यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते
ननु 'प्रणिदापयती'त्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेर्न स्यादत आह -
यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते।११।
यमुद्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितोऽतस्तद्ग्रहणेन तद्ग्राहकेण तद्बोधकेन शब्देन गृह्यते बोध्यत इत्यर्थः। तत्र तद्गुणीभूता इत्यंशो बीजकथनम्। लोकेऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं दृश्यते। यमुद्दिश्य विहित इत्युक्तेः 'प्रनिदारयती'त्यादौ न दारित्यस्य घुत्वम् 'आने मुक्' इति मुग्विधानसामर्थ्यादेषाऽनित्या। अन्यथा 'पचमानः' इत्यादावकारस्य मुकि अनया परिभाषया विशिष्टस्य सवर्णदीर्घे तद्वैयर्थ्यं स्पष्टमेव। तेन 'दिदीय' इत्यादौ यणादि न, 'जहार' इत्यादौ 'आत औ णलः' इति च न। न चाकारादेर्वर्णस्य वर्णान्तरमवयवः कथमिति वाच्यम्, वचनेनावयवत्वबोधनात्। तस्य चावयवत्वसादृश्ये पर्यवसानं बोध्यम्। न चोक्तज्ञापकाद्वर्णग्रहणेऽस्या अप्रवृत्तिरिति वाच्यम्, 'आने मुक्' इति सूत्रे भाष्येऽकारस्याङ्गावयवस्य मुगित्यर्थे 'पचमानः' इत्यत्र 'तास्यनुदात्तेत्' इति स्वरो न स्यादित्याशङ्क्यादुपदेशभक्तस्तद्ग्रहणेन ग्राहीष्यत इत्युक्तेरसङ्गत्यापत्तेः। किञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे 'कुर्वन्नास्त' इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्क्य 'यदागमा' इति न्यायेनाऽद्यनस्यापि पदान्तग्रहणेन ग्रहणात् 'पदान्तस्य' इति निषेध इत्यनया परिभाषयाऽऽगमानामागमिधर्मवैशिष्ट्यमपि बोध्यत इत्याशयक'ङमुट्'सूत्रस्थभाष्यासङ्गतेः। किञ्च गुणादे रपरत्वे रेफविशिष्टे गुणत्वाद्येष्टव्यम्। अन्यथा ऋकारस्य गुणवृद्धी अरारावेवेति नियमो न स्यात्। तच्च 'वर्णग्रहणे' एतदप्रवृत्तौ न सङ्गच्छते। अत एव 'रदाभ्याम्' इति सूत्रे भाष्ये 'गुणो भवति, वृद्धिर्भवतीति, रेफशिरा गुणवृद्धिसंज्ञकोऽभिनिर्वर्तते' इति। अत एव 'नेटि', 'णेरनिटि' इत्यादि चरितार्थम्। 'अनागमकानां सागमका आदेशा' इत्यस्य त्वयमर्थः - आर्द्धधातुकस्येडागम इत्यर्थे ज्ञाते, नित्येषु शब्देष्वागमविधानानुपपत्त्याऽर्थापत्तिमूलकवाक्यान्तरकल्पनेनेड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्तव्येति। एवञ्चादेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्यत्वहानिः। स्थानिवत्सूत्रे च नेदृशादेशग्रहणम्, साक्षादष्टाध्यायीबोधितस्थान्यादेशभावे चारितार्थ्यात्। किञ्चैवं सति स्थानिबुद्ध्यैव कार्यप्रवृत्त्या 'निर्दिश्यमानस्य' इति परिभाषाया अप्राप्त्याडागमसहितस्य पिबाद्यादेशापत्त्या 'लावस्थायामडि'ति भाष्योक्तसिद्धान्तासङ्गतिः। स्थानिवद्भावविषये 'निर्दिश्यमानस्य' इति परिभाषायाः प्रवृत्तौ 'तिसृणामि'त्यत्र परत्वात्तिस्रादेशे स्थानिवद्भावेन त्रयादेशमाशङ्क्य 'सकृद्गति'न्यायेन समाधानपरभाष्यासङ्गतिः। 'एरुः' इत्यादौ स्थानषष्ठीनिर्देशात्तदन्तपरतया पठितवाक्यस्यैव समुदायादेशपरत्वेनादेशग्रहणसामर्थ्यात्तस्य स्थानिवत्सूत्रे ग्रहणेन न दोषः। आनुमानिकस्थान्यादेशभावकल्पनेऽपि श्रौतस्थान्यादेशभावस्य न त्याग इति 'अचः परस्मिन्' इत्यादेर्नासङ्गतिः। एतेन 'यदागमा' इति परिभाषा स्थानिवत्सूत्रेण गतार्थेत्यपास्तम्। एतत्सर्वं 'दाधा घ्वदाप्' इति सूत्रे भाष्ये स्पष्टम्॥११॥
कामाख्या
प्रणिदापयतीति। 'दाधाघ्वदाबि'ति सूत्रे विशिष्टरूपोपादानसत्वेन अर्थवद्ग्रहणपरिभाषोपस्थितौ 'आगम समभिव्याहारे आगमविशिष्टस्यैवार्थवत्वमि'ति न्यायेन दप्घटकदाशब्दस्यार्थवत्वाभावेन घुसंज्ञा न स्यादिति परिभाषामवतारयति। ननु किन्तदर्थवत्वं यदागमरहितेनेति चेत् अर्थविषयकबोधजनकत्वम्। एवं च दानानुकूलव्यापारार्थबोधजनकत्वन्दाप्शब्दस्य न तु दाशब्दस्येति। ननु कारणतावच्छेदकधर्मवत्वरूपस्य स्वरूपयोग्यत्वरूपकारणत्वस्य दाप्घटकदाशब्देऽपि सत्त्वेनावतरणासंगतिः, कार्याव्यवहितप्राक्क्षणावच्छेदेनकार्याधिकरणवृत्तित्वरूपफलोपहितकारणत्वस्य च प्रतिबन्धकवशाद्बोधाजनके प्रणिदातेत्यादावप्यभावेनार्थवत्वाभावाद् घुत्वानापत्तिरिति चेन्न, अर्थविषयकबोधजनकत्वप्रकारकवक्तृतात्पर्यीयविशेष्यतावत्वरूपस्यार्थवत्वस्य ग्रहणेनादोषात्। मदुच्चरितदापदं दानानुकूलव्यापारार्थं बोधयत्विति वक्तृतात्पर्यीयविशेष्यता दानिष्ठा तदाश्रयत्वस्य प्रणिदातेत्येतद्घटकदाशब्दे सत्त्वेनादोषः। प्रकृते तु मदुच्चरितदप्पदं दानानुकूलव्यापारार्थं बोधयत्विति वक्तृतात्पर्यीयविशेष्यता दाप्निष्ठा, तदाश्रयत्वं दाप्शब्दस्यैवेति घुत्वाप्राप्तिः। न च प्रत्येकानतिरिक्तः समुदाय इति प्रतीत्या दादृशविशेष्यताश्रयत्वस्य दाप्घटकदाशब्देऽपि सत्त्वेन तस्यार्थवत्त्वन्दुर्वारमिति वाच्यम्। तादृशविशेष्यताप्रर्याप्त्यधिकरणत्वस्य स्वीकारेणादोषात्। न च प्रत्येकापर्याप्तस्य समुदायेऽप्रर्याप्तत्वमिति व्याप्त्या दाशब्देऽपि विशेष्यताप्रर्याप्त्यधिकरत्वसत्वादिति वाच्यम्। तादृशविशेष्यतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मवत्वस्य स्वीकारेण विशेष्यातात्वावच्छिन्नप्रतियोगिताकपर्याप्तिर्विशेष्यतापर्याप्तिसंबन्धेन दाप्शब्देऽस्तीति। तदनुयोगितावच्छेदकधर्मो दाप्गतत्रित्वं तदवत्त्वं दाप्शब्दस्यैवेत्यदोषात्। पूर्वोक्तरीत्या दाशब्दवृत्तिविशेष्यतापर्याप्त्यनुयोगितावच्छेदकदागतद्वित्वं तु न धर्तुं शक्यते। तस्य न्यूनवृत्तित्वात्। अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वनियमात्। न च प्रत्येकानतिरिक्तः समुदाय इति न्यायात्त्रित्ववत्वं दाशब्देऽप्यस्तीति वाच्यम्। अनेकत्राश्रयतास्वीकारे गौरवात्। किं च पर्याप्त्यनुयोगितावच्छेदको धर्मः दाप्त्वमेवेति न दोष इति श्रीमद्गुरुचरणाः। केचित्तु दाविशिष्टो घुसंज्ञको भवति वै. स्वतादात्म्य स्वार्थविषयकबोधजनकत्वप्रारकवक्तृतात्पर्यीयविशेष्यतात्वाच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकधर्मवत्वोभयसम्बन्धेन। एवं च प्रणिदापयतीत्येतद्घटकदाशब्दे प्रणिदातेत्यत्र विशेष्यतादिकमादाय द्वितीयसम्बन्धसत्वेऽपि प्रथमसम्बन्धाघटनात्। प्रत्युच्चारणं शब्दो भिद्यत इति स्वीकारादिति वदन्तीति दिक्।
आगमसमभिव्याहारे इत्यत्र प्रमाणं किमिति चेच्छ्रणु- आगमानामनुदात्तत्वं वक्तव्यमिति वार्तिकम् अन्यथा लविषीयेत्यत्र प्रत्ययस्वरेणान्तोदातत्वेऽनुदात्तं पदमेकवर्जमित्यागमानुदात्तत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव। सति त्वस्मिन् न्याये प्रत्ययस्वरेणागमविशिष्टस्य प्राप्त उदात्तोऽनेन बाध्यते । किञ्च 'उस्यपदान्तादि'तिसूत्रे अपदान्तात्किं का उस्रा, कोस्रा अपदान्तादिति शक्यमकर्तुम्, कस्मान्न भवति का उस्रा कोस्रा अर्थवद्ग्रहणे नानर्थकस्येति। नैषा परिभाषेह शक्या विज्ञातुमिह हि दोषः स्याद्भिन्द्युरित्युक्तं भाष्ये। तच्चोक्तन्यायम्विना न संगच्छेत। किञ्च 'स्यसिच्सीयुडि'तिसूत्रे भावकर्मवाचिनिप्रत्यये परे ये स्यादय इत्यर्थे स्यादयो विशेषिताः सीयुडविशेषित इत्युक्तम्भाष्ये। तदप्युक्तन्यायम्विना न संगच्छते। किं च णिच्परकाव्यवहितपूर्वादन्तबुद्धिप्रसङ्गे पान्तबुद्धिः कर्तव्या। स साधुस्तेनैवार्थो जननीय इत्याद्यागमविधायकशास्त्रस्यशब्दानित्यत्वभियाऽर्थकरणे फलितोऽयं न्याय इति मान्याः। केचित्तु आगमसमभिव्याहारे आगमी अनर्थकः स्वविशिष्टसमभिव्याहृतत्वात् दाघटकदकारवत् वै. स्ववृत्तिशक्त्याश्रयत्व स्वावृत्तिशक्त्यनाश्रयत्वोभयसम्बन्धेनेत्यनुमासिद्धोऽयं न्याय इति वदन्ति। अस्य न्यायस्य फलन्तु दण्डिन्न्वत्रअत्र न्यायानङ्गीकारे 'निपात एकाजनाङि'ति प्रगृह्यत्वं न स्यात्। न्यायाङ्गीकारे तु एकाच्त्वाभावान्न दोषः। बहिरङ्गत्वेन च प्रगृह्यसंज्ञां प्रत्यसिद्धत्वादेकाच्त्वेन प्रगृह्यत्वमिष्टमेवेत्युच्यते तदा रामाणामिति फलं बोध्यम्। अत्र न्यायानङ्गीकारे रामन्निति नान्तस्य भत्वेनाल्लोपो न इति लोपापत्तेः। तदङ्गीकारे तु आमोऽनर्थकतया तस्मिन्भत्वाप्राप्तिः। यदि च सन्निपातपरिभाषायाऽत्र न दोष इत्युच्यते तदा बहुकुमारीक इत्यत्र कपः समासान्तत्वेनोक्तन्यायेन स्त्रीप्रत्ययान्तप्रातिपदिकान्तत्वाभावेन 'गोस्त्रियो'रिति ह्रस्वाभाव इति भाष्योक्तशरणिरेव ज्यायसी। 'न कपी'ति निषेधस्तु अनन्तरस्येति न्यायेन केऽण इत्यस्यैवेति तत्वम्। केचित्तु भूयादित्यादौ न्यायानङ्गीकारे तकारस्य लोपापत्तिरिडागमापत्तिश्च स्यात् । तदङ्गीकारे तु तकारस्यानर्थकत्वान्न दोषः। यदि च ङ्याप्साहचर्यात्तिबन्वयवस्यैव हलो ग्रहणेन धातोः परस्य वलादेरिडित्यर्थेन च नोक्तदोषइत्युच्यते तदा एधिषीध्वमिति फलं बोध्यम्। अत्र न्यायानङ्गीकारे ढत्वापत्तिः तत्स्वीकारे तु षीध्वमोऽनर्थकत्वान्न दोषः। यदि च लुङ्लिट्साहचर्यात्षीध्वं विषयेऽपीड्भिन्नस्यैवेणो ग्रहणेन न दोष इत्युच्यते, तदा फलं मृग्यमिति वदन्तीति दिक्।
यत्तु अपरनिमित्तकत्वेनान्तरङ्गत्वाद्घुत्वे णत्वे च पुकि अवतरणमसंगतमिति तन्न कुम्भकारेभ्य इत्यादौ सन्निपातपरिभाषयाऽव्ययसंज्ञावारणपरभाष्येण संज्ञाशास्त्रस्य विधिनिमित्तनिमित्तकत्वमिति ज्ञापनेनोभयोर्बहिरङ्गत्वं सममेवेति। किं च अस्तु वा घुसंज्ञा णत्त्वन्तु नैव भविष्यति तस्थाविति भाष्योदाहरणेन त्रैपादिकशास्त्रप्रतिबन्धकीभूतसापादिकशास्त्रप्रवृत्तिसंभावनायां पूर्वं त्रैपादिकशास्त्रं न प्रवर्तत इति कल्पनात्। केचित्तु विकारे हानिराधिक्यमित्यभियुक्तव्यवहारबलेन एकदेशविकृतन्यायेनसिद्धेऽवतरणासंगतमिति वदन्ति ते धन्याः। लोपागमवर्णविकारज्ञो हि सम्यक् वेदान् परिपालयिष्यतिति भाष्यात्। यदागमन्यायस्वीकारपरभाष्याच्च विकारपदेनाधिक्यस्याग्रहणात्। यत्तु प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणमिति परिभाषयाऽवतरणासंगतिरिति तन्न, ज्ञापकसाजात्यात् तस्याः कुत्वमात्रविषयकत्वात् । यत्तु आनुमानिकस्थानुवद्भावेनैव सिद्धे वृथाऽयं प्रयास इति तन्न, साक्षादष्टाध्यायीबोधितस्थान्यादेशभावे चारितार्थ्येन आनुमानिकस्थान्यादेशभावग्रहणे मानाभावात्। स्थानिवद्भावविषये निर्दिश्यमानस्येतिपरिभाषाया अव्यावर्तकतया अपिवदित्यादौ समुदास्य पिबादेशापत्तौ लावस्थायामडितिभाष्यसिद्धान्तासंगतेश्च। न चात्र निर्दिश्यमानस्येतिपरिभाषाया व्यावर्तकतया प्रवृत्त्या न दोष इति वाच्यम्। तिसृणामित्यत्र परत्वात्तिस्रादेशे स्थानिवद्भावेन त्रयादेशमाशङ्क्य सकृद्गतिन्यायेन समाधानपरभाष्यासंगतेः। उक्तरीत्या स्थानिवद्भावबोधितस्य निर्दिश्यमानत्वाभावादेव सिद्धेः। यदि च षष्ठीप्रकृतिविशिष्टत्वं निर्दिश्यमानत्वम् वै. स्वप्रोज्यशाब्दबोधीयविषयताश्रयत्व स्वघटिताष्टाध्यायीघटकपाणिन्युच्चरितस्थानषष्ठीप्रयोज्यादेशेतरादेशाप्रयोज्यत्वोभयसम्बन्धेन, एवं च आगमस्थले स्थानषष्ठीप्रयोज्येतरादेशत्वेन निर्दिश्यमानत्वाभावादेवाप्राप्तेरित्युच्यते तदा परिभाषा वृथैवेति वृद्धाः। केचित्तु 'आद्यन्तौ टकितावि'त्यस्य टिदादौ कर्मधारयम् मत्वा आद्यन्तपदं संज्ञाबोधकमेवं च टारूप इदादिसंज्ञकः करूप इदन्त्यसंज्ञक इत्यर्थे 'अर्तिह्री'तिशास्त्रस्य पुः क् अन्तो यस्य दादृश आदेशो भवतीत्यर्थेच स्थानिवद्भावेनैव सिद्धेऽवतरणासंगतिः। परिभाषा वा वृथेति वदन्ति। न चैवं 'लुङ्लङ्लृङ्क्ष्वडुदात्त' इत्यनेन अः ट् आदिर्यस्य तादृशादेशो भवतीत्यर्थे समुदायस्योदात्तापत्तिरिति वाच्यम्। अडुदात्त इत्यत्रबहुव्रीहेः सत्त्वेनादोषात्। आडजादीनामित्यत्रोक्तदोषोद्भावनन्तु न तस्याटासिद्ध्या भाष्ये प्रत्याख्यानात्यासुट्परस्मैपदेष्वित्यत्र यासुडुदात्तः परस्मैपदेष्विति न्यासेन दोषानवकाशः एवं चात्र कल्पे अपिवदित्यादौ स्थानिवद्भावेन समुदायस्यादेशापत्तिर्दोषः। ये तु अनुभूयत इत्यादौ कर्मणिलकारसिद्ध्यर्थं पूर्वं धातुरुपसर्गेण युज्यते इत्यस्यावश्यकत्वेन पूर्वमेवोपसर्गयोगे णत्वे पश्चाण्णिजादौ रूपसिद्धेऽवतरणासङ्गतिरिति तेऽतीव मान्याः। पूर्वं धातुः साधनेन युज्यत इत्यस्यैव भाष्यसिद्धान्तत्त्वात्। उपसर्गद्योत्यार्थान्तर्भावेण धातुनैव तदर्थाभिधानात् कर्मणिलकारसिद्धिः पश्चाच्छ्रोतृबोधाय द्योतकोपसर्गसम्बन्ध इत्यादि मूले स्पष्टम्। प्राचीनमतेऽपि अकृतव्यूहपरिभाषया पूर्वं घुत्वाप्राप्तेः, किञ्च तस्थावितिभाष्योदाहरणेन पूर्वप्रवृत्तघुसंज्ञामादाय णत्वन्तु न वक्तुं शक्यम् आकडारीयसंज्ञातिरिक्तायाः संज्ञायाः कार्यकालतैवेति सिद्धान्तात्।
गामादाग्रहणेष्वविशेष इति परिभाषयाऽनर्थकस्यापि दाधातोर्ग्रहणमिति कथनं साहसमात्रम्। उत्यतिशिष्टाया अर्थवद्ग्रहणपरिभाषाया अनया बाधस्य भाष्यविरुद्धत्वात्। ये तु पुट्णेरितिन्यासं विधायावतरणं खण्डयन्ति तेऽतीवस्थूलाः। पाणिनिन्यासस्वारस्येनैवावतरणाप्रवृत्तेः। किञ्चैवं सति क्नोपयतीत्यादाविडागमापत्तिः वपयतीत्यदावुपधात्वाभावेन ह्रस्वानापत्तिश्च स्यात्, न च पपुवाप्रत्ययविधानेन न दोष इति वाच्यम्। अथापीडागमापत्तेर्दुर्वारत्वात्, शपुप्रत्ययविधाने तु ङित्वेन क्नोपयतीत्यादौ गुणानापत्तिः धेटो धापयतीत्यादौ शित्परत्वसम्भावनायामात्वानापत्तिश्च पशप्करणे तु शस्येत्वानापत्तिः शयप्करणे तुघ्रापयतीत्यादौ जिग्रादेशापत्तिः पूर्वोक्तबहुष्वपि न्यासे तु क इवाचर क, अ इवाचर अ क अ यस्यां क्रियायां सा का, तत आचारक्विवन्ताद्धेतुमणौ पुकि ण्यन्तात् कर्तरि क्विपि णिलोपे काप्भवतीत्यत्र पूर्वान्तवद्भावेन कवृत्तितिङन्तत्वामाकारे आदाय यदागमपरिभाषया पुग्विशिष्टे तिङन्तत्वातिदेशेन 'तिङ्ङतिङ' इति निघातो न भवति अधुना स्यादिति दोष इति दिक्।
यस्यागमा यदागमाः अवयवत्वावच्छिन्नविधेयताश्रय आगम शब्दार्थः। षष्ठ्यर्थ उद्देश्यत्वम् यत्पदार्थस्य निष्ठत्व सम्बन्धेनोद्देश्यतायान्तस्यानिरूपितत्वसम्बन्धेनागम-शब्दार्थैकदेशविधेयतायामन्वयः। तस्य गुणास्तद्गुणाः। अतद्गुणास्तद्गुणाः सम्पन्नास्तद्गुणीभूताः। अत्र निरूपितत्वं षष्ठ्यर्थः। गुणशब्दश्चावयवार्थकः। आरोपितत्वं च्विप्रत्ययार्थः। क्तप्रत्ययार्थो विषयताश्रयत्वम्। तद्ग्रहणेनेत्यत्र ग्रहधात्वर्थो बोधः। जनकत्वं ल्युडर्थः, तत्पदोत्तरषष्ठ्या बोधान्वयि विषयत्वमर्थः। जन्यत्वं तृतीयार्थः। गृह्यत इत्यत्र ग्रहधात्वर्थो बोधः। तस्य विषयताश्रयाख्यातार्थैकदेशेविषयतायान्निरूपितत्वसम्बन्धेनान्वयः। यतोऽत इति पदयोरधिकारः। तथा च ये आगमपदवाच्या यतो यन्निष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयाः अतस्ते तन्निरूपितावयवत्वप्रकारकारोपनिरूपितबोधीयविषयताश्रयाः यतस्तादृशा अतस्तन्निष्ठविषयतानिरूपकबोधनिष्ठजन्यतानिरूपितशब्दनिष्ठजनकतानिरूपितजन्यतावद्बोधीयविषयताश्रयत्ववन्तः अपर्याप्त्येति शेषः इति परिभाषार्थः। अर्थादनया परिभाषया स्वविशिष्टसमुदाये स्ववृत्तिधर्मारोपो बोध्यते। तेन दाप्शब्दोऽपि दात्वावच्छिन्न इति। दाप्शब्दस्य दापदेन ग्रहणमिति निष्कर्षः। अथवा आगमिबोधकशब्दानां स्वशक्यविशिष्टे लक्षणायामियन्तात्पर्यग्राहिकेति परमार्थः। उभयत्र वै. स्वघटितत्व स्वविशिष्टाघटितत्वोभयसम्बन्धेन। अत्र वै. स्वभिन्नत्व स्वघटकभिन्नत्व स्वनिष्ठोद्देश्यतानिरूपितावयवत्वावच्छिन्नविधेयताश्रयघटितभिन्नत्व त्रितयसम्बन्धेन। अत्र तृतीयसम्बन्धदानेन आप्शब्दमादाय दाप्शब्दमादायन दोष इति स्वयमूहनीयम्। यमुद्दिश्यविहित इति। अयं भावः - यदागमा इत्यस्य षष्ठ्यर्थ उद्देश्यत्वं विहाय निरूपितत्वं च स्वीकृत्य यन्निरूपितावयवत्वावच्छिन्नविधेयताश्रय इत्याद्यर्थे प्रनिदारयतीत्यादौ 'दीधीवेवीटामि'त्यत्रेट्ग्रहणज्ञापितेन लोकिकेन वा अवयवावयवःसमुदायावयवो भवतीति न्यायेन अवयवरेफस्य दावयवत्वेन यदागमपरिभाषया दाग्रहणेन दारित्यस्य ग्रहणाद् घुत्वापत्तिरिति। न चोक्तन्यायस्य शास्त्रे आश्रयणे फलाभाव इति वाच्यम्, शञ्छम्भुरित्यत्र नकारावयवस्य तुकः समुदायावयवत्वात् पदान्तत्वप्रयुक्तकार्यसंपादनफलस्य संभवात्। न चात्र शितुगितिशास्त्रस्य शकाराव्यवहितनान्तस्य पदस्येत्यर्थे दोषाभावेन फलाभाव इति वाच्यम्। दधिच्छादयतीत्यत्र ह्रस्वावयवतुकः समुदायावयवत्वेन यदागमपरिभाषया पदत्वात् 'तिङ्ङतिङ' इति निघातस्यैव फलत्वात्। यदि च छकाराव्यवहितह्रस्वान्तपदस्येत्यर्थे न दोष इत्युच्यते तदा शेरत इत्यत्र अच्छब्दावयवरूटः समुदायावयवत्वेन रतेशब्दे यदागमपरिभाषया सार्वधातुकत्वात्तस्मिनगुणसिद्धिरिति फलं बोध्यम्। केचित्तु सिद्धान्ते यमुद्दिश्येत्यर्थे शेरत इत्यत्र गुणार्थमवयवावयवन्याये ग्राहकत्वं स्वीकृत्य प्रनिदारयतीत्येतदर्थं तुटष्टित्वेनैव सिद्धे ट्युट्युलोष्टित्वेन द्वितीयावयवात्प्राक्कालिकावयवत्वं यत्र प्रथमावयवेऽस्ति तत्रैवावयवावयवन्यायप्रवृत्तिरिति स्वीकृत्य यन्निरूपितेत्यर्थेऽपि दोषाभावेन यमुद्दिश्येतिग्रन्थोऽसङ्गत इति वदन्ति। 'शीङः सार्वधातुके' इत्यत्र विषयसप्तम्याश्रयणेन पूर्वोपस्थितिनिमित्तकत्वेनान्तरङ्गत्वाच्च पूर्वमेव गुणे शेरत इत्यस्य सिद्धौ अवयवावयवन्याये ग्राहकत्वस्वीकारस्य निष्फलतयाऽस्य न्यायस्य फलाभावेन प्रनिदारयतीत्यादौ दोषाभावेन ग्रन्थासंगतिपरिहाराय यमुद्दिश्य विहित इत्यादेर्यत्पर्याप्तोद्देश्यतेत्याद्यर्थ इत्याशयं बहवो वर्णयन्ति। केचित्तु यन्निष्ठोद्देश्यताया अपर्याप्त्यापि ग्रहणेन शेरत इत्यस्यानयैव निर्वाहे ट्युट्युलोष्टित्वेन आगमविधानात् प्राक्कालिकोद्देशस्य ग्रहणेन प्रनिदारयतीति सिद्धिरित्याशयेन ग्रन्थप्रवृत्तिरिति वदन्ति। स्वतन्त्रास्तु प्रदीव्यमान इत्यत्र नित्यत्वाच्छनोऽकारस्य मुमागमेऽकारावयवस्य मकारस्य अवयवावयवन्यायेन समुदायावयवत्वात् समुदायग्राह्यत्वाच्चादन्तोपद्दिश्यमानत्वेन 'तास्यनुदात्तेत' इति स्वरसिद्धिः फलमिति वदन्ति। यत्तु एधिषीष्ठेत्यत्र तकारावयवस्य सकारस्य समुदायावयवत्वेन यत्वसिद्धिः फलमिति, तन्न तन्मध्यपतितन्यायेन प्रत्ययावयवे प्रत्ययत्वव्यवहार इति स्वसिद्धान्ताच्चोपपत्तेरिति दिक्।
ननु प्रनिदारयतीत्यत्र यदागमपरिभाषया आर्शब्द आत्वं दकारोत्तरत्वं चास्त्येवेति दकारोत्तरत्वविशिष्ट आत्वरूप दात्वस्य सत्वेन घुसंज्ञादि कथन्नेत्यत आह आने मुगिति। ननु विधानसत्वे आन्तरतम्यादनुनासिकविशिष्ट औंकार एवदीर्घस्तदभावे पचान इति फलभेद, इति चेन्न,अमोऽनुनासिका न ह्राविति भाष्ये न ह्रावित्युपलक्षणामैच इति स्वसिद्धान्तात् तद्विधानासंभवात्। न चैवमपि अनुनासिकविशिष्टदीर्घ ओंकारविधानाय तच्चारितार्थ्यमिति वाच्यम्। तथा सति ओंकारविधानेनैव सिद्धे मुग्विधानस्य ज्ञापकत्वसंभवात्। लाघवादनुनासिकेऽकारविधानेन पचोँन इत्यस्य सिद्धिस्तु न तस्येत्संज्ञालोपयोरापत्तेः विधानसामर्थ्यादिति तु न वक्तुं शक्यम्। 'उगितश्चे'ति ङीप्संपादनेन चारितार्थ्यात्। न च मुग्विधानसत्वे तक्रन्यायेन मुका 'आतो ङित' इत्यस्य बाधेन मुकि यदागमन्यायेन दीर्घे पचोंन इति भवति। तदभावे इयादेशे पचेन इति स्यादिति वाच्यम्। 'आतो ङितो' नानस्येति न्यासेनैव सिद्धेः, न च ज्ञानमित्यादावमालुग्बाधवत्प्रकृते मुका दीर्घबाध इति ज्ञापकत्वन्तस्येति वाच्यम्। दीर्घबाधकल्पनापेक्षया परिभाषाऽनित्यत्वकल्पनस्यैवौचित्यात्। न च यदागमपरिभाषयाऽमि अक्त्वेपि अकारे यावत्स्थानसाम्याभावेन अम्सवर्णत्वानुपपत्या कथं दीर्घ इति वाच्यम्।अमि अक्त्वातिदेशवत् कण्ठमात्रस्थानजन्यत्वस्य विवृतमात्र प्रयत्नजन्यत्वस्य चानयातिदेशेनादोषात्। न च निर्दिश्यमानस्यैवाको ग्रहऩेन नात्र दीर्घप्राप्तिरिति वाच्यम्। अक इत्यस्य पञ्चम्यन्ततया निर्दिश्यमानपरिभाषाया अप्रवृत्तेः। न च पूर्वपरयोरित्यस्य षष्ठ्यन्तत्वेन निर्दिश्यमानपरिभाषायाः प्रवृत्या कथं दीर्घ इति वाच्यम्। पूर्वपरशब्देन गृहीतयोरकः परत्वेनाचः पूर्वत्वेन बुद्धिस्थसमुदाययोरम् आ एतयोर्निर्दिस्यमानत्वाक्षतेरिति दिक्। तेन दिदीये इत्यादि। न च वुग्युटावुवङ्यणोरिति वार्तिकारम्भसामर्थ्येन न दोष इति वाच्यम्। वार्तिकस्याप्युक्तार्थे एव मानत्वात्। न च तक्रन्यायेन युटा यणो बाध इति न तत्प्राप्तिरिति वाच्यम्। दीङो घञर्थे के दिय इत्यत्र युटश्चारितार्थ्येन बाधकत्वासम्भवात्। न चात्रापीयङः प्राप्तिसत्वेन युटोऽचारितार्थ्यमिति वाच्यम्। सकललस्य प्राप्ते यङ एवबाधेन यण्बाधासंभवात् । केचित्तु इति एवारुचेराह जहारेति। न चादन्तादङ्गात्परस्य णल् औका इत्यर्थे रेफविशिष्टस्य प्रनिदारयतीत्यत्रेव नादन्ताङ्गत्वमिति वाच्यम्। आतः परस्याङ्गसंज्ञानिमित्तस्य णल इति भाष्यसम्मतेऽर्थे दोषसंभवात्। न च सन्निपातपरिभाषयाः णल्निमित्तीकृत्य जायमानावृद्धिस्तद्विघातकेऽनिमित्तं स्यादिति वाच्यम्। ममावितिभाष्योदाहरणेन 'आत औ णल' इत्यस्यविषये सन्निपातपरिभाषाया अप्रवृत्तिज्ञापनात्। न च 'मिनातिमिनोती'तिसूत्रे विषयसप्तम्याश्रयणेनैव भाष्योपपत्तेः। परिभाषाऽप्रवृत्तौ मानाभाव इति वाच्यम् 'तौ सदि'ति निर्देशेन विभक्तिनिमित्तककार्ये सन्निपातपरिभाषाया अप्रवृत्तिज्ञापनात्। इत एवारुचेश्चशब्दप्रयोग इति केचित् । चेन 'अकः सवर्णे दीर्घः' इत्यस्य संग्रहः। वर्णग्रहणेऽस्या अप्रवृत्तिर्न्नत्वनित्यत्वमिति प्राचीनमतमनूद्य खण्डयति न चेत्यादिना। अननुगतानित्यत्वज्ञापनापेक्षयाऽनुगतस्थलेऽप्रवृत्तिज्ञापने लाघवमिति प्राचीनाशयः। वर्णमात्रवृत्तिधर्मघटितधर्मानयनेऽप्रवृत्तिरिति यावत्। असंगत्यापत्तेरिति। 'तास्यनुदात्तेदि'त्यादिशास्त्रस्य अकारान्तोपदिश्यमानास्याद्यर्थे पचमान इत्यत्र अमि यदागमन्यायेनाकारान्तोपदिश्यमानत्वमानीय स्वरसाधकप्रदर्शकभाष्यासंगतिः। अकारान्तोपदिश्यमानत्वस्य वर्णत्वव्याप्यधर्मघटितत्वेनोक्तपरिभाषाप्रवृत्तेरिति भावः।ननु यत्र विशेष्यतया वर्णस्याश्रयणन्तत्रैवाप्रवृत्तिस्वीकारेण नोक्तदोष इत्यत आह किं चेत्यादि। नन्वत्रानया परिभाषया पदान्तत्वस्यैवातिदेशस्तस्य वर्णमात्रवृत्तिधर्मत्वाभावान्नोक्तभाष्यविरोधः। किञ्च आगमिवृत्तिधर्मस्य कैवलागमेऽतिदेशस्य कुत्राप्यन्यत्र अदर्शनेनेयमेकदेश्युक्तिः। अत एव रामाणामित्यत्र केवले नकारे आगमिवृत्तिसुप्त्वस्यातिदेशे पदान्तत्वात् पदान्तस्येति निषेधो न। अत एवारुचेराह किं चेति। अन्यत्सर्वं व्याख्यातप्रायं सुगमञ्चेति दिक्॥११॥
परिभाषार्थमञ्जरी
तद्गुणीभूत इति। यत्तु कैयटानुयायिभिः प्रयोगसम्पादन उपकारक इति कैयटोक्तार्थ उक्तः, स तु प्रत्ययस्यापि प्रकृत्युपकारकत्वाद्विशिष्टस्यापि ग्रहणापत्तेः। युक्तेस्तु तुल्यत्वादिति दूषणेन तत्रैव विवरणकारैर्दूषितत्वेन मूलोक्तार्थस्यैव युक्तत्वात्। एवञ्च स्वस्य विवरणापर्य्यालोचनान्धतमः प्रवेशो बोधितः। मुग्विधानसामर्थ्यादिति। ननु मुग्विधानस्य श्रवणार्थतया वक्तुं शक्यत्वेन तत्सार्मथ्यात् परिभाषाऽप्रवृत्तिः सुलभेति चेन्न। सामर्थ्यकल्पनापेक्षया ज्ञापकत्वस्यौचित्यादित्याशयः। तच्च 'प्रमाणानां सामान्ये पक्षपातात् सामान्यविषयकमेव[1]। ननु 'पच आन्' इत्यवस्थायाम् 'अकः सवर्णे दीर्घ' इति दीर्घे प्राप्ते विशेषविहितेन 'आतो ङित' इति इयादेशेन तद्बाधे, तस्यापि मुकापवादत्वात् बाधेन मुग्विधानस्य चारितार्थ्ये कथमेत्तपरिभाषाया अनित्यत्वे ज्ञापकत्वम्[2]। न च रमायामित्यादिसर्वथानवकाशस्थले पुनरुत्सर्गप्रवृत्तिस्वीकारेण मुक्यापि परिभाषामवलम्ब्य इयस्य प्रवृत्तिरव्याहतेवेति वाच्यम्। सर्वथाऽनवकाशस्थले तथाङ्गीकारेऽपि 'येन ने'ति न्यायेन बाधस्थले तथानङ्गीकारात्। न्यायेन हि कृते यत्र सावकाशत्वं तत्र बाधः द्विर्वचनादाविव। प्रकृतेऽपि इयादेशे 'सर्व्वे सर्व्व पदे'ति न्यायेन अन्यस्येयादेशे स्थानिवद्भावेन मुकश्चारितार्थ्येऽपि तस्य तेन बाधः। यत्तु 'आने मुगि'ति सूत्रे मुकि इयादेशप्रवृत्तिं परिभाषया आशङ्क्य वर्णग्रहणे यदागमा इत्यस्याप्रवृत्त्या न दोष इति समाहितं विवरणे तत्तु प्राचीनानुरोधीति दिक्। न च तावतापि सवर्णदीर्घो दुर्व्वार एवेति वाच्यम्। आनस्य आतो नेति न्यासे 'आतो ङित' इत्यतोऽनुवृत्त्या आनस्यातो नेत्यर्थेन आने दीर्घ आने आ इति न्यासेन वा इयादेशाप्रवृत्तौ मुग्विधानस्य सवर्णदीर्घैकबाधकत्वादिति चेन्न। दत्तोत्तरत्वात्। ननु मुगागमस्यावार्णत्वेन ग्रहणे आने अचि आद्गुणेनोकाररूपगुणसंपादनेन चारितार्थ्यमिति चेन्न। अवर्णत्ववत् कण्ठ्यत्वस्याप्यातिदेशे तत्प्रवृत्तिबन्धात्[3]। गुणस्य सवर्णदीर्घेण बाधत्वाच्च। एतेन कण्ठ्यत्वातिदेशेऽपि अम् इत्यस्य समुदायस्य तत्त्वेपि ऋकारैकदेशरेफीयेषत्स्पृष्टप्रयत्नमादाय ऋकास्येषत्स्पृष्टस्य सिद्ध्या वार्त्तिकद्वयमपि न कर्तव्यमित्युक्तरीत्या अत्राप्येकादेशमकारसादृश्यमादाय ओकारो गुणो दुर्वार इत्यपास्तम्। ऐचोश्चोत्तरभूयस्त्वादिवदत्र पूर्वभागस्य बाहुल्येन तत्सादृश्यमादाय आ इत्युत्तरभागमादाय वा ओकारस्याप्राप्तेश्चेति दिक्। ननु मुग्विधानेन परिभाषाया अनित्यत्वेऽपि मुग्विषये कुतो न प्रवर्तते लक्ष्यानुरोधान्मुग्विधानसामर्थ्याद्वेति समाधानस्यान्ततोप्याश्रयणीतया 'अन्तेरण्डाविवाहश्चेदादावेव कुतो न स' इति न्यायेन लक्ष्यानुरोधात् सामर्थ्याद्वा सवर्णदीर्घे कर्त्तव्ये मुग्विषये अप्रवृत्तिरिति पूर्वमेव कुतो नोच्यते इति चेत्सत्यम्। अत एवारुचेराह - तेनेति। तच्छब्दस्य बुद्धिस्थपरामर्शकतया 'वुग्युटावि'ति वार्तिके युट्ग्रहणात् परिभाषाया अनित्यत्वेनेत्यर्थः। युटि कृते तस्याभीयासिद्धत्वेन यणि प्राप्ते तदभावाय प्रवृत्तं वार्त्तिकं विफलमेव स्यादिति भावः। नन्वत्रापि युड्विधानसामर्थ्येनैव निर्वाहः। यद्वयश्रवणानापत्तेः। न च 'यणो मय' इतिवार्त्तिकेन तत्सिद्धिः। अन्तर्भूतनिमित्तके द्वित्वे तस्यासिद्धत्वात्। ननु च त्रिपाद्यां तदप्रवृत्तिरिति चेत् यकारत्रयश्रवणार्थं तर्हि तदित्यवेहि। न च यकारद्वयविशिष्ट एव युड्विधेयः अर्द्धमात्रागौरवादिति संक्षेपः। ननु चात्रापि पूर्व्ववदेव वार्तिकारम्भसामर्थ्यमिति चेत्तर्हि लक्ष्यानुरोध एव शरणम्। अनित्यत्वे ज्ञापिते क्व नित्यत्वं क्वानित्यत्वमित्यस्य लक्ष्यानुरोधेनैव निर्णेयत्वात्। लोकव्यवहार[4] उभयथापि दृश्यते। अत एवाधिक्ये देवदत्तग्रहणेन ग्रहणमयं देवदत्त इति। देवदत्तस्यायमवयव इति च। तथा च लोकत एव तद्व्यवहाराव्यवहारयोः सिद्ध्या न तदंशे ज्ञापकानुशरणम्। [5]लोकसिद्धार्थानुवादकत्वं वास्तु। अत एवात्रांशे भाष्ये प्रमाणत्वेन नोल्लिखितमिति दिक्। अत एवाह जहारेत्यादौ चेति। चेन लक्ष्यानुसारोऽत्र सूचितः। धातोरधिकाराभावेन 'येन विने'ति न्यायाप्रसरादाक्षेपस्यापि कर्तुमशक्यत्वेन अतः परस्य णल औकार इत्यर्थे आकारमुद्दिश्य रेफस्य विधानेन नानया तद्विशिष्टग्रहणे आदेशापत्तिः। प्रनिदारयतीत्यादौ तु घुसंज्ञोद्देश्य दापमुद्दिश्य रेफस्य विधानान्न दोष इति भावः। ननु किं विशेषणतया यत्र वर्णग्रहणं तत्र नेत्यर्थः उत विशेष्यतया वा यत्र वर्णग्रहणं तत्र नेत्यर्थः तव[6] विवक्षित इति विकल्पः[7]। नाद्यः इत्याह आने मुगिति। नान्त्योऽपीत्याह किञ्च ङमन्तेति। नन्वावृत्त्यादिकरणगौरवेणास्यभाष्यस्यैकदेश्युक्तित्वेन 'मिदचोऽन्त्यात्परे'तिसूत्रस्थमितः परादिवद्भावे द्विषच्छब्दोपपदात्तपेः खशि द्विषच्छब्दात् तकारात्पूर्व्वं मुमि मोऽनुस्वारोऽपदान्तत्वान्न प्राप्नोतीति भाष्यविरोधेन परिभाषायाअर्थान्तरस्य कर्त्तुमशक्यत्वेन च 'कुर्व्वन्नास्ते' इत्यादौ णत्वस्य[8] दुर्व्वारतया तथा भाष्योपष्टमभकतानुचितेत्यरुचेराह किञ्चेति। एतेन मूलोक्तपरिभाषार्थमनूद्य द्विषन्तप इति भाष्यविरोधमुदभावयन्तः कैयटानुयायिनः समाहिताः। वस्तुतस्तु द्विषन्तपे तकारस्य संयोगान्तलोपे एकदेशविकृतन्यायेन पदान्ततया अनुस्वारः सिद्ध एवेति भाष्यमेकदेश्युक्तिरेव स्पष्टचायमर्थो विवरणे इति दिक्।रदाभ्यामितीति। तत्र हि कृधातोः क्ते, तस्मादिञि, वृद्धौ, रेफात्परत्वेन तकारे नत्वमाशङ्क्य वृद्धिर्निमित्तं यस्य तस्मात्परस्य प्रतिषेध इत्यर्थकेन वृद्धिनिमित्तात्प्रतिषेध इति वार्तिकेन समाहितम्। रेफस्य वृद्धिनिमित्तप्रदर्शनाय तत्र तथोक्तम्। ननु रेफे परिभाषया [9]वृद्धित्वादेशेऽपि प्रत्येकं तत्पर्याप्त्या समुदाये तत्त्वाभावेन विशिष्टे वृद्ध्यादिव्यवहारपरभाष्यासंगतेरिति चेन्न। तद्ग्रहणेनेत्यस्य तद्ग्राहकेणेत्यर्थकरणेन मूलकृतैव तद्दोषवारणात्॥११॥
[1]विशेषकमेव इति गे
[2]ज्ञापकम् इति गे
[3]तत् प्रतिबन्धात् इति के, खे, गे
[4]लोकव्यवहारतः इति खे
[5]लोकसिद्ध्येऽर्थानुवादकत्वम् इति के,खे
[6]तत्र इति के, छे।
[7]विकल्प्य इति के ख ।
[8]णस्य इति खे
[9]वृद्धित्वादेरतिदेशे इति खे, गे