Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः


ननु 'व्याघ्री, कच्छपी' इत्यादौ सुबन्तेन समासात्ततोऽप्यन्तरङ्गत्वाट्टाप्यदन्तत्वाभावाज्जातिलक्षणो ङीष् न स्यादत आह -

गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः।७६।

'उपपदमि'ति सूत्रेऽतिङ्ग्रहणेन 'कुगती'त्यत्र तदपकर्षणेनातिङन्तश्च समास इत्यर्थात्तयोः सूत्रयोः 'सुप्सुपा' इत्यस्य निवृत्त्यैकदेशानुमत्या कारकांशे च सिद्धेयम्। तेनाश्वक्रीतीति सिद्धा। अन्यथा पूर्वं टाप्यदन्तत्वाभावात् 'क्रीतात् करणपूर्वात्' इति ङीष् न स्यात्। अस्या अनित्यत्वात् क्वचित् सुबुत्पत्त्यनन्तरमपि समासो, यथा 'सा हि तस्य धनक्रीता' इति। अन्ये तु, अनित्यत्वे न मानम्, तत्र अजादित्त्वाट्टाबित्याहुः। अत एव कुम्भकार इत्यादौ षष्ठीसमासोऽपि सुबुत्पत्तेः पूर्वमेव। षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति भाष्ये स्पष्टम्। तत्र हि 'षष्ठीसमासादुपपदसमासो विप्रतिषेधेने' इति वार्तिकम्। अथवा विभाषा षष्ठीसमासो, यदा न षष्ठीसमासस्तदोपपदसमास' इति तत् प्रत्याख्यानञ्च। यद्यप्युपपदसमासस्यान्तरङ्गत्वाभिप्रायकं 'न वा षष्ठीसमासाभावादुपपदसमास' इति वात्तिककृतोक्तं, तथापि तदुभयप्रत्याख्यानपरम् 'अथवे'त्यादि भाष्यम्। परिभाषायां सामान्यतः कारकोपादानेन कारकविभक्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात्। एतेनैषा कारकतद्विशेषयोरुपादान एवेति परास्तम्। अस्या विध्येकवाक्यत्वाभावेन विप्रतिषेधादिशास्त्रवत्कार्यव्यवस्थापकत्वेनोपादान एवेत्यर्थालाभाच्च॥७६॥

 

                       कामाख्या

ननु स्वार्थद्रव्यलिङ्गसंख्याकारकाणां क्रमेणोपस्थितिर्येनक्रमेणार्थोपस्थितिस्तेनैव क्रमेणतत्तदर्थनिमित्तककार्योत्पत्तिरितिसिद्धान्तात्सुबुत्पत्तेः प्रागेव स्त्रीत्वनिमित्तकटापि ततः सुपि समासे चादन्तत्वाभावान्ङीष् न स्यादित्याशयेनाह नन्विति। परिभाषायां प्राक् सुबुत्पत्तेरित्यत्रोत्तरपदे इति शेषः। अत एव चर्मक्रीतीत्यादौ न लोपसिद्धिः । अत्र बीजमाह उपपदमिति। अतिङित्यस्य तिङन्ताघटित इत्यर्थः। अस्याअनित्यत्वादिति। 'कर्तृकरणे कृता बहुल'मित्यत्र बहुलग्रहणेन 'अम्बाम्बे'तिसूत्रे गवादिग्रहणेन चास्या अनित्यत्वमिति केचित्। अतएवेति। परिभाषायां कारकांशसत्त्वादेव। अथवा परिभाषास्वीकारादेव। षष्ठीसमासः। कारकार्थकषष्ठ्यन्तस्य समासः। वार्तिकमिति। एतेन विप्रतिषेधप्रदर्शकवार्तिकमपि कारकषष्ठ्यन्तस्य समासः सुबुत्पत्तेः प्रागित्यत्र मानमिति ध्वनितम्। ननु वार्तिकान्तरात् षष्ठीसमासस्य सुबुत्पत्यनन्तरमेव प्रवृत्तिरिति लभ्यत इत्याशयेनाह यद्यपीति। अन्यत् सर्वं सुगमम्। अत्र केचित् उत्सर्गशास्त्रप्रवृत्त्यभावसंभावना प्रयोज्यापवादशास्त्रप्रवृत्तिसंभावनायामुत्सर्गशास्त्राप्रवृत्तिरित्यर्थकेन 'उपसञ्जनिष्यमाण'न्यायेन पूर्वं टापोऽप्राप्तिः यदि टाप् न स्यात्तदा समासे सुपो लुकि ङीष् स्यादिति संभावनायाः सत्वादिति चेत् सत्यम्। भविष्यदपवादविषयातिरिक्त्तत्वेनापि संकोच इत्यस्यैवैतन्न्यायतात्पर्येण व्याघ्रेत्यस्यैव जातिवाचकत्वेन ङीष् विषयत्वात्तदतिरिक्तत्वेन संकोचेऽपि घ्रशब्दाट्टाप् स्यादेवेत्यवतरणं युक्तमेव। न चोक्तन्यायेन अपवादविषयघटकातिरिक्तत्वेनापि संकोचात् प्रकृते टाप् न प्राप्नोतीति वाच्यम्। खट्वाक्रायीति खट्वाक्रीतीत्यादौ खट्वाशब्दस्य अपवाद'क्रीतात्करणपूर्वादि'त्येतद्विषयघटकत्वेन ततष्टाबनापत्तेः । न च अपवादविषयान्तातिरिक्तत्वेन संकोचे नोक्तदोष इति वाच्यम्। घन इव कपिला घनकपिलेत्यादौ 'अन्यतो ङीषि'ति ङीषापत्तेः कपिलशब्दस्य 'तत्पुरुषे तुल्यार्थे'ति पूर्वपदप्रकृतिस्वेरणानुदात्तत्वेनापवादविषयान्तत्वात्। 'अपवादो यद्यन्यत्रे'ति परिभाषया व्याघ्रीत्यादौ टापो दुर्वारत्वाच्चेत्याहुः। मान्यास्तु - समाकालिकापवादविषयातिरिक्तत्वेन संकोचेऽपि यत्रापवादस्य वैयर्थ्यमेव तत्रैवायन्न्यायो यथा दधतीत्यादौ प्रकृते समाकालिकापवादविषयातिरिक्तत्वेन संकोचे ब्राह्मणीत्यादौ 'जातेरस्त्री'त्यस्य चारितार्त्थान्न्यायप्रवृत्तिरित्यवतरणं सम्यगेवेति प्राहुः॥७६॥


                     परिभाषार्थमञ्जरी

ननु व्याघ्री कच्छपीत्यादाविति। ननु 'स्वाङ्गाच्चेत' इति सूत्रस्थकुक्कुटादीनामण्डादिष्विति वार्त्तिकप्रत्याख्यानपरभाष्यरीत्या व्याघ्रीत्यादीनां सिद्धौ नैतदुदाहरणमेतस्याः परिभाषायाः। तत्र हि जात्यन्तरनिवृत्तिपरतायां स्त्रीत्वमनुपकारित्वादविवक्षितमित्यर्थकं न वा स्त्रीपूर्व्वपदविवक्षितत्वादिति भाष्येण कुक्कुटाण्डमृगक्षीरादीनां सिद्धिमभिधाय वार्त्तिकं प्रत्याख्यातम्। तद्रीत्या प्रकृतेऽपि घ्रशब्दात् सुपि तदन्तेन समासे पश्चात्स्त्रीत्वविवक्षायां ङीष्सुलभः। कुक्कुटादीनां जातिव्यञ्जकत्वम्। केवलं घ्र इत्येतस्य न तद्व्यञ्जकत्वमिति त्वन्यदेतत्। स्त्रीत्वविवक्षायाः प्राक् सुपि समासस्तूभयत्र समानः पूर्वोक्तभाष्यानुवादः शेखरे 'अजाद्यतष्टाबि'ति सूत्रेऽपि कृतः। एवञ्च कौम्भकारेय सांकुटिनादीनामसिद्ध्या परिभाषाऽवतारणीया। तत्र हि पूर्वं ङीपि ततः 'सुपि च' कारिशब्देन कुम्भस्य समासे विशिष्टात्स्त्रीप्रत्ययानुत्पत्त्या अवयवादेव ढकि उकारस्य वृद्ध्यनापत्तेः। न चानुपसर्ज्जनस्त्रीप्रत्यये तदादिनियमाभावेन विशिष्टादेव ढगुत्पत्स्यते समुदायढकं बाधित्वा 'द्व्यच' इति परत्वादन्तरङ्गत्वाद्वा अवयवाढ्ढक् प्रसज्येत। अत एव'पुंयोगादाख्यायामि'तिसूत्रेण एतत्परिभाषाफल[1]कथनावसरे एतद्भावे कौम्भकारेयो न सिध्येदिति उक्तम्। सांकुटिने तु 'अभिविधौ भाव इनुणि'ति इनुण्प्रत्ययः। तत्र कुटिन्नित्येतस्माच्छन्दात् समासार्थाद्विभक्तिश्च प्राप्नोति 'अणिनुण्' इति प्रत्ययश्च। ततः स्वार्थिकत्वाद[2]न्तरङ्गत्वादण्प्रत्ययः स्यात्ततः कुटिन्नित्येतस्यैव अङ्गत्वादादिवृद्धिस्स्यात्।प्राक् सुबुत्पत्तेः। समासे अन्तरङ्गत्वात् पूर्वसमासः। अण्प्रत्ययो हि प्रातिपदिकविशेषापेक्षत्वाद् बहिरङ्गः। तत्र संकुटिनित्यस्मात् समासप्रातिपदिकादण् प्रत्यये सति इष्टं सिद्ध्यति। स्पष्टञ्चेदं 'ङ्याप्रातिपदिकादि'ति सूत्रे शेखरेऽपीति चेन्न। अनयैव दिशा सा हि तस्य धनक्रीतेत्यादावपि ङीषापत्त्यादोषात्[3]। व्याघ्रीत्यादीनां परिभाषोदाहरणावादिमत इवाजादिगणे पाठे तु व्याघ्रादीनामेतत्परिभाषोदाहरणत्वमेकदेश्युक्तमेवेति ध्येयम्। अत एव मूलकृतावतरणे आदिपदं दत्तम्। न च पूर्वोक्तभाष्यप्रामाण्यात्पूर्वपदे विवक्षास्वीकारेऽपि उत्तरपदे तत्स्वीकारे मानाभाव इति वाच्यम्। 'शूद्रा चामहत्पूर्व्वाजाति'रित्यजादिगणसूत्रस्थजातिग्रहणविरोधात्। तथाहि तत्र जातिग्रहणस्य न तावन्महाशूद्रा शब्दे टाप् व्यावर्त्यः। [4]महतीशूद्रेति समासे तस्येष्टत्वात्। विशिष्टमहाशूद्रशब्दस्य जात्यन्तरवाचकत्वे तु अवयवार्थसमवेतस्त्रीत्वाभावादेव अवयवाट्टाब्प्राप्तौ तद्वारकतद्ग्रहणं व्यर्थमेव स्यात्। एवञ्च यदा शूद्रशब्दे जातिमात्रविवक्षा न स्त्रीत्वविवक्षा तदा तस्मात्सुपि महच्छब्देन समासे पश्चात्स्त्रीत्वविवक्षायां महाशूद्रेतीष्यते। तच्च तद्ग्रहं विना न सिध्यति। तत्सत्वे तु अमहत्पूर्वेत्यत्रापि तत्सम्बन्धे तद्विशिष्टस्य जातिवाचकत्वाभावान्न निषेधः। एतत्सर्वं भाष्यप्रदीपोद्योते शेखरे च स्पष्टम्। अत्राविवक्षायान्तु 'स्वाङ्गाच्चेत' इति सूत्रस्थं भाष्यमेव गमकत्वेनोपन्यस्तम्। एवञ्च उत्तरपदे विवक्षां विना जातिग्रहणसार्थक्यस्योपपादयितुमशक्यत्वेन त्वदुक्तकल्पनायाः कुकल्पनात्वमिति दिक्। सुप्सुपेत्यस्य निवृत्त्येति।न च प्रथमान्तसुप्ग्रहणस्य निवृत्तौ पूर्वपदे पदत्वप्रयुक्तनलोपादीनां राजयुध्वेत्यादावसिद्धिप्रसङ्ग इति वाच्यम्। उपपदमित्यन्वर्थसंज्ञयैव तत्तकार्यसिद्धिरिति विवरणशेखरादावेवोक्तवात्। ननु कुम्भकारे उत्तरखण्डे कृदुत्पत्त्यनन्तरमेव पूर्वखण्डे षष्ठी प्रवर्तनीया। अपवादविषयत्वात् द्वितीयायाः प्राप्तिरेव न। एवञ्च [5]पूर्वस्योपपदत्वादप्रसङ्गः कर्मण्यणः स्यात्। [6]मन्मते तु प्रातिपदिकार्थाः पञ्चेति पक्षे प्रातिपदिकस्यैव कर्मबोधकत्वेन उपपदत्वात् तन्निबन्धनप्रत्यये कर्मषष्ठ्यां कुम्भ अस् कार इति प्रक्रियावाक्ये समास इति चेन्न। षष्ठीसमासस्यावकाशः राज्ञः पुरुषः। उपपदसमासस्यावकाशः स्तम्बेरमः। इहोभयं प्राप्नोति कुम्भकारो नगरकारः उपपदसमासो भवति [7]विप्रतिषेधेनेति भाष्यस्थं कुम्भकारेति प्रतीकमुपादाय कैयट आह। पञ्चकप्रातिपदिकार्थे प्रातिपदिकेनैव कर्म्मणोक्तत्वात् तत्रैवोपपदे अणा भाव्यमपवादविषयत्वाच्च द्वितीयानुत्पादात्। कृते चाणि 'कर्तृकर्मणो'रिति षष्ठी भवति इत्युभयप्रसङ्ग इतीमं कैयटमनूद्य प्रातिपदिकस्य पदत्वाभावेनोपपदत्वं कथमिति चिन्त्यम्। सुबन्तमेवोपपदमिति 'तत्रोपपदमि'ति सूत्रे भगवान् वक्ष्यति स्वयञ्च।  किञ्च पञ्चकपक्षेऽपि सकलकारकशक्तिमानर्थः संमुग्धाकारेणैव प्रातिपदिकेनोच्यते। न तु विशिष्येति कर्म्मोपपदत्वप्रयुक्ताणोऽप्राप्तिः। अन्यथा करणाद्युपपदेऽपि कर्म्मोपपदप्रसङ्गः स्यात्। तस्माद्वस्तुतः प्रकृत्यर्थकर्म्मत्वसत्वेन कृदनुत्पत्तावपि भावित्तत्वं गृहीत्वा षष्ठीप्रवृत्तिरित्येवभाष्याशय उचित इति विवरणकारैरेवाभिधानात्। न चानयोर्योगयोर्निवृत्तं सुप्सुपेति भाष्यस्य यथाश्रुतार्थकत्वेन उत्तरसूत्रे[8] प्रथमान्तसुब्ग्रहणस्य निवृत्तावन्वर्थसंज्ञया राजयुध्वादौ न लोपसिद्धावपि पूर्वसूत्रेऽपि तन्निवृत्तौ निर्गत इत्यादौ निसोरुत्वं न स्यादिति वाच्यम्। निर्गत इत्यादौ शब्दान्तरसम्बन्धात् प्राक्सुबुत्पत्तौ लुकि च पदत्वोत्तरं पदान्तरसम्बन्धेन समासे न क्षतिरिति शब्दरत्नेनैव समाधानात्। एतेन यत्तूपपदमिति महासंज्ञा बलात्सुबन्तस्यैवोप पदसंज्ञाविज्ञानान्न राजयुध्वेत्यादौ दोष इति नव्यतरास्तन्न। कुम्भकार इत्यादौ कृत्प्रत्ययोत्पत्तेः प्राक् कर्मषष्ठ्याः कर्तुमशक्यत्वात्। द्वितीयाश्चापवादविषयत्वादप्रवृत्तेः। कुम्भेत्यस्योपपदत्वाभावात्कर्मण्यणोऽप्रसङ्गात्। अस्मन्मते तु पञ्चकप्रातिपदिकार्थपक्षे प्रातिपदिकस्यैव कर्म्मबोधकत्वादपवादत्वेन तन्निबन्धने प्रत्यये कर्म्मषष्ठ्या कुम्भ अस् कार इति प्रक्रियावाक्ये समासः। किञ्चानयोर्योगयोः प्रथमान्तसुब्ग्रहणस्यापि निवृत्तौ पूर्वसूत्रविषये तिरोभूयेत्यत्र रुत्वं न स्यादिति कैयटानुयायिनोक्तं विवरणशेखरशब्दरत्नादिभट्ट[9]ग्रन्थापर्य्यालोचनमूलकं दत्तजलाञ्जलित्वमापादितमिति दिक्। तेनाश्वक्रीतीति सिद्धेति। एतत्सिद्धिस्तु पूर्वरीत्यैवेति कारकांशे उदाहरणान्तरमूहनीयम्॥७६॥

[1]छ-घपुस्तके फलशब्दो नास्ति।

[2]समासार्थाद्विभक्तिश्च प्राप्नोति 'अणिनुण्' इति प्रत्ययश्च। ततः स्वार्थिकत्वाद् इति पाठः ग-पुस्तके नोपलभ्यते।

[3]ङीषापत्त्यादोषाभावात् इति छे।

[4]महाशूद्रा इति घे

[5]पूर्वपदस्य इति छे

[6]तन्मते इति छे

[7]पूर्व्वविप्रतिषेधेनेति इति छे

[8]उभयसूत्रे इति गे

[9]भट्ट इति गे नास्ति