अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी
ननु स्वस्रादित्वप्रयुक्तो मातृशब्दस्य ङीब्निषेधः परिच्छेतृवाचकमातृशब्देऽपि स्यादत आह –
अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी।१०७।
तेन शुद्धरूढस्य जननीवाचकस्यैव ग्रहणं न परिच्छेत्तृवाचकस्य। योगजबोधे तदनालिङ्गितशुद्धरूढिजोपस्थितिः प्रतिबन्धिकेति व्युत्पत्तिरेव तद्बीजम्। रथकाराधिकरणन्यायसिद्धोऽयमर्थः। कश्चित्तु 'दीधीवेवीटाम्' इत्यत्रानया परिभाषया दीधीङ्- वेवीङोरेव ग्रहणं न दीङ्धीङ्वेञ्वीनामिति। तन्न। तथा सति दीवेधीवीटामित्येव वदेदित्यन्ये॥१०७॥
कामाख्या
अवयवप्रसिद्धेः। अवयवशक्तिग्रहसहकृतसमुदायशक्तिग्रहात्। समुदायप्रसिद्धिः। अवयवशक्तिग्रहानपेक्षसमुदायशक्तिग्रहः। एवं च शुद्धरूढार्थवाचको जननी बोधको यो मातृशब्दस्तस्यैव स्वस्रादिषु ग्रहणम्। परिच्छेतृवाचकस्तु प्रकृतिप्रत्ययशक्तिग्रहसहकारेणार्थबोधकोऽतो न गृह्यते। एवं च यादृशः प्रतिबध्यप्रतिबन्धकभावः फलितस्तमाह योगजेति। योगोऽवयवशक्तिग्रहजन्यावयवार्थोपस्थितिस्तज्जन्यो यो बोधस्तस्मिन्। तदनालिङ्गतेति। योगार्थसहकृतत्वमित्यर्थः। तेन पङ्कजपदात् पङ्कजनिकर्तृपद्ममित्याकारकबोधाङ्गीकारेऽपि न क्षतिः। तत्र रूढिजन्या या रूढ्यर्थनावच्छेदकपद्मत्वप्रकारकोपस्थितिः तस्या अवयवशक्तिग्रहजन्यावयवार्थोपस्थितिसहकृतत्वात्। रथकारेति। रथं करोतीति व्युत्पत्त्या रथकारोऽग्निनादधीतेत्यत्र रथकारपदबोध्यः कश्चन ब्राह्मणः उत रूढः संकरजातीय इति पूर्वपक्षे पूर्वोक्तप्रतिबध्यप्रतिबन्धकभावेन रूढस्यैव ग्रहणमिति सिद्धन्तितम्। पूर्वोक्तप्रतिबध्यप्रतिबन्धकभावानभिज्ञस्योक्तिं खण्डयति कश्चिदिति। तथासतीति। धातुचतुष्टयस्य ग्रहणेऽभिप्रेते सति इत्येववदेत्। असन्देहायेति शेषः॥१०७॥
नास्ति।