लादेशेषु वाऽसरूपविधिर्नास्ति
ननु 'श्वः पक्ते'त्यत्र वासरूपविधिना लृडपि प्राप्नोति, कृत आदेशे वैरूप्यादत आह -
लादेशेषु वाऽसरूपविधिर्नास्ति।७॰।
आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः। अत्र च 'हशश्वतोर्लङ् च' इति लङ्विधानं ज्ञापकम्। अन्यथा 'परोक्षे लिट्' इति लिटा लङः समावेशोऽसारूप्यात्सिद्ध इति किं लङ्विधानेन? शत्रादिभिस्तिङां समावेशार्थं शतृविधायके विभाषाग्रहणानुवृत्तिः 'लिटः कानज्वा' इति वाग्रहणं च कृतम्। तज्ज्ञापयति वासरूपसूत्रेऽपवाद आदेशत्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम्। तत्फलं तु सदादिभ्यो भूतसामान्ये लिटा क्वसुरेव, न तु पक्षे तिङ् इति बोध्यम्॥७॰॥
कामाख्या
वासरूपविधिप्रसङ्गादाह ननुश्वःपक्तेति। ननु नानुबन्धकृतमसारूप्यमिति परिभाषया लुट्लृटोरसारूप्याभावादत आह कृतेआदेशेइति। तथा च आदेशनिष्ठवैरूप्यस्य स्थानिन्यारोपाद्वासरूपविधेः प्राप्तिरिति भावः। परिभाषायां लादेशपदं लाक्षणिकमिति तदर्थं दर्शयति आदेशेति। ननु लकारादेशयोरुत्सर्गापवादत्वाभावेन। 'हशश्वतो'रिति लङविधानमपि सार्थकम्। किं च लस्यादेशेषु इति षष्ठीतत्पुरुषमेवास्तु। लक्षणायां बीजाभावात्फलाभावाच्चेत्यत आहशत्रादिभिरिति।
अयंभावः - लकारे वासरूपविध्यभावाय न परिभाषा अरभ्यते किन्तु लादेशेषु तदभावाय। अत्रैव शतृविधायके तदनुवृत्तिः लिटः कानज्वेति वा ग्रहणञ्च प्रमाणम्। अत एव परिभाषायां लादेशेष्वित्येवोक्तन्न तु लकारेष्विति॥७॰॥
नास्ति।