Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

चानुकृष्टं नोत्तरत्र


ननु 'वदः सुपि क्यप् चे'ति चेनानुकृष्टस्य यतो 'भुवो भावे' इत्यत्राप्यनुवृत्तिः स्यादत आह -

चानुकृष्टं नोत्तरत्र।७९।

णमुल्यनुवर्तमाने अव्ययेऽयथाभिप्रेत इति सूत्रे पुनर्णमुल्ग्रहणमस्या ज्ञापकम्। अन्यथा क्त्वा चेति वदेत्। तद्धि उत्तरत्रोभयोः सम्बन्धार्थम्। उदाहरणानि स्फुटानि। इदमनित्यम्। अत एव 'तृतीया च होरि'त्यत्र चानुकृष्टाया अपि द्वितीयाया 'अन्तरान्तरेणे'त्यत्र सम्बन्धः। 'लुटि च क्लृप'  इति सूत्रस्थेनानुवृत्त्यर्थसकलचकारप्रत्याख्यानेन विरुद्धेयम्। व्याख्यानादेवानुवृत्तिनिवृत्त्योर्निर्वाह इति तदाशयः। 'कुलिजाल्लुक्खौ चे'ति सूत्रस्थभाष्यविरुद्धा च। तत्र हि 'द्विगोः ष्ठंश्चे'ति सूत्रात् ष्ठनस्तत्र चेनाप्यनुकष्टस्य 'खोऽन्यतरस्यामि'त्यस्य चानुवृत्तिं स्वीकृत्य 'लुक्खौ चे'ति भाष्ये प्रत्याख्यातम्॥७९॥

 


कामाख्या

चानुकृष्टमिति। चकारेणानुवर्त्तमानमुत्तरत्र न सम्बध्यते। निवृत्त्यर्थकचकारानुकृष्टमिति यावत्। अत एव 'तृतीया चहो'रित्यत्रानुवृत्यर्थकचकारानुकृष्टाया द्वितीयाया उत्तरत्रानुवृत्तावपि न क्षतिः। अत एवानुवृत्यर्थसकलचकारप्रत्याख्यानपर 'लुटि च क्लृप' इति सूत्रस्थभाष्यविरोधो न। ये व्यवहितसूत्रस्थाश्चकारास्ते निवृत्यर्थकाः अव्यवहितसूत्रस्थस्त्वनुवृत्त्यर्थकाः। अत एव 'लुक् खौ चे'त्येतत् प्रत्याख्यानेन विरोधः। एतेनेयमनित्येत्यपास्तमिति केचित्। अतएव। अस्या अनित्यत्वादेव। उक्तमेवार्थं द्रढयति कुलिजादिति। तत्र द्विगोरिति सूत्रे। अन्यत् सर्वं सुगमम्॥७९॥


परिभाषार्थमञ्जरी

भाष्ये प्रत्याख्यातमिति। ननु 'इको गुणवृद्धी'ति सूत्रे भाष्ये इक्परिभाषाया 'दिव औदि'त्यादावपि प्रवृत्तौ द्यौरित्यादाविको विधेयमौत्वादिकं प्रवर्तते इत्याशङ्क्य संज्ञया विधाने नियम इति समाधानमुक्तम्। तत्र च गुणवृद्धिग्रहणं पूर्वसूत्रादनुवर्तते। यदि तदनुवर्तते 'अदेङ्गुणः' वृद्धिश्चेत्यदेङो वृद्धिसंज्ञापि प्राप्नोति इति वृद्धिसंज्ञां प्राप्य सम्बन्धमनुवर्तते अथवा मण्डूकगतिराश्रीयते इत्यादिसमाधानान्युक्तानि। तत्र समाधानमध्ये  अथवाऽन्वर्थसंज्ञावचनाद् अनुकर्षणफलकचकाराकरणान् नादेङां संज्ञेति वदता अनुकर्षणार्थकचानामावश्यकता सूचितेति तद्विरोध इति चेन्न। 'लुटि च क्लृपः' किमर्थश्चकारः स्यसनोरित्येतदनुकृष्यते। यदि तर्हि नान्तरेण चकारमनुवृत्तिर्भवति 'द्युद्भ्यो लुङी'ति अत्रापि चकारः कर्तव्यः विभाषेत्यनुकर्षणार्थः। अथेदानीमन्तरेण चकारमनुवृत्तिर्भवति। इहापि नार्थश्चकारेण। एवञ्च सर्व्वे चकाराः प्रत्याख्यायन्त इत्यादिप्रत्याख्यापकप्रत्यक्षभाष्यैर्विरोधेनास्यैकदेशयुक्तित्वादिति दिक्॥७९॥