गणकार्यमनित्यम्
तथा तनादिपाठादेव सिद्धे 'तनादिकृञ्भ्यः' इति सूत्रे कृञ्ग्रहणाद् –
गणकार्यमनित्यम्।९६।
तेन 'न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम्॥९६॥
कामाख्या
गणकार्येति। गणनिर्देशेन विधीयमानं कार्यमित्यर्थः। विश्वसेदिति। अत्रादादित्वाच्छपो लुग्न। 'स चापि गदया दैत्यः सर्वा एवाहनत्पृथगि'ति सप्तशतीश्लोकोऽहनदिति सिद्धम्॥॥९६॥
नास्ति