत्तेरिति कैयटेन तस्य भाष्यस्यैकदेश्युक्तित्वसूचनाद्दोष इति वाच्यम्। तुल्यास्यसूत्रे ऋकारलृकारयोः सवर्णविधिरिति वार्तिकेन तयो: सावर्ण्यस्वीकारे मातॄणमित्येतत्सिद्धये 'ऋवर्णान्नस्य णत्वमि'ति क्रियमाणवार्तिकेन क्लृप्यमानं पश्य इत्यत्र दोषाशङ्कायां सिद्धान्तिनाप्यसत्यामपि सवर्णसंज्ञायामिह कस्मान्न भवति प्रक्लृप्यमानं पश्येति एवञ्च पृष्टे 'चुटुतुलशर्व्यवायेने'ति न्यासेन वर्णैकदेशाश्च वर्णग्रहणेन गृह्यन्त इति योऽसौ लृकारे लकारस्तदाश्रयः प्रतिषेधो भवतीति समाहिते मयापि तर्हि ऋवर्णैकादेशं रेफमादाय मातॄणामित्यादौ णत्वसाधनेन 'ऋवर्णान्नस्य णत्व'मित्यस्य प्रत्याख्यानान्न क्लृप्यमाने णत्वप्रसङ्ग इति सूत्रशेषे उपसंहृतम्। एवञ्च सवर्णविधिस्वीकर्तृकर्तृकोऽयमुपसंहार इति तस्यैकदेश्युक्तित्वेन प्रमाणाभावात्। नहि एकदेशिना सवर्णविधिः स्वीकृतः किन्तु सिद्धान्तिनैव। अन्यथा णत्वं दुर्न्निवारं स्यात्। ऋलृवर्णयोस्सवर्णविधिं स्वीकृत्य कदाचिद् ईषत्पृष्टः कदाचिद्विवृतः ऋकारलृकाराभ्यां रूपद्वयस्यापि सूत्रेणैव सिद्धौ 'ऋति ऋवे'तिवार्तिकद्वयमपि न कर्त्तव्यमिति लाघवपक्षपातित्वेनास्य सिद्धान्तित्वम्। किञ्च वर्णैकदेशानां वर्णग्रहणेन ग्रहणे सन्ध्यक्षरेषु समानाक्षरविधिप्रतिषेधः अग्ने इन्द्रमित्यादावकः सवर्णे दीर्घ इति दीर्घत्वं प्राप्नोतीत्यादिदोषमुद्भाव्याभिन्नबुद्धिविषयस्यावयवे स्वतन्त्रवर्णाश्रयो विधिर्नेत्यर्थेनाव्यपवृक्तस्यावयवे तद्विधिर्यथा द्रव्येषु इत्यादि सर्वत्र समाधिं कुर्वता वव्रश्चेत्यादौ स्थानिवद्भावाभावमाशङ्क्य तत्रांशे समाधिमकुर्व्वता तत्र स्थानिवद्भावेनेष्ट इत्यस्य बोधनाच्च। एवञ्च स्थानिवद्भावस्य प्रशक्तेरेवाभावे क्व विकारकृतलक्ष्यभेदाश्रयणमिति चेन्न। क्लृप्यमानादौ णत्वाभावाय[7] क्षुभ्नादिपाठेन सिद्धे तावन्मात्रस्य सिद्धे[8] तुल्यादिसूत्रस्थभाष्यस्यैकदेश्युक्तित्वात्। किञ्च एओङ्, ऐऔजिति सूत्रे भ्रान्तिवशादिति कैयटप्रतीकमुपादाय एवञ्च भ्रान्तिरेव ग्रहणपक्षे बीजमिति भाव इति वदता तस्यैकदेश्युक्तित्वस्य त्वयापि बोधनाच्च। किञ्च वव्रश्चेत्युदाहरणपराङ्गस्येति सूत्रस्थभाष्यविरोधाच्च। अपि चोरद् इति सूत्रस्थवव्रश्च इत्युदाहरणपरत्वदीयशेखरग्रन्थविरोधाच्च। एवञ्च विकारकृतलक्ष्यभेदानाश्रयणे प्रकृते गतिः। किञ्चस्थानिवत्सूत्रे शेखरे। न च तण्डुलानित्यादौ स्थानिवद्भावेन प्रत्ययान्तत्वेऽपि स्वतः [9]प्रत्ययान्तभिन्नत्वात् प्रातिपदिकात्वापत्तिरिति वाच्यम्। अतिदिश्यमानधर्मविरुद्धस्वाश्रयकार्य्याभावस्यातिदेशस्वभावसिद्धत्वादिति समाधिं कुर्वता विकारकृतलक्ष्यभेदाश्रयणात्। तथाहि तण्डुल अस् इत्यवस्थायां प्रकृत्यवयवाकारप्रत्ययावयवाकारयोः पूर्वसवर्णैकादेशे सकारस्य नकारादेशे च रूपसिद्धिः। तत्र नकारादेशस्य स्थानिवत्त्वं तु वक्तुमशक्यं प्रत्ययत्वस्य तत्स्थानिधर्मत्वाभावात्। न च 'उरण् रपर' इति सूत्रस्य 'इदुदुपधस्ये'ति सूत्रस्थ इह कस्मान्न भवति पितुः करोति अप्रत्ययस्येति षत्वं प्राप्नोति। अप्रत्ययविसर्जनीयस्येत्युच्यते प्रत्ययविसर्ज्जनीयश्चायं लुप्यतेऽत्र प्रत्ययविसर्ज्जनीयो 'रात्सस्ये'ति भाष्येण ऋकाराकारयोः उरित्यादेशे सकारमात्रस्य प्रत्ययत्वबोधनात् प्रकृतेऽपि सकारमात्रस्य प्रत्ययत्वाक्षतिरिति वाच्यम्। तावतापि तस्य स्थानित्वेनोपात्ताल्वृत्तित्वेन तदनतिदेशात्। न च अस् इत्यस्य स्थाने आन् इत्यादेशः तत्रापि त‌दभावात्। न च असित्यस्य परादिवद्भावेन प्रत्ययत्वातिदेशे पश्चात्तस्य अनित्यत्रातिदेशेन बाधइति वाच्यम्। तत्रासित्यस्य स्थानी प्रत्येकमकारोऽथवा प्रकृत्यकारोऽसिति प्रत्ययस्य समुदायः तत्रापि द्वितीयेऽनुद्भूतावयवभेदस्य स्थानित्वम् उत उद्भूतावयवभेदस्य। नाद्यः। प्रत्ययावयवाकारे प्रत्ययत्वाभावात्। समुदायनिवेशनीयत्वात् प्रत्ययसंज्ञायाः न द्वितीये आद्यः समुदायस्यानुद्भूतावयवस्य स्थानित्वे समुदायवृत्तिधर्मातिदेशेऽपि एकदेशवृत्तिधर्मानतिदेशात्। न द्वितीये द्वितीयः। स्व इरिन्नित्यादौ वृद्धिभिया [10]आनुमानिकादेशस्थानिवत्त्वस्य तत्र कल्पनात्। किञ्चानित्यस्य परम्परया स्थानिवत्वेऽपि प्रकृत्यकारप्रत्ययसमुदायवृत्तिधर्म्मातिदेशे अपि तदेकदेशवृत्तिप्रत्ययत्वातिदेशाऽभावाच्च। वव्रश्चेत्यत्र परम्परया स्थानिवद्भाव संभवति प्रकृते तु सोऽपि नेति विशेषः। तस्मात्तण्डुल असित्यस्य तण्डुलासित्यादेशे तत्र स्थानिवत्सूत्रेणातिदिष्टस्य तस्य तण्डुलानित्यादेशेऽतिदेश इत्यस्यावश्यं वक्तव्येन शङ्कासमाधानादिति सङ्गतिः। एवञ्च विकारकृतलक्ष्यभेदोऽपरित्यक्त इति सुधीभिरुह्यम्। किञ्च 'निपात एकाजनाङ्' इति सूत्रे वासुदेववाचक-अशब्दस्याङा सहाव्ययीभावे आ अमित्यादौ सत्यभिधाने स्वत आङ् भिन्नत्वेन निपातत्वेऽपि प्रगृह्यत्वं न। पूर्वान्तत्वेनाङत्वातिदेशेऽतिदिश्यमानधर्मविरुद्धस्वाश्रयधर्मप्रयुक्तकार्य्यनिवृत्तेरतिदेशस्वभावसिद्धत्वादिति शङ्कासमाधानं कुर्व्वता शेखरकृता तदाश्रयणबोधनात्। तत्राङाकारेणाव्ययीभावे सवर्णदीर्घे नपुंसकह्रस्वे 'अमि पूर्वः' इति पूर्वरूपे अमिति रूपसिद्धिः। एवञ्चात्रापि स्थानिवद्भावाद् ह्रस्वं प्रार्थ्यम्। वस्तुतस्तु सवर्णदीर्घैकादेशे पूर्व्वान्तत्वेन निपातत्वातिदेशे पश्चात् स्थानिवत्वेन ह्रस्वैकादेशेऽतिदेशेन शङ्कासंगतिः। पूर्वान्तत्त्वेनाङ्त्वेह्रस्वत्वेऽतिदेशे स्थानिवत्त्वेन सुकर इति समाधानसंगतिश्च। यत्तु स्थानिवत्सूत्रस्थादेशि[11]न्यलाश्रीयमाणे प्रतिषेधे कुर्व्वित्यत्र स्थानिवद्भावादङ्गत्वं स्वाश्रयञ्च लघूपधत्वं तत्र लघूपधगुणः प्राप्नोति इत्याशङ्क्य करोतौ तपरकरणात् सिद्धमिति भाष्यं तत्रकरोताविति प्रतीकमुपादायाकारस्य ह्युकारोमात्रिक एव न्याय्य इति शास्त्रान्तरेणापि[12] प्राप्तस्य भिन्नकालस्य निवृत्त्यर्थं तपरत्वमित्यर्थ इति कैयटमादाय ऋकारस्थानिकावयव- विकारोऽत्रेति लक्ष्यभेदात् नोद्वोढामितिवल्लक्ष्ये लक्षणस्येति न्यायेनात्र निर्व्वाहः इत्याहुरिति विवरणे उक्तम्। भिन्नलक्षणेनात्र गुणप्राप्त्या कथमत्र न्यायसंचार इति चिन्त्यम्। अत एवाहुरित्यस्वरसोद्भावकम्[13]। विधीयमानगुणरूपं समानफलकत्वमादाय यथाकथञ्चिन्नेयमित्यलं प्रकृतविचारविरोधिन्या कुसृष्ट्या। किञ्च 'न सम्प्रसारण' इति सूत्रे शेखरे, न च व्ययिव्यधादावस्य चारितार्थ्येन यून इत्यादौ पूर्वं सवर्णदीर्घरूपैकादेशे तस्य 'अचः परस्मिन्नि'ति स्थानिवत्त्वेन संप्रसारणत्वेऽपि तेनैव स्थानिवत्वेनोकारव्यवधानात् कथं निषेध इति वाच्यम्। व्यथ इति सूत्रे य ग्रहणेनैव सिद्धे[14] संप्रसारणग्रहणस्यैतन्निषेधकतयैव चारितार्थ्यस्य वक्तव्यत्वेन व्यवहितत्वेऽपि प्रवृत्तेरित्युक्तम्। अनेन विकारकृतलक्ष्यभेदाश्रयणं पूर्वं स्थानिवद्भावेन स्थानिनिष्ठधर्मातिदेशोत्तरमादेशे तस्य तत्रातिदेशेन तत्त्वाश्रयणमित्यपि सूचितम्। न च परादिवद्भावेन संप्रसारणत्वे 'अचः परे'ति स्थानिवद्भावेन व्यवधानमित्याशय इति वाच्यम्। संप्रसारणत्वस्य स्थान्यल्मात्रवृत्तित्वेन तदनतिदेशात्। एवञ्चातिदेशविषये शतशो विकारकृतलक्ष्यभेदाश्रयणं स्पष्टं तत्र तत्र ग्रन्थेषु सूक्ष्मदृशम्। ननु वव्रश्चेत्यादिभाष्यादतिदेशविषये विकारकृतलक्ष्यभेदाश्रयणेन सर्वत्र निर्वाह इति वाच्यम्। तावताप्यगतेः। 'भो भगो', 'ईदूदेद्द्विवचनमि'ति सूत्रस्य भाष्यविरोधात् तत्राद्येऽशोऽन्यत्र रोरभावेनाश्ग्रहणमनर्थकमित्यर्थकमश्ग्रहणानर्थक्यमन्यत्राभावात्। ननु चायमस्ति छन्दःसु पयःसु अल्विधित्वात्कथमिदमस्ति 'रोरी'ति ततो वक्ष्यामि 'खरवसानयोर्विसर्जनीयः' इत्यनुवर्तते ततो 'रोः सुपि' विसर्जनीयः र इत्येव। एवञ्च छन्दःसु पयःसु इत्यत्र 'रोःसुपीति विसर्गः स च रो रेफस्येत्यल्विधित्वमित्याशयः। अनेन भाष्येण स्थानिवत्सूत्रस्थं विशिष्टं ह्येषोऽनलमाश्रीयते इटं नामेति भाष्येण चानल्विधावित्यस्य स्थानिवत्वेनोपात्ताल्वृत्तिधर्माश्रितेन स्थानिवत्त्वमित्यर्थः सूचितः। एवं स्थिते ऋधातोर्ल्लिटि आरेत्यादौ दोषः। तत्र चोरदत्वे रेफनिवृत्त्या भाव्यं सा च न प्राप्नोति स्थानिवत्त्वेनोपात्ताल्वृत्तित्वस्याभ्यासत्वे सत्वात्। न च स्थानिवत्सूत्रे ऋधातोर्ल्लिटि द्वित्वेऽभ्यासस्योरदत्वे अरित्यस्य हलादिः शेषस्तु अरित्यस्य पुनः पूर्वोऽभ्यास इत्यनेनाभ्यासत्वात्तस्यापि द्विरुक्तधातुपूर्वभागसत्वात्। प्रक्रियाज्ञानवतां तथा ज्ञानस्य सुलभत्वादिति शेखरे समाहितमेवेति वाच्यम्। संज्ञाविषये विकारकृतलक्ष्यभेदाश्रयणेन आगतमेवेति दोषध्रौव्यात्। न च ऋकारस्थानिकावयवविकारोऽत्र लक्ष्यभेदादिति पूर्वोक्तस्थानिवत्सूत्रस्थविवरणरीत्या लक्ष्यभेद इति वाच्यम्। अवयवविकारोऽत्रेति वदता विशिष्टे लक्ष्यभेदाभावबोधनेन वैषम्यात्। द्वितीये तु तपरकरणेन प्लुतानां प्रगृह्यसंज्ञा न प्राप्नोति कार्यकालपक्षे प्रकृतिभावविधायकैकवाक्यत्वात्। अस्य प्रकृतिभावदृष्ट्या च सिद्धः प्लुतः स्वरसंधिष्विति आशङ्क्यासिद्धत्वेन समाहितम्। यथोद्देशपक्षो गृह्यत इति तदाशयः। प्लुतप्रगृह्या अचीति सूत्रे प्लुतशब्देन तत्स्थानी लक्ष्यते अतो न दोष इत्युक्तम्। एवमपि कार्यकालपक्षे अणोऽप्रगृह्यस्येति सूत्रेणास्यैकवाक्यतायामनुनासिकविधायकसूत्रदृष्ट्या प्लुतस्य सिद्धत्वात्। द्विमात्रबुद्धेरभावेन प्रगृह्यत्वाभावेऽनुनासिकः स्यादिति दोषे प्राप्ते यथोद्देशपक्षाश्रयणेनैव समाहितम्। एवञ्चेदूदेद्द्विवचनमिति सूत्रे यथोद्देशपक्ष एव लक्ष्यानुरोधात् भगवता आश्रितः। अनुनासिकभिया आश्रितेऽपि यथोद्देशेऽनुनासिको न वारितः। प्रगृह्यसंज्ञादृष्ट्या प्लुतस्यासिद्धत्वेन ततः प्राक् प्लुताभावे प्रगृह्यत्वेऽनुनासिकप्रतिबन्धेन फलवत्वं प्रगृह्यसंज्ञायां ततः प्लुते तस्यासिद्धत्वेन द्विमात्रबुद्धावपि पुनः प्रगृह्यत्वप्रवृत्तौ प्रमाणाभावेऽनुनासिकदृष्ट्या प्लुतस्य सिद्धत्वेनानुनासिकः स्यादिति यथोद्देशाश्रयणं भाष्याकृदुक्तमयुक्तम्। तस्मात्पुनः प्रगृह्यसंज्ञायां सत्यामनुनासिकाभावे एव भाष्यसंगतिर्नान्यथा। स्पष्टश्चयमर्थो विवरणेऽणो प्रगृह्यस्येति शेखरे च। एवञ्च पुनर्लक्षणप्रवृत्तिर्भाष्ये ध्वनिता। पूर्वभाष्यविकारकृतलक्ष्यभेदेऽपि पुनर्लक्षणप्रवृत्तिबोधकम्। इदन्त्वेकस्मिन्नेव लक्ष्येलक्षणप्रवृत्तिबोधकम्। तद्दृष्ट्या प्लुताभावात्। द्विमात्रबुद्ध्या जायमाना सा प्लुते एवेत्यन्यत्। ततश्चातिदेशसूत्रविषयातिरिक्तविकारकृतलक्ष्यभेदो नाश्रीयत इत्युक्तेऽपि यत्र दोषः। ननु तर्हि संज्ञातिदेशातिरिक्तविषये विकारकृतलक्ष्यभेदो नाश्रियतेऽत्र मानं तु पूर्वोक्तभाष्यमेवेति चेन्न। 'प्रत्ययस्थात्कात्पूर्वस्ये'तिसूत्रस्थशेखरविरोधात्। तत्र हि सूत्रे न च क इति वर्णग्रहणे एतिकाश्चरन्तीत्यादावकारद्वयव्यवधानादित्वानापत्तिः। द्वयोरकारयोरेकादेशे  टापा सहैकादेशस्य स्थानिवद्भावादेकेनैवाकारेण व्यवधानात्। पुनः स्थानिवत्त्वं तु न। लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तेरित्युक्तम्। न च शेखरोऽपि प्राचीनमतावलम्बीति नास्माकं मार्गमवरुणद्धि। एतिकेत्यादावकारद्वयव्यवधाने इत्वं तु न 'यासयो'रिति ज्ञापकात् श्रौतमव्यवधानमादायाकारशब्देनात्वजातिग्रहणमा-दाय वा सुकरमिति वाच्यम्। 'ष्यङः संप्रसारणमि'ति सूत्रस्थभाष्यविरोधात्। तत्र हि अनन्तविकार इति परिभाषामङ्गीकृत्येव बहूनि प्रयोजनानीत्युक्त्वा क्लिष्टकल्पनया निवार्य्य मृजेवृद्धिविधौ प्रयोजनं न्यमार्ट आटोऽपि वृद्धिः प्राप्नोति अनन्त्यविकारऽन्त्यसदेशस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनं यथा परिभाषितम् 'इको गुणवृद्धी'ति इक एव वृद्धिर्भविष्यति। एवमपि मिमार्ज्जिषतीत्यत्रापि प्राप्नोति। अस्तु अभ्यासनिर्ह्रासेनात्रापि ह्रस्वत्वं भविष्यतीत्युक्तम्। तत्र वृद्धेः पूर्वमन्तरङ्गत्वाद्द्वित्वे परत्वादभ्याकार्य्ये वृद्धावपि पुनर्ह्रस्वे रूपसिद्धिरित्याशयः। न चैतद्भाष्यं विकारकृतलक्ष्यभेदानाश्रयकभाष्यविरुद्धमिति वाच्यम्। तदनाश्रयकभाष्यस्यैवानुपलम्भात्। ननु उदवोढामित्यादौ उद् वहस् तामिति स्थिते सिज्लोपादेरसिद्धत्वात्सिचि वृद्धावोकारे लक्ष्ये लक्षणस्येति न वृद्धिरिति शब्दरत्नशेखरादौ अनूदितं सिचिवृद्धिरिति सूत्रस्थं भाष्यमेव मानमिति चेन्न। तत्सूत्रे तादृशभाष्यस्यैवाभावात्। तथा हि सिचि परतो या वृद्धिर्व्वदव्रजेति तस्याः प्रतिषेध इत्यर्थकं सिचि वृद्धावोकारप्रतिषेधो वक्तव्यः। उदवोढां सहिवहोरित