Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्


ननु 'तित् स्वरितम्' इति स्वरितत्वं 'चिकीर्षती'त्यादौ स्यादत आह – 

प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम्।१११।

इयं च 'अङ्गस्य' इति सूत्रे भाष्ये पठिता। वर्णग्रहणे च न वर्तत इति तत्रैव कैयटे स्पष्टम्। अत एव 'सनाशंसभिक्ष उः' 'वले' इत्यत्र सन्वलयोः प्रत्यययोर्ग्रहणम्। परे तु 'तित् स्वरितम्' इति सूत्रे एषा परिभाषा लक्ष्यसंस्काराय भाष्ये क्वापि नाश्रितेति कैयटेनोक्तम्। 'अङ्गस्य' इति सूत्रे तत्प्रत्याख्यानायैषा भाष्य एकदेशिनोक्ता। अत एव 'तिति प्रत्ययग्रहणं कर्तव्यमिति वार्तिककृतोक्तम्। उक्तसूत्रयोर्व्याख्यानात् प्रत्यययोरेव ग्रहणमित्याहुः॥१११॥

 


कामाख्या

वर्णग्रहणेनेति। तेन 'इको यणची'त्यत्रास्या अप्रवृत्तौ सुद्ध्युपास्य इत्यादौ यण्सिद्धिः। अन्यथा अस्यापत्यमिः, एरयनं ययनमित्यत्रैव स्यात्। एवम् 'आद्गुण' इति गुण औपगवे इत्यादावेव स्यादिति बोध्यम्। अतएवेति। परिभाषास्वीकारादेव। तत्प्रत्याख्यानाय। अङ्गस्य प्रत्याख्यानाय। तत्फलस्य ब्राह्मणभिस्सेत्यस्य अनयैव सिद्धेः। अतएव। परिभाषाया अभावादेव। केचित्तु 'वनो र च', 'वसोः संप्रसारण'मित्याद्यर्थं परिभाषाया आवश्यकत्वम्। अन्यथा वन वसु धात्त्वोपरि ग्रहणापत्तेः। तितिप्रत्ययग्रहणमिति। वार्तिकन्तु परिभाषालब्धार्थानुवादभूतमेवेत्याहुः॥१११॥


परिभाषार्थमञ्जरी

तत्प्रत्याख्यानायेति। ननूच्चारणार्थानामपीत्संज्ञां विना निवृत्त्यभावस्य 'तस्य लोप' इति सूत्रभाष्ये उक्ततया औतस्तित्त्वेऽपि प्रत्ययाप्रत्यययोरित्येव सिद्धे पुनस्तितिप्रत्ययग्रहणं कर्तव्यमिति वार्त्तिकेनौपदेशिकप्रत्ययत्वं भवत्येव, तत्प्रवृत्त्या न स्वरितत्त्वमिति स्वरितत्त्ववारकशब्दरत्नविरोध इति चेन्न। तस्य प्राचामनुरोधित्वेनादोषात्। अत एव शेखरे इमां परिभाषामत्रोक्तरीत्या प्रत्याख्याय अग्नावित्यत्र स्वरितत्त्ववारणं तु प्रत्ययग्रहणमित्यस्य विधानकालिकप्रत्ययत्ववदग्रहणमित्यर्थेन कृतम्। शब्दरत्नेऽपि आदेशेषु दकारस्थानिकचर्त्वनिष्पन्नतकारस्य सत्वेन द्वित्वात्तदप्राप्तेश्चेत्यग्रे समाहितमेवेति ध्येयम्॥१११॥