Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते

नन्वेवम् 'गोमत्प्रियः' इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं लुकं बाधित्वाऽन्तरङ्गत्वाद्धल्ङ्यादिलोपे नुमादयः स्युः, अत आह – 

अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते।५२।

अत्र च 'प्रत्ययोत्तरपदयोश्चे' ति सूत्रं ज्ञापकम्। त्वत्कृतमित्यादौ लुगपेक्षयान्तरङ्गत्वाद्विभक्तिनिमित्तकेन 'त्वमावेकवचने' इत्यनेन सिद्धे इदं व्यर्थं सत्तज्ज्ञापकम्। ननु 'तव पुत्रस्त्वत्पुत्रः' इत्यादौ तवममादिबाधनार्थं तदावश्यकमिति चेत्, एवं तर्हि अत्रत्यमपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भाष्यकृतः। युष्मदादिभ्य आचारक्विप् तु न, सम्पूर्णसूत्रस्य ज्ञापकतापरभाष्यप्रामाण्यात् 'हस्वनद्यापः' इति नुड्विधायकसूत्रस्थभाष्य प्रामाण्येन हलन्तेभ्य आचारक्विबभावाच्च। एवमेवैकार्थकाभ्यां प्रातिपदिकाभ्यां प्रातिपदिकणिचोप्यनभिधानं बोध्यम्। एतेन तत्रादेशार्थं प्रत्ययग्रहणं चरितार्थमित्यपास्तम्। ननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरितार्था। न च 'उत्सर्ग समानदेशा अपवादाः' इति न्यायेनासिद्धवत्सूत्रस्थभाष्यसम्मतेन मपर्यन्तस्यैवादेशे सिद्धे तदनुवृत्तिर्व्यर्थेति वाच्यम्, तस्य श्नमकजादौ व्यभिचारादिति चेत्, न। श्नमि मित्त्वेन बहुचि पुरस्ताद्ग्रहणेनाकचि प्राक्टेर्ग्रहणेन तस्य बाधेऽप्यत्रोत्सर्गस्य त्यागे मानाभावात्। अत एव 'तस्मिन्नणि चे'त्यनेन युष्माकाद्यादेशविधानं चरितार्थम्। अन्यथा आकाङादेशमेव विदध्यात्। आकङि तवकाद्यादेशयोरेतदपवादयोरुक्तन्यायेनान्त्यादेशत्वापत्तिः, अतस्तद्विधानम्, इदमेव च तज्ज्ञापकम्। यद्यपि विरोधे बाधकत्वमिति वार्तिकमतेऽयं न्यायः, भाष्यकारस्तु विनापि विरोधं सत्यपि सम्भवे बाधकत्वमिच्छतीति अनभिहितसूत्रस्थकैयटरीत्या नायं नियमः, तथापि युष्माकाद्यादेशविधानज्ञापित उत्सर्गः स्वीक्रियत एवेति प्रकृते न दोषः। एतद्भाष्यमपि तत्स्वीकारे मानम्। एवं च मपर्यन्तानुवृत्तिः 'त्वत्कृतमि'त्यादौ मपर्यन्तस्यादेशविधानार्था। तत्र चान्तरङ्गत्वात् 'त्वमौ' इत्येव सिद्धे व्यर्था सैतज्ज्ञापिका। ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्तस्यैवादेशार्थं सा चरितार्थेति तदाशयः। यत्तु हरदत्तेन अन्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनुवृत्तिर्व्यर्था सती ज्ञापिकेत्युक्तम्। तन्न। अन्तरङ्गाणामप्यवादबाध्यत्वेन तद्विषये तदप्रवृत्तेः। वस्तुतस्तु इदं ज्ञापकं वार्तिकरीत्यैव, भाष्यरीत्या तु वाचनिक एवायमर्थ इत्याहुः। इयं 'सुपोधात्वि'ति लुग्विषयैवेति केचित्। 'एङ्ह्रस्वात्सम्बुद्धेः' 'न यासयोः' इति सूत्रस्थाकरप्रामाण्येन लुग्मात्रविषया। आये 'हे त्रपु' इत्यादावनेन न्यायेन लोपं बाधित्वा लुग्भवतीति भाष्ये उक्तम्। अन्त्येऽन्तरङ्गांश्च विधीन् सर्वोऽपि लुग्बाधते न तु सुब्लुगेव । अत एव 'सनीस्रंस' इत्यादौ नलोपो न भवति। पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादावेकादेशात् प्रागेव टापो लुक्। अन्यथा कृतैकादेशस्य लुक्यकारश्रवणं न स्यादिति कयटे उक्तम्। एतद्विरोधाद्यत् 'तद्राजस्य' इति सूत्रे कैयटेनोक्तम् 'अङ्गानतिक्रान्तोऽत्यङ्ग' इत्यत्र सुपो लुकि बहुवचनपरत्वाभावात् 'तद्राजस्य' इति लुग् न स्यादिति शङ्कापरभाष्यव्याख्यावसरेऽन्तरङ्गानपीति न्यायेनायं लुक् सुब्लुको बाधकः स्यादित्याशङ्कय सुब्लुक् एवानेन बलवत्त्वं बोध्यत इति तत्प्रौढ्येति द्रष्टव्यम्। लुगपेक्षया लुको बलवत्त्वस्य वक्तुमशक्यत्वादिति तदाशङ्कासमाधानं वक्तुं युक्तम्। अनेन न्यायेनान्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः॥५२॥

 

कामाख्या

अन्तरङ्गपरिभाषाबाधिकामवतारयति नन्वेवमिति। न च गोमत्सु प्रियसु इत्यवस्थायां लुकोऽप्राप्त्या बहिरङ्गं लुकं बाधित्वेत्युक्तिः कथं संगता। न च लुक्पदस्य तत्प्रयोजकसमासस्योपलक्षकत्वन्तस्य च लोपसमकालप्राप्तत्वादिति वाच्यम्। समास्यापि अन्यपदार्थान्तर्भावेण वृत्तिकल्पनोत्तरमेव प्रवृत्तेरिति वाच्यम्। अप्राप्तिमत्वरूपबहिरङ्गस्य लुगादौ सत्वेनादोषात्। हल्ङ्यादिलोपेइति। न च लोपापेक्षया नुमादीनां परत्वेन ते एव पूर्वं स्युरितीदमयुक्तमिति वाच्यम्। अपरनिमित्तकत्वेन लोपस्यान्तरङ्गत्वात्। नुमादयःस्युरिति। न च पूर्वं नुमि उपधात्वाभावेन दीर्घस्य निरवकाशतया पूर्वं दीर्घ एव स्यादिति नुमादय इति कथनमयुक्तमिति वाच्यम्। तत्रोपधापदस्य पूर्वमात्रोपलक्षकत्वेन नुमुत्तरमपि दीर्घस्य सावकाशत्वेन परत्वान्नित्यत्वाच्च नुम एव प्रवृत्तेः। अन्तरङ्गानपीति। आदिना परस्य नित्यस्य च संग्रहः। तेन ह्यः, श्व इत्यादौ परमपि 'अत्वसन्तस्ये'ति दीर्घं बाधित्वा 'अव्ययादि'ति लुक्। तत्कुलमित्यत्र परादप्यत्वात् पूर्वं लुक्। केचित्तु अपिघटितः पाठो न युक्तः भाष्ये तथाऽदर्शनात्। अत एव तत्कुलमित्यत्र लुगर्थं त्यदादिभ्यश्च वक्तव्यमिति वार्तिकं संगच्छते। अत एव च भवतादित्यत्र तातङ्सिद्धिः। सुपथिवनमित्यत्र नित्यत्वाल्लुकि नात्वादि। ह्यः श्व इत्यत्र अतुसाहचर्येणाव्ययभिन्नासन्तस्यैव ग्रहणान्न दोष इत्याहुः। ज्ञापकत्वमुपपादयति त्वत्कृतमित्यादिना। पदद्वयसापेक्षसामान्यापेक्षस्य लुको बहिरङ्गत्वं तदपेक्षया त्वमयोरन्तरङ्गत्वमिति भावः। तवममादिबाधनार्थमिति। त्वत्पुत्र इत्यादौ तवममौ त्वद्धितमित्यादौ 'तुभ्यमह्यौ' च प्राप्तौ तेषां बाधनार्थं 'प्रत्ययोत्तरपदयोश्चे'ति चरितार्थमिति कथं ज्ञापकत्विति भावः। न च समासात् प्रागेवालौकिकप्रक्रियावाक्ये विभक्त्यव्यवधानेन प्रत्ययोत्तरपदयोश्चेत्यस्याः प्राप्त्या तवममादिप्रवृत्तिरव्याहतैव। 'त्वमावेकचने' इत्यनेन विधानसामर्थ्याद्वृत्तिचरमावयवप्रत्ययस्यैव तत्र ग्रहणेन विभक्तेरग्रहणादिति वाच्यम्। 'उपसञ्जनिष्यमाणे'ति न्यायेन यदि तवममादिशास्त्रं स्यात्तर्हि समासे लुकि च 'प्रत्ययोत्तरे'ति सूत्रं प्रवर्तेत इति संभावनया प्रक्रियादशायामपि 'प्रत्ययोत्तरपदोश्चे'त्यस्य तवममादिबाधकत्वसंभवात्। न चास्य तवममादिबाधमात्रप्रयोजनकत्वे तवममौ ङस्यवृत्ताविति न्यासेनैव त्वत्पुत्र इत्यादौ तवादीनामप्राप्त्या 'त्वमावेकवचने' इत्यनेनैव सिद्धिरिदं सूत्रं व्यर्थं सदस्या ज्ञापकमेवेति वाच्यम्। आक्रोशे षष्ठ्या आक्रोश इत्यलुकि तवपुत्र इतिवृत्तौ तवादेशानापत्तेः तवममौङस्य लुकीति न्यासे तु तव सुन्दरः पुत्रो यस्येति त्रिपदे बहुव्रीहौ फलभेदापत्तेः। अत्रत्यमपर्यन्तग्रहणानुवृत्तिरिति। एतच्चाग्रे स्फुटीकरिष्यति। ननु युष्मदादिभ्यः क्विपि, णिचि च त्वमावेकवचन इत्यस्याप्रप्त्या प्रत्ययनिमित्तकत्वमादेशस्य सर्वादेशत्ववारणाय मपर्यन्तानुवृत्तेश्चारितार्थ्येन कथं ज्ञापकत्वम्। अथवा प्रत्ययग्रहणस्य चारितार्थ्येनोत्तरपदग्रहणस्यैव ज्ञापकत्वमत आहयुष्मदादिभ्यइत्यादिसपूर्णसूत्रस्येति। न च बाधकबाधनार्थत्वेन सूत्रस्य चरितार्थतायाः पूर्वमुक्तत्वादिदमयुक्तमिति वाच्यम्। तद्भाष्यघटितघटकमपर्यन्तानुवृत्तिज्ञापकतापरभाष्यप्रामाण्यादित्यर्थे ग्रन्थतात्पर्यादिति मान्याः। ह्रस्वनद्याविति। तत्र हि भाष्ये षष्ठीबहुवचनस्यैव ग्रहणमित्येतन्निरूपणावसरे कास्प्रत्ययादिति विहितस्य अदन्तत्वेन सानुबन्धकत्वान्न ग्रहणम्। स चावश्यमनुबन्ध उपादेयः अन्यथा नस्येत्वापत्तेरित्युक्त्वा तस्येत्वन्न फलाभावात्। प्रत्ययान्तादयमाम् विधीयते। तत्र नास्ति विशेषः मिदचोऽन्त्यात्परत्वेन प्रत्ययपरत्वेन वेति मकारोच्चारणसामर्थ्यान्नेत्संज्ञा इत्यर्थकमुक्तम्। यदि हलन्तेभ्य आचारे क्विप् स्यात्तदा विशेषस्य स्पष्टतया नास्तीत्युक्तिरसंगता स्यात्। इदानीं मपर्यन्तग्रहणानुवृत्तेर्ज्ञापकत्वं प्रकटयति। नन्विति। श्नमः शपोऽपवादत्वेन, अकचः कापवादत्वेन, बहुचः कल्पबपवादत्वेन चापि नोत्सर्गसमानदेशत्वमित्याशङ्क्य श्नमि मित्वेनेत्यादिना समाहितम्। अतएवेति। तन्न्यायस्वीकारादेव। युष्माकास्माकादेशयोः द्वित्वबहुत्वार्थके चारितार्थ्येन एकत्वार्थके तवकममकाविति बाधकौ भवतः। आकङादेशविधने उक्तन्यायेन तावप्यन्त्यस्य स्यातामतस्तद्विधानन्तदेव च न्यायज्ञापकमिति भावः। न च अकचि निर्दिश्यमानपरिभाषाया अप्राप्त्या साकचो युष्माकाद्यादेशे यौष्माकीण इत्यादि। दकारस्याकङि यौष्मकाकीण इति फलभेदात् सर्वमिदमयुक्तमिति वाच्यम्। युष्मादस्मदवयवमकारात् परस्याक आदेशे इत्यर्थकमादाक इति न्यासेनैव सिद्धौ युष्माकाद्यादेशयोर्वैयर्थ्येन ज्ञापकत्वसंभवात्। उक्तमेवार्थं शङ्कासमाधिभ्यां द्रढयति यद्यपीतिविरोधे। एकस्य द्विकार्ययोगे यद्युत्सर्गापवादयोः समानदेशत्वं तदैव विरोध इति भावः। अयंन्यायः। उत्सर्गसमानदेशा अपवादा इति न्यायः। विनापिविरोधम्। एकस्य द्विकार्ययुक्तत्वरूपविरोधम्विनापि। अत एव प्रथमद्विर्वचस्य द्वितीयद्विर्वचनेन बाधः भवेदित्यादौ इयादेशस्य दीर्घबाधकत्वम्। नायंनियमः। उत्सर्गसमानदेशा अपवादा इति फलितो नास्तीत्यर्थः। तथापि। फलितत्वाभावेऽपि। प्रकृते। मपर्यन्तानुवृत्तिज्ञापकतायाम्। एतद्भाष्यं। मपर्यन्तानुवृत्तिज्ञापकतापरभाष्यम्। सकलभाष्यवार्तिकपर्यालोचनया उत्सर्गशास्त्रीयोद्देश्यतावच्छेदकाधिकरणपर्याप्तोद्देश्यतावच्छेदकत्वं यत्रापवादशास्त्रेऽस्ति तत्रैवोत्सर्गसमानदेशा अपवादा इति न्यायः प्रवर्तते। तेन प्रथमद्विर्वचनादिबाधस्थले तथात्वाभावेन उक्तन्यायाप्रवृत्तिरिति तत्वम्। एवंचेति। उत्सर्गसमानदेशा इत्यस्य स्वीकारे च। तत्र च त्वत्कृतमित्यादौ लुगपेक्षयाऽन्तरङ्गत्वात्। अस्मिन्। अन्तरङ्गानपीति न्याये। एतद्विषये। प्रत्ययोत्तरेति सूत्र विषये। तवादीनामप्राप्त्या। बाधकस्य लुको विषयतासत्वेन तद्विषये पूर्वं तवममाविति न प्रवर्तते। विभक्तेर्लुकि तु विभक्तिपरत्वाभावादप्राप्तिः। तदाशयः। भाष्याशयः। अन्तरङ्गप्रवृत्तौ। तवममयोः प्रवृत्तौ। तद्विषये। 'प्रत्ययोत्तरे'ति सूत्रविषये। तदप्रवृत्तेः। 'तवममौ ङसी'त्यस्याप्रवृत्तेः। ननु यथोत्सर्गसमानदेशा इति न्यायो वार्तिककाररीत्यैव तथा युष्माकाद्यादेशविधानमपि तद्रीत्यैवास्तु। भाष्यमते तु ज्ञापकत्वनिर्वाहः कथमत आह वस्तुतइतिवाचनिकएवेति। अत्र केचित् 'तुभ्यमह्यौ ङ्य्यावृत्तावि'ति सूत्रकरणेन 'तवममौ ङसी'त्यत्रावृत्तावित्यनुवृत्त्यासिद्धे 'प्रत्ययोत्तरपदयोश्चे'ति सूत्रमेव ज्ञापकम्। न चाति तवेत्यत्र दोष इति वाच्यम्। वृत्त्यनवयवेङ्सीत्यर्थेनादोषात्। अत एवारुचेराहुरित्याह। अत एव भवतादित्यत्रानेन न्यायेन लुकमाशंक्य ज्ञापकसिद्धन्न सर्वत्रेति समाहितं शेखरे इति वदन्ति। केचित्तु अन्तरङ्गपरिभाषाया अनित्यत्वेनैव सिद्धे अस्य न्यायस्य नोपयोग इत्याहुः। इयंसुपोधात्विति। धर्मिग्राहकमानादिति भावः। असति बाधके प्रमाणानां सामान्ये पक्षपात इति न्यायमाश्रित्य 'एङ्ह्रस्वात्सम्बुद्धेः''न यासयो'रिति सूत्रयोर्भाष्ये लुङ्मात्रविषयत्वमुक्तम्। सनीस्रंसइति । अत्र नलोपं बाधित्वा 'यङो चि चे'ति यङो लुक्।एतद्विरोधादिति। टाब्लुको बलवत्वबोधनतात्पर्यकेण उपदर्शितकैयटेन सह विरोधात्।लुक्स्यादिति। 'तद्राजस्य बहुषु तेनैवास्त्रिया'मिति सूत्रस्य बहुवचने परे इत्यर्थे परत्वात् सामासिकलुकि 'न लुमते'ति निषेधेन बहुवचनपरत्वाभावात्तद्राजस्येति लुक् न स्यादि भाष्ये उक्तम्। तत्र कैयटेन शङ्कितम् 'अन्तरङ्गानपी'त्यादिना पुनस्तेनैव समाहिम्। सुब्लुकएवेत्यादिना। न तु लुङ्मात्रस्य धर्मिग्राहकमानादिति तदाशयः। अस्या उक्तेः पूर्वतो विरुद्धत्वात् प्रौढित्वम्। नन्वेवं कैयटोक्तशंकायाः किं समाधानमत आह लुगपेक्षयेति। अन्तरङ्गनिमित्तविनाशकस्यैव लुकोबलवत्वमिति वक्ष्यमाणतया तद्राजलुकः सामासिकलुङ्निमित्तविनाशकत्वाभावेन लुगपेक्षया सामासिकलुगपेक्षया लुकः तद्राजलुकः बलवत्वं वक्तुमशक्यमिति भावः। तदाशङ्कासमाधानमिति। तस्य कैयटस्य आशङ्कायाः समाधानमित्यर्थः। अनेनन्यायेनेति। एतत्फलम् अर्णुहीति। अत्र ऋण्धातोस्तानादिकाल्लोटि 'उतश्चप्रत्ययादि'ति लुकः गुणनिमित्तविनाशकत्वाभावेन अन्तरङ्गत्वाद्गुणे संयोगपूर्वकत्वेन हेर्लुक् न। ननु गोमत्प्रिय इत्यादौ समासोत्तरं लुकः प्रवृत्त्या समासात्प्रागेव अन्तरङ्गत्वाद्धल्ङ्यादिलोपः स्यादेवेत्यत आह तत्प्रयोजकसमासादीनांचेति॥५२॥

नास्ति।