Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति

तत्रापवादपदार्थमाह

येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति।५८।

प्राप्त इति भावे क्तः। येन नाप्राप्त इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थः, नञ्द्वयस्य प्रकृतार्थदार्ढ्यबोधकत्वात्। एवञ्च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तिसामान्यधर्मावच्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण बाधः। तदप्राप्तियोगेऽचारितार्थ्यं ह्येतस्य बाधकत्वे बीजम्। अत एव 'आयादयः' इति सूत्रे गोपायिष्यतीत्यादौ आयादीन् बाधित्वा परत्वात् स्यादयः प्राप्नुवन्तीत्याशङ्क्य 'अनवकाशा आयादयः'। 'गोपायतीत्यादावपि शप्स्यादिः प्राप्नोति। न च सति शप्यसति वा न विशेषः, अन्यदिदानीमिदमुच्यते नास्ति विशेष इति। यदुक्तमायादीनां स्यादिभिरव्याप्तोऽवकाश इति स नास्त्यवकाश इति भाष्ये उक्तम्। एमत्र तत्प्रवत्त्युत्तरं चारितार्थेऽपि तदव्याप्तोऽवकाशो नास्तीति सममेव। किञ्चानेन न्यायेन तत्प्रवृत्त्युत्तरमपि चारितार्थ्ये तद्बाधबोधनम्। अन्यथानवकाशत्वेनैव बाधे सिद्धे एतत्कथनवैयर्थ्यापत्तेस्तक्रकौण्डिन्यन्याय-प्रदर्शनस्यापि वैयर्थ्यापत्तेश्च। यथा प्रथमद्विवचनस्य तदुत्तरं सावकाशेनापि द्वितीयद्विर्वचनेन बाधः। यथा वा आदेरपि प्रवृत्त्या चरितार्थेन 'आदेः परस्य' इत्यनेन 'अलोऽन्त्यस्य' इत्यस्य बाधः। तदुक्तं 'मिदचोऽन्त्यात्' इति सूत्रे भाष्ये 'सत्यपि सम्भवे बाधनं भवती'ति। अन्यथा 'ब्राह्मणेभ्यो दधि दीयतां तकं कौण्डिन्याये'त्यत्र तक्रदानेन दधिदानस्य बाधो न स्यात्। तद्दानोत्तरं तत्पूर्वं वा तद्दानस्य चारितार्थ्यसम्भवात्। अत एव विषयभेदेऽप्यपवादत्वम्। अत एवाचिरादेशेन नुटोऽप्यपवादत्वाद्बाधमाशङ्क्य 'न तिसृ' इति ज्ञापकेन समाहितं तृज्वत्सूत्रे भाष्ये। तेन विषयभेदेऽपवादत्वाभाव एव बोध्यत इति कश्चित्, तन्न। विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः। यत्तु 'दयतेर्दिगि' इति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटेनोक्तं तत् प्रौढ्या। ध्वनितं च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन। 'असम्भव एव बाधकत्वं विरोधस्य तद्बीजत्वात्' इति वार्तिकमतं तु भाष्यकृता दूषितत्वान्न लक्ष्यसिद्ध्युपयोगि। तक्रकौण्डिन्यन्यायोऽपि तदप्राप्तियोग्येऽचरितार्थविषयो विधेयविषय एव चेति 'तद्धितेष्वचामादेः', 'धातोरेकाच' इत्यादिसूत्रेषु भाष्ये स्पष्टम्। क्वचित्तु सर्वथानवकाशत्वादेव बाधकत्वम्, यथा ङेरामो याडादिबाधकत्वम्। न हि याडादिषु कृतेषु ङेराम् प्राप्नोति, निर्दिश्यमानस्य व्यवधानात्। तत्र स्वस्य पूर्वं प्रवृत्तिरित्येव तेषां बाधः। तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव। यथा तत्रैव याडादयः। अप्राप्तौ तु न। यथा पचेयुरित्यादौ दीर्घबाधके निरवकाश इयादेशे दीर्घाभावः॥५८॥

 

कामाख्या

अन्तरङ्गादपीति। अपिना परनित्ययोः संग्रहः। अपवादपदार्थस्य सनिरूपकत्वेन यन्निरूपितापवादभूतं यच्छास्त्रं तत् तस्मात्परान्नित्यादन्तरङ्गादपि बलवत् अपवादत्वादित्यनुमानाकारः। तत्रैति। सप्तम्यर्थो घटकत्वम्, तच्छब्देन परनित्यन्तरङ्गापवादानामिति संग्राहकवाक्यं गृह्यते। पूर्वोक्तानुमानप्रयोगो वा।येननेति। अयमेव परिभाषास्वरूपः। नाप्राप्त इत्यत्र निषेधार्थकनशब्दस्य अप्राप्त इत्यनेन सह सुप्सुपेति समासः। येनेति कर्तरि तृतीया। भावेक्तइति। नपुंसके भावे क्तस्य योगे षष्ठ्या उपसंख्यानमिति षष्ठी। यथा छात्रस्य हसितमित्यत्र भवति। तथा न, शेषषष्ठ्या तस्य प्रत्याख्यानेन अत्र शेषत्वाविवक्षणात्। अवश्यप्राप्ताविति। मान्तसमानार्थकावश्यशब्देन समासः। अत एवावश्यकाधर्मयोरिति निर्देशः संगच्छते। अन्यथा मान्तस्य योपधत्वाभावादन्वयो बाधादिति वुञोऽप्राप्त्या निर्देशासंगतेः। नञ्द्वयस्येति। नञर्थकपदद्वयस्येत्यर्थः। फलितमाह एवंचेति। विशेषशास्त्रोद्देश्यभूतं यद्विशेषधर्मावच्छिन्नं तद्वृत्तिर्यः सामान्यधर्मस्तदवच्छिन्नोद्देश्यताकशास्त्रस्येत्यर्थः। यथा 'दादेर्धातोर्घ' इति विशेषशास्त्रेण 'होढ' इति सामान्यशास्त्रस्य बाधः। अत्र विशेषशास्त्रोद्देश्यतावच्छेदकं दादिधात्ववयवहत्वम्, सामान्यशात्रोद्देश्यतावच्छेदकं सामान्यहत्वमिति बोध्यम्। अनेन स्वीयोद्देश्यतावच्छेदकव्यापकधर्मावच्छिन्नोद्देश्यताकशास्त्रस्य स्वं बाधकमिति फलितम्। व्यापकत्वं बाध्यताबीजमुक्त्वा व्याप्यत्वं बाधकताबीजमाह तदप्राप्तियोग्येइति

अयमाशयः – बाधकत्वे चत्वारि बीजानि तच्छास्त्रीयोद्देश्यतावच्छेदक-व्याप्योद्देश्यतावच्छेदकत्वे सति तत्प्रवृत्त्युत्तरचारितार्थ्यम्।१। तच्छास्त्रीयोद्देश्यतावच्छेदकव्याप्योद्देश्यतावच्छेदकत्वे सति तत्प्रवृत्त्युत्तर-चारितार्थ्याभाववत्वम्।२। तच्छास्त्रीयोद्देश्यतावच्छेदकव्याप्योद्देश्यतावच्छेदकत्वे सति स्वप्रवृत्त्युत्तरोत्सर्गशास्त्रप्रवृत्तिप्रयोज्य स्वप्रणयनवैयर्थ्यम्।३। तदुद्देश्यतावच्छेदकव्याप्योद्देश्यतावच्छेदककत्वम्।४। अत्र प्रथमबीजन्तु तक्रन्यायमूलकम्। द्वितीयन्तु निरवकाशमूलकम्। तत्र प्रथमतृतीयबीजयोः स्वीयोद्देश्यातिरिक्तत्व स्वविधेयवद्घटकातिरिक्तत्वोभयरूपेण संकोचः। तेन 'लिटि धातोरनभ्यासस्ये'त्यत्र 'अजादे'रिति शास्त्रीयोद्देश्यातिरिक्तत्व तद्विधेयवद्घटकातिरिक्तत्वोभयरूपेण संकोचादुर्णुनावेत्यादौ द्वितीयैकाचो द्वित्वोत्तरमपि प्रथमैकाचो द्वित्वन्न, एवमा'मि सर्वानाम्नः सुडि'ति शास्त्रेण 'ह्रस्वनद्याप' इति शास्त्रे उभयरूपेण संकोचात् सर्वेषामित्यत्र सुडुत्तरमपि नुट् नेति प्रथमस्य फलम्।१। द्वितीयबीजस्थले स्वीयोद्देश्यातिरिक्तत्वेन संकोचः तेन 'आद्गुण' इति शास्त्रे वृद्धिरेचीति शास्त्रेण उक्तरूपेण संकोचात् कृष्णैकत्वमित्यादावाद्गुण इति न। एवं 'याडाप' इति शास्त्रे 'ङेरामि'ति शास्त्रेणोक्तरूपेण संकोचात् पूर्वमामि, ततो याट् सिद्धिरिति द्वितीयस्य फलम्।२। 'स्वमोर्नपुंसकादि'ति शास्त्रे 'अतोऽमि'ति शास्त्रेण उक्तोभयरूपेण संकोचाज्ज्ञानमित्यादौ अमुत्तरमपि लुक् नेति तृतीयस्य फलम्।३। चतुर्थबाधबीजस्थलेऽपि उक्तोभयरूपेणैव संकोचः। तेन 'संबुद्धौ चे'ति शास्त्रेण 'हल्ङ्यावि'ति शास्त्रे उक्तोभयरूपेण संकोचाद्धे रमे इत्यत्र एत्वोत्तरमपि लोपाभावेन 'एङ्ह्रस्वादि'ति सम्बुद्धिलोप इति कौमुदी संगच्छते। न चैवं सम्बुद्धौ प्रतिपदोक्तत्वेन शीघ्रोपस्थितिकतया हल्ङ्यादिलोपात् प्रथममेत्वे इत्यादिशेखरग्रन्थासंगतिरिति वाच्यम्। तस्याप्युक्त एवाशय इति कल्पनेनादोषात्। अन्यथा हल्ङ्यावितिशास्त्रस्यापि स्वांशे प्रतिपदोक्तत्वेन तदसंगत्यापत्तेः। न च प्रथमबाधबीजेनैव सिद्धे किमर्थं चतुर्थबीजमिति वाच्यम्। 'इदमो म' इति शास्त्रेण सौ तक्रन्यायाप्रवृत्तिज्ञापनात्। अन्यथा 'इदोय पुंसि' इति शास्त्रेण 'त्यादादीनाम' इति शास्त्रे उक्तोभयरूपेण संकोचेनैव अयमिति सिद्धे तद्वैयर्थ्यं स्पष्टमेवेति। एवं चतुर्थबाधबीजस्यापि 'इदमो म' इत्यनेनानित्यत्वम्। तेन सखेत्यत्रानङुत्तरं हल्ङ्यादिलोपसिद्धिः। वेधा अनड्वानित्यत्र दीर्घाद्युत्तरं सुलोपसिद्धिश्चेति। केचित्तु चतुर्थबाधबीजेनैव सिद्धौ प्रथमद्वितीयतृतीयानां वैयर्थ्यमाहुः। तत्र च स्वोद्देश्यातिरिक्तत्वेनैव संकोचेऽपि आमि आकारप्रश्लेषेण आकारादेरामो नुडागम इत्यर्थे सुडुत्तरन्न नुट्। उभयरूपेण संकोचे तु रमायामित्यत्र आमुत्तरं याडनापत्तिः। कुलमित्यादौ तु लुकं बाधित्वाऽमि, पुनः सन्निपातपरिभाषया न लुगिति। द्वितीयैकाचः परत्वाद् द्वित्त्वे 'अनभ्यासस्ये'ति प्रतिषेधात् सकृद्गतिन्यायाच्च प्रथमैकाचो द्वित्वन्न। न चैवं भाष्यादौ तक्रन्यायादिप्रदर्शनवैयर्थ्यापत्तिरिति वाच्यम्। तस्याप्यत्रैव तात्पर्यकल्पने लाघवात्। यत्तु तक्रन्यायस्वीकारे 'ईघ्राध्मोः' हन्तेर्हिंसायां घ्नीभावो वाच्य इत्याभ्यां द्वित्वस्य 'तदोः सः सावनन्त्ययोः' 'अनाप्यक' इत्याभ्यां 'त्यादादीनाम' इत्यस्य च बाधापत्तिरिति। तन्न, उक्तरीत्याऽनित्यत्वेनैतेषु तक्रन्यायाप्रवृत्तेः। यत्तु तक्रन्यायानङ्गीकारे तद्बाधमूलक नेमौ रहौ कार्यिणौ किन्तर्हि निमित्तमौ 'द्विर्वचनस्ये'ति भाष्यासंगतिः। हर्यनुभव इत्यादौ रेफस्य द्वित्वापत्तिश्चेति तन्न, भाष्ये तत्र माठरपरिवेषणन्यायेनैव बाधप्रदर्शनात्। तक्रन्यायस्य विधेय विषयत्वस्वीकाराच्चेति दिक्।

तदप्राप्तियोग्येऽचरितार्थ्यं ह्येतस्य बाधकत्वे बीजमिति वदतो नागेशस्य व्याप्तावकाशत्वमेव बाधकत्वे बीजम्। अत एवायादय इत्यादिभाष्यं संगच्छते। एवं तत्प्रवृत्त्युत्तरं चारितार्थ्येऽपि व्याप्तावकाशत्वस्य सत्त्वेन बाधकत्वं सुघटम्। एवमनवकाशस्थलेऽपि बोध्यमिति गुरुचरणा आहुः।

ननूद्देश्यतावच्छैदकयोर्व्याप्यव्यापकभावो बाधप्रयोजक इति स्वीकारे 'एचोऽयवायाव' इति शास्त्रीयोद्देश्यतावच्छेदकोऽच्त्वापेक्षया 'इको यणची'तिशास्त्रीयोद्देश्यतावच्छेदकेक्त्वव्याप्यत्वेन इगतिरिक्तेऽचीति संकोचाद्धर इहेत्यादावयादेशो न स्यादिति चेन्न, शाब्दबोधीयविषयतावच्छेदकयोरेव व्याप्यव्यापकभावस्वीकारेण तयोश्च विशेष्यविशेषणाभ्यां संकुचितयोरेव सम्भवेन अजव्यवहितपूर्वत्वविशिष्टेक्त्वावच्छिन्नविषयता अजव्यवहितपूर्वत्वविशिष्टैच्त्वावच्छिन्नविषयता व्याप्यत्वाभावेनादोषात्। अत्रार्थे मानन्तु अनुशतिकादिगणे पुष्करसच्छब्दपाठसामर्थ्यादादिवृद्धिरन्त्योपधावृद्धी बाधते इत्यर्थज्ञापनपरं भाष्यम्। अन्यथा 'अचो ञ्णिति', 'अत उपधाया' एतदुद्देश्यतावच्छेदक-ञित्-णित्- प्रत्ययत्वापेक्षया 'तद्धितेष्वचामादे'रिति शास्त्रीयोद्देश्यतावच्छेदक-ञ्णित्तद्धित्वस्य व्याप्यत्वेन तत्तच्छास्त्रे तदतिरिक्तत्वेन संकोचादेव औपगवस्य सिद्धौ तदसंगतिः स्पष्टैव। प्रकृतार्थस्वीकारे तु सौश्रुतो मारुत इत्यादौ तयोः शास्त्रयोः प्राप्तिविरहेण शाब्दबोधीयविषयतावच्छेदकयोर्व्याप्यव्यापकभावाभावेन भाष्योक्तं ज्ञापकं सुघटमेवेति। इत्थं च बाधकत्वेन जिघृक्षितशास्त्रीय शाब्दबोधीयविषयतात्वावच्छिन्नव्याप्यतानिरूपितविषयतात्वावच्छिन्नव्यापकतावद्विषयताप्रयोजकपदघटितशास्त्रस्य तेन बाध इति फलति। यथा 'वृद्धिरेची'त्यनेन 'आद्गुणः' इत्यस्य बाधः। न चैवम् 'अकः सवर्णे दीर्घः' इति शास्त्रेण 'इको यणचि', 'आद्गुणः' इत्येतयोर्बाधो न स्यात्। श्रीश इत्यत्र 'आद्गुणः' इत्यस्य दैत्यारिरित्यादाविको यणचीत्यस्याप्राप्त्याः उभयशास्त्रीयविषयतयोर्व्यापकत्वाभावादिति चेन्न। विषयतात्व अन्यतरत्व एतदन्यतरत्वावछिन्नव्यापकतावद्विषयताया ग्रहणेनादोषात्। यतः 'अकः सवर्णे दीर्घः' इत्यधिकरणे प्रयोगे 'आद्गुणः,' 'इको यणची'त्यन्यतरत्वावच्छिन्नविषयत्वाभावस्य वक्तुमशक्यत्वेनोभयविषयतायां व्यापकत्वं सुघटम्। व्यापकत्वं च स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम्। नन्वेवमपि 'उर्ऋदि'ति शास्त्रेण 'मृजेर्वृद्धिः', 'उपधायाश्च.' 'पुगन्तलघूपधस्य चे'ति शास्त्राणां बाधाभावे इररारामपवाद इति ग्रन्थासंगतिः। विषयतात्वेन अन्यतरत्वेन वा व्यापकत्वाभावादिति चेन्न, विषयतात्व, अन्यतरत्व, अन्यतमत्व एतदन्यतमत्वावच्छिन्नव्यापकताया ग्रहणेनादोषात्। यत 'उर्ऋदि'त्यधिकरणे अन्यतमशास्त्रीयविषयता नास्तीत्याकारकाभावस्य वक्तुमशक्यत्वात्। नचैवं 'कुप्वोः ᳲक ᳲपौ चे'ति शास्त्रेण अन्यतरत्वेन व्यापकतामादाय 'विसर्जनीयस्य सः' 'शर्परे विसर्जनीय' इत्युभयोरपि बाधे वासः क्षौममिति न स्यात् कौमुदीग्रन्थासंगतिश्चेति वाच्यम्। बाधकत्वेन जिघृक्षितशास्त्रीयविषयताविशिष्टधर्मवद्विषयताकशास्त्रस्य स्वेन बाध इत्यर्थेनादोषात्। वै. स्वनिरूपितव्यापकतावच्छेदकत्व स्वनिरूपितव्यापकतावच्छेदकधर्माभाववदवृत्तित्वोभयसम्बन्धेन। एवं च 'विसर्जनीयस्य स' इति शास्त्रीयविषयतागततद्व्यक्तित्वस्य व्यापकतावच्छेदकत्वेन तदभाववदवृत्तित्वस्यान्यतरत्वेऽभावेन न तदादाय दोषावकाशः। 'अकः सवर्ण' इति शास्त्रीयविषयताविशिष्टत्वस्य अन्यतरत्वे एव सत्वेन तदादायैव उभयोर्बाधः। न चैवमपि 'उर्ऋदि'ति शास्त्रीयविषयताविशिष्टत्वस्य'उपधायाश्च' 'पुगन्तलघूपधस्ये'ति शास्त्रद्वयगतान्यतरत्वस्य व्यापकत्वेव अन्यतमत्वस्य तादृशधर्मत्वाभावेन अन्यत्वेन व्यापकतामादाय तेषां बाधासंभवेन इररारामपवाद इति ग्रन्थासंगतिरिति वाच्यम्। अत्रापवादशब्दस्य बाधकपरत्वेन उर्ऋदिति शास्त्रस्य प्रतिपदविधित्वेन प्रतिपदोक्तत्वेनैव तेषां बाध इति श्रीमद्गुरुचरणपादा आहुरित्यलं पल्लवितेन ।

अत्र प्रमाणमुपन्यस्यति अतएवेति। तद्व्याप्यत्वमात्रस्य बाधबीजत्वदेव तदप्राप्तियोग्येऽचरितार्थ्यस्य बाधबीजस्य स्वीकारादेव। आयादयइति। आयादयो वा 'सार्वधातुके नित्यमि'ति न्यासमादृत्य इदं भाष्यं प्रवृत्तम्। गोपायिष्यतीत्यादावायादीन् बाधित्वा परत्वात् स्यादयः स्युः। तत्र कृते 'सार्वधातुके नित्यमि'त्यस्याप्राप्त्या आद्ययोगेन वैकल्पिके आयप्रत्यये गोपायिष्यति, गोपिष्यति, गोप्स्यतीत्यस्य सिद्धिः स्यादिति भावः। ननु स्यप्रत्ययाप्राप्तियोग्ये गोपायतीत्यादौ आयादीनां चारितार्थ्येन कथमनवकाशत्वमत आह गोपायतीत्यादावपीति। स्यतासिशपामन्यतमत्वेन बाध इति भावः। ननु कृतेऽकृते वा शपि गोपायतीति फलाभावान्न शप् स्यादिति कथमनवकाशत्वमायादीनामित्यत आह अन्यदिदानीमिति। शपः प्राप्तिः फलवती मा भूदायादीनां व्याप्यत्वन् त्वस्येवेति भावः। एतद्वाभाष्याद्व्याप्यत्वमात्रस्य बाधकताबीजत्वं लभ्यते। एवमत्रेति। यथा शपः फलाभावेऽपि प्राप्तिमात्रेण व्याप्यत्वमेवमत्र बाध्यबाधकभावे कृते चारितार्थ्येऽपि व्याप्यत्वं बाधकताबीजमस्त्येवेति भावः। प्रथमबाधबीजं संप्रमाणं निरूपयति किञ्चेतिअन्यथेति। व्याप्यत्वमात्रस्य बाधकताबीजत्वाभावे। अनवकशत्वेनेति। वैयर्थ्येन। एतत्कथनेति। 'येन नाप्राप्त' इति न्यायकथनेत्यर्थः। कृते चारितार्थ्येऽपि बाधे फलमाह यथेति। इदञ्चानभ्यासग्रहणप्रत्याचक्षाणस्य भगवतो भाष्यकारस्य मतेनोक्तम्। अत्र पूर्वोक्तरीत्या परत्वाद्बाधेनाप्यदोष इत्यत आह यथाचादेरपीति। अप्रधानानुरोधेन प्रधानावृत्तेरसत्वेन 'उदः स्थे'त्यादौ पूर्वमलोन्त्यस्येत्यस्य प्रवृत्तौ आकांक्षायाः शान्तत्वेन आदेः परस्येत्यनेन सहैकवाक्यतया पुनरन्वयबोधासम्भवेन कृते चारितार्थ्यस्य दुर्निरूपत्वादत्रापि निरवकाशत्वादेव बाध उचित इतीदमप्युदाहरणं चिन्त्यमेवेत्यत आह तदुक्तमिति। सत्यपि सम्भव इति समावेशसम्भवेऽपि। अन्यथेति। चारितार्थ्याभाव एव बाधकत्वाङ्गीकारे। अतएवेति। व्याप्यत्वमात्रस्य बाधकत्वबीजत्वादेव। विषयभेदेऽपिविभिन्नकार्यित्वेइति। न च विषयभेदे बाधस्वीकारे दधिदानेन कम्बलदानबाधापत्तिः, सुटा यासुटो बाधापत्तिश्चेति वाच्यम्। सजातीयबाधकत्वस्यैव लोकव्यवहारेण कल्पनात् कम्बलस्य दधिसजातीयत्वाभावेन बाधायोगात्।'यासुट्विषये सीयुटः प्रतिषेधो वक्तव्यः' इति वचनेनात्र प्रकरणे बाध्यबाधकभावाभावस्य कल्पनेनादोषात्। अत्र प्रमाणमाह अतएवेति। विषयभेदेऽपि बाधस्वीकारादेव। रादेशेनेति। आमो नुट् रादेशः प्रकृतेरिति विषयभेदः। तेन = 'न तिस्त्रि'ति ज्ञापकेन। टोलोपमात्रस्येति। स्रजिष्ठ इत्यत्र पुनष्टिलोपमाशङ्क्य जातिपक्षाश्रयणेन टिलोपमात्रस्य विन्मतोर्लुका बाध इत्युक्तं भाष्ये तदसंगत्यापत्तेरिति भावः। ननु द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्येन नानवकाशत्वाद्दिग्यादेशेन द्वित्वस्य बाध इति कैयटोक्तं विरुध्येतेत्यत आहयत्वितितेनापि = कैयटेनापि। तस्य = उक्तकैयटग्रन्थस्य। तथात्वं = प्रौढित्वं तदुत्तरग्रन्थेन। तत्र हि दिग्यादेशमुपक्रम्य नैवमनवकाशः कृते द्विर्वचने प्रवृत्त्यविघातात्। अथ पुनरेवमनवकाशं मन्यसे तदा लक्ष्यदोषप्रसङ्ग इत्युक्तम्। तत्राथ पुनरित्याद्युक्तग्रन्थेन चारितार्थ्यप्रतिपादनपरस्य पूर्वग्रन्थस्यारुचिग्रस्तत्वम्। वस्तुतस्तु तक्रन्यायस्यानित्यत्वेनेयं प्रौढ्युक्तिः। अत एव पिप्ये, शुशाव इत्यादौ प्यादेशसंप्रसारणाद्युत्तरं द्वित्वं सिध्यिति। असम्भवइति। समावेशासम्भव इत्यर्थः। दूषित्वादिति। सत्यपि संभव इत्यादिभाष्येण दूषित्वात्। लक्ष्यसिद्ध्युपयोगी। यथोत्तरं मुनीनां प्रामाण्यादिति भावः। तक्रन्यायेन बाधः निरवकाशत्वेन बाधश्च, 'येन नाप्राप्त'न्याय एवान्तर्भूत इति सर्वेषां समानविषयत्वप्रतिपादनायाहतक्रकौण्डिन्यन्यायोऽपितिविधेयविषयइति। विभिन्नविधेयतानिरूपितोद्देश्यतयोर्यत्र व्याप्यव्यापकभावस्तद्विषय इत्यर्थः। अर्थादेककार्यविधायकशास्त्रेण अपरकार्यविधायकशास्त्रस्य बाधः, न त्वेककार्यविधायकशास्त्रे एव व्याप्यधर्मावच्छिन्नविषयतया व्यापकधर्मावच्छिन्नविषयताया बाधः। अत एव 'इको यणची'त्यत्रेगतिरिक्तेऽचीति न संकोचः। भाष्येस्पष्टमिति। अनवकाशविषयत्वं 'तद्धितेष्वचामि'त्यत्र विधेयविषयत्वं 'धातोरेकाच' इत्यत्रास्य न्यायस्य प्रतिपादनमिति तत एव द्रष्टव्यम्॥५७-५८॥

परिभाषार्थमञ्जरी

विशेषशास्त्रोद्देश्येति।'होढ‌‌‌:', 'दादे‌र्धातोर्घ इत्युदाहरणम्। विशेषशास्त्रे 'दादेर्धातोर्घ' इति शास्त्रे उद्देश्यभूतो यो विशेषधर्मः = दादिधात्ववयवत्वे सति ह्रस्वरूपो धर्मः। तदवच्छिन्ननिष्ठो यः सामान्यधर्मः = ह्रस्वरूपो धर्मः। तदवच्छिन्नमुद्देश्यं = यत्र एतादृशशास्त्रस्य 'होढ' इत्यस्य विशेषशास्त्रेण 'दादेर्धातोर्घ' इत्यनेन [1]बाध इत्यर्थः। अनवकाशा आयादय इति। ननु स्याद्यप्राप्तियोग्येऽचारितार्थ्येनायादीनां बाधकत्वं वक्तव्यम्। तदेव न लिड्यादीनां स्याद्यप्राप्तियोग्ये चारितार्थ्यादिति चेन्न। तत्र सूत्रे भाष्ये आर्द्धधातुके इति परसप्तमीमभ्युपगम्यायादिभ्यो यदार्द्धधातुकं तस्मिन्नवस्थिते विभाषा आयादीनां निवृत्तिर्भवति आहोस्विदायादिप्रकृतेर्य्यदार्द्धधातुकं तस्मिन्नवस्थिते विभाषाऽयादीनामुत्पत्तिर्भवति इत्याशङ्कितम्। तत्राद्यपक्षे सामान्यसूत्रेणायप्रत्यये तदन्तादामि अप्रत्ययादित्यकारप्रत्यये च गोपायाञ्चकार गोपायेत्यायप्रत्ययानिवृत्तिपक्षे इष्टसिद्धावपि तन्निवृत्तिपक्षे जुगोप, [2]गुप्तिरितीष्टं रूपमिष्यते। तच्च न प्राप्नोति। गोपायाञ्चकार गोपाय इति चानिष्टं प्राप्नोतीति दूषणमुक्तम्। द्वितीये तु गोपायाञ्चकार गोपेत्यनिष्टप्राप्त्या लिटि गुपधातोराये मध्ये आमि गोपायाञ्चकार गुप्तिर्जुगोपेतीष्टसिद्धावपि [3]जुगोपेतीष्टं न प्राप्नोतीति दूषणमुक्तम्। योगविभागसामर्थ्यात् सार्वधातुकेऽप्याङ्गीकारेण गोपायतीति तु सिद्धमिति न तदनिष्टापादनाक्रान्ते[4] तत्सामान्यत आयादायो वा सार्व्वधातुके नित्यमिति न्यासभेदेन समाधाय स्यादबलीयस्त्वं तु विप्रतिषेधेनेति। विप्रतिषेधेन सर्व्वधातुके आयादीनां बाधः आशङ्कितः। पश्चादनवकाशैः आयादिभिरायादिविधानानवकाशत्वादिति वार्त्तिकबलात्स्यादीनां बाधमुक्त्वा गोपायिष्यतीत्यस्यासिद्धावग्रे यथा न्यासे एवार्द्धधातुके इति विषयसप्तमीमङ्गीकृत्य तत्सिद्धिरित्युक्तम्। एवञ्च सार्वधातुके नित्यमित्यस्य लिट्यप्राप्त्या आयादेस्तत्र चारितार्थस्य वक्तुमशक्यत्वादिति बोध्यम्। क्वचिन्मूलपुस्तकेषु तद्दान्नोत्तरमित्यस्याग्रे अत एवेत्यस्मात्प्राक् आयादय इति पाठो दृश्यते। तत्प्रवृत्युत्तरं चारितार्थ्येऽपीति। न च रामादित्यत्र जश्त्वं 'वाऽवसाने' इति कौमुदीदर्शित क्रमविरोध:। जश्त्वे तस्यासिद्धत्वात्। न च वचनप्रामाण्यम्। मथे विलोडन इत्यस्मात् क्विपि, बुध अवगमने इत्यस्मात्क्विपि चाग्निमत् भुदित्यादौ स्वप्रवृत्तिप्रदर्शकलक्ष्ये स्वस्वप्रवृत्यवरोधकपूर्व्वशास्त्रप्रापकस्वोपस्थित-पूर्व्वत्रासिद्धमित्यस्य वचनप्रामाण्यात् बाधेऽपि स्वप्रवृत्तिप्रदर्शक-रत्नमुट् रामादित्यादिलक्ष्ये पूर्व्वशास्त्रप्रवर्तकस्वोपस्थितपूर्व्वत्रेत्यस्य औदासीन्येन बाधकत्वस्यापरिकल्पनेनादोष इत्याशयात्। अत एव 'ष्णान्ता षडि'त्यादिनिर्द्देशाः[5] संगच्छन्ते। एतेन च रामादित्यत्र जश्त्वं वावसान इति कौमुद्युपदर्शक[6]क्रमविरोधः। तस्यासंभवे एव बाध्यबाधकत्वभाव इति वार्त्तिकमतानुसारित्वादित्याद्युक्त्वा न पूर्व्वापरग्रंथविरोधः इति कैयटानुयायिन: परास्ताः। न च जश्त्वं बाधित्वेति शेखरग्रंथविरोध:। तस्य भास्करमतानुसारित्वात्। अत एव ऋधेर्धस्येति प्रतीकस्थशब्दरत्नः संगच्छते। एतेन[7] जश्त्वमिति प्रतीकमुपादायापोद्येति शेष इत्युक्त्वा अत एव पूर्व्वं चर्त्वघटितमुदाहरणं प्रथममुक्तमन्ते च द्वितीयमिति तदुक्तं स्वारस्यं च परास्तम्। रत्नमुडादौ चर्त्वेन षस्यैव प्राप्त्या रत्नमुट् रत्नमुडिति मूलोक्तटकारघटितप्रयोगे यत्नान्तरस्यास्थेयत्वाच्च। अदादेशस्तान्त इति तु अथ किमर्थमादुच्यते न अदेवोच्येत। का रूपसिद्धि: वृक्षात् प्लक्षात्। सवर्णदीर्घत्वेन सिद्धम्। न सिध्यति। 'अतो गुण' इति पररूपं प्राप्नोति। अकारोच्चारणसामर्थ्यात् न भविष्यतीति भाष्यस्थाकारोच्चारणसामर्थ्यादिति प्रतीकमुपादाय अन्यथा तकार एव विधीयेत 'आदेः परस्ये'त्यादेः तकारे विहिते संयोगान्तलोपे च वृक्षादित्यादि सिध्यतीति कैय‌टोक्तेरवसेयः किञ्च पदान्ते फलाभावेन सूत्रे प्रक्रियागौरवस्यानादेयत्वाच्चेति दिक्॥५८॥

[1]बाधक इत्यर्थः इति गे

[2]गुप्तिरिति सिद्धान्ते रूपमिष्यते इति के

[3]गोपायेतीष्टम् इति के

[4]योगविभागसामर्थ्यात् सार्वधातुकेऽप्याङ्गीकारेण गोपायतीति तु सिद्धमिति न तदनिष्टापादनाक्रान्ते इति छे नास्ति।

[5]निर्देशास्तु इति के

[6]उपदर्शित इति के,गे

[7]अत एव इति के