Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

एकदेशविकृतमनन्यवत्

ननु रामौ इत्यादौ वृद्धौ कृतायां कार्यकालपक्षे कथं पदत्वम्, उभयत आश्रयणेऽन्तादित्वाभावात् यस्माद्वहितस्तदादितदन्तत्वाभावादत आह -

एकदेशविकृतमनन्यवत्।३७।

अनन्यवदित्यस्यान्यवन्नेत्यर्थः। तत्रान्यसादृश्यनिषेधेऽन्यत्वाभावः सुतराम्। अत एव तादृशादर्थबोधः, अन्यथा शक्ततावच्छेदकानुपूर्व्यज्ञानात् ततो बोधो न स्यात्। एवञ्च रामिति मान्तस्य यस्माद् विहितस्तत्त्वम्, औ इत्यस्य परादिवत्त्वेन सुप्त्वमिति तदादितदन्तत्वम् आर्थसमाजग्रस्तम्। छिन्नपुच्छे शुनि श्वत्वव्यवहारवन्मान्ते तत्त्वं लोकन्यायसिद्धम्। अत एव 'प्राग्दीव्यतः' इति सूत्रे भाष्ये दीव्यतिशब्दैकदेशदीव्यच्छब्दानुकरणमिदमित्युक्त्वा 'किमर्थं विकृतनिर्देशः?' एतदेव ज्ञापयत्याचार्यो भवत्येषा परिभाषैकदेशविकृतमनन्यवदित्युक्तम्। एतेनायं न्यायः शास्त्रीयकार्य एव शास्त्रीयविकार एवेत्यपास्तम्। विकृतावयवनिबन्धनकार्ये तु नायम्, छिन्नपुच्छे शुनि पुच्छवत्त्वव्यवहारवद् विकृतावयवव्यवहारस्य दुरुपपादत्वात्। एवमक्तपरिमाणग्रहणेऽपि नायम्, उक्तयुक्तेः। एतद् 'येन विधि'रित्यत्र भाष्यकैयटयोर्ध्वनितम्। यत्र त्वर्धं तदधिकं वा विकृतम्, तत्र जातिव्यञ्जकभूयोऽवयवदर्शनाभावेन तत्त्वाप्रतीतौ कार्यसिध्यर्थं विकृतानल्रूपावयवत्वप्रतीत्यर्थं च स्थानिवत्सूत्रम्। क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम्। तेन 'अभीयाद्' इत्यादिसिद्धिः। स्पष्टं च क्वचिन्न्यायाप्रवृत्तिः 'प्रथमयोः पूर्वसवर्णः' इत्यत्र कैयटेन दर्शितेत्यन्यत्र विस्तरः॥३७॥

॥ इति शास्त्रत्वसम्पादनोद्देशनामकं प्रथमं प्रकरणम्॥

 

कामाख्या

अतिदेशप्रसंगसंगत्याऽतिदेशान्तरमवतारयति ननु रामाविति। रामौ स्मरतीति प्रयोगे निघातप्रवृत्तिसमये पदत्वज्ञानमपेक्षितन्तच्च न संभवति एकादेशेन सुपस्तदादेश्चापहारेण सुबन्ततदादित्वविरहात् सुप्तिङन्तमित्यस्याप्राप्तिः। न तु परादिवद्भावेन औशब्दे सुप्त्वस्य पूर्वान्तवद्भावेन एकादेशविशिष्टेतदादित्वस्य च संभवेन पदत्वं स्यादेवेत्यत आह उभयत इति। अत्र कार्यकालपक्ष इत्यनेन यथोद्देशपक्षे पूर्वकालप्रवृत्तस्य पदत्वस्य आनुमानिकस्थानिवद्भावेन एकादेशविशिष्टे सुलभत्वमिति सूचितम्। कार्यकाले तु नानुमानिकस्थानिवद्भावः यस्माद्विहितस्तदादित्वस्याशास्त्रीयत्वादिति मूलाशयः। अत्रेत्थं विचारः - आकडारीयभपदसंज्ञासु यथोद्देशपक्षस्यैव सिद्धान्तितत्वेन एकतरपक्षेण लक्ष्यसिद्धौ पक्षान्तरेण दोषोद्भावनस्यानुचितत्वेन कार्यकालपक्ष इत्युक्तिरनुचितेति। सत्यम्। प्राचीनमते नैतद्ग्रन्थप्रवृत्तेः। किं च भसाहचर्येण पदपदस्य परनिमित्तकस्वादिष्विति विहितपदपरत्वात्। किं च कार्यकालपक्षे अंशद्वयं – स्वदेशत्यागो यदाकार्यन्तदा संज्ञेति च। तत्र यथोद्देशपक्ष एवेत्येवकारेण आद्यांशस्यैव व्यावृत्तिः, उत्तरांशस्तु – पदसंज्ञायामस्त्येवेति न ततो विरोधः। उभयत आश्रयणे इति निषेधोद्भावनमपि प्राचीनमतेनैव। स्वमते तु उभयत आश्रयणेऽप्यन्तादिवद्भावस्य तत्र तत्रेष्टत्वेन स्वीकारात्। यदि च अपरनिमित्तकत्वेनान्तरङ्गत्वाद्यथोद्देशे जातपदत्वस्यानुमानिकस्थानिवद्भावेन कृतैकादेशेऽपि सुलभतया नेदं परिभाषाफलमित्युच्यते तर्हि चकारेति फलं बोध्यम्। तत्र हि उरदत्वोत्तरं करित्यस्य द्विरुक्तधातुपूर्वभागत्वाभावेनाभ्यासत्वाभावाद्धलादिः शेषाप्रवृत्तेः, अभ्यसस्यानर्थकत्वेन आनुमानिकस्थानिवद्भावाप्रसक्तिः। अनेन न्यायेन तु कृशब्दे स्थितस्य द्विरुक्तधातुपूर्वत्वस्याभ्यासत्वस्य वा करशब्दे आनयने हलादिः शेषः सुलभः। न च अर्धविकारेऽर्धाधिकविकारे वा न्यायाप्रवृत्तिस्वीकारात् कथमनेनाभ्यासत्वमिति वाच्यम्। स्वीयविधेयताश्रयावधिकपूर्वत्वस्वीयोद्देश्यविधेयोभयमात्रारब्धसमुदायघटकत्वोभयसम्बन्धेन द्वित्वशास्त्रविशिष्टोऽभ्याससंज्ञको भवतीत्यर्थकपूर्वोऽभ्यास इत्यस्य प्रवृत्तौ कृकृ इति समुदायनिष्ठस्य स्वीयोद्देश्यविधेयोभयमात्रारब्धसमुदायत्वस्य कर्कृ इति शब्दे न्यायेनातिदेष्टुं शक्यत्वात्। अत्र च द्वितीयसम्बन्धनिवेशादुर्णुनावेत्यत्रोर्णुशब्दस्याभ्यासत्वाभावेन हलादिः शेषो न। केचित्तु द्वितीयसम्बन्धस्थाने स्वीयोद्देश्यताश्रयसमभिव्याहृतवर्णघटितत्वमिति सम्बन्धं निवेश्य न्यायं विनापि करित्यस्याभ्याससंज्ञां विधाय प्रहिणोति फलं वदन्ति। तत्र हि हिनोशब्दस्यानर्थकत्वेन स्थानिवत्वाप्राप्त्याऽनेन न्यायेनैव हिनुशब्दत्वं संपाद्य 'हिनुमिने'ति णत्वं सिद्ध्यति। न चात्र गुणस्याचः परस्मिन्निति स्थानिवत्वेन निर्वाहः पूर्वत्रासिद्धीय इति निषेधस्तु न। तस्य दोषः संयोगेत्यादिनिषेधादिति न्यायस्य फलाभाव इति वाच्यम्। प्रराभ्यामित्यत्र रिशब्देऽनेन न्यायेन रैशब्दत्वमादाय 'रायो हली'ति यात्वस्य फलत्वसंभवात्। न चात्राप्यानुमानिकस्थानिवद्भावेनैव सिद्धेर्नेदं फलमिति वाच्यम्। गुणोदकमित्यत्र दकशब्दे अनेनोदकशब्दत्वमानीय उदके केवल इति स्वरसिद्धेः फलत्वसंभवात्। यदि च 'पूर्वोत्तरपदनिमित्तकार्यात्पूर्वमन्तरङ्गोऽप्योकादेशो ने'ति परिभाषया सिद्धिरित्युच्यते तर्हि परिभाषाफलं मृग्यम्। अत एवानुमानिकस्थानिवद्भावमाश्रित्य स्थानिवत्सूत्रे भाष्येऽस्यानाश्रयणं कृतम्। एकादेशः विकृतो यस्मिँस्तत्। सामान्ये नपुंसकं शब्दस्वरूपविशेषणं वा। एकदेशप्रतियोगिकविकारविशिष्टः स्ववद्भवतीतिपरिभाषाऽर्थः। शकारप्रतियोगिकविकारविशिष्टोऽयमिति मान्तः स्ववद्भवति अर्थात् स्वविशिष्टं स्वतोभिन्नं न भवति। वै. स्वघटकोद्देश्यकविकारघटितत्व स्वविशिष्टाघटितत्वोभयसम्बन्धेन। सम्बन्धे वै. स्वाघटकत्व स्वघटकमात्रोद्देश्यकविकारेतरत्वोभयसम्बन्धेन। द्वितीयसम्बन्धनिवेशान्निर्जरशब्दे न जराशब्दत्वातिदेशः राशब्दे जराशब्दवैशिष्ट्यसत्वेऽपि जातिव्यञ्जकभूयोऽवयवदर्शनाभावेन न तस्मिन् तद्रूपताव्यवहारः। नापि रामावित्यादावेकादेशस्य रामशब्दैकदेशविकृतत्वं तद्घटकमात्रोद्देश्यकत्वाभावात्। अत एवेति। मान्ते अदन्तरामशब्दाभेदस्यानया बोधितत्वादेव तादृशात् = विकृतात्। अन्यथा। परिभाषाया अभावे शक्ततावच्छेदकज्ञानादेव हि शक्तिज्ञानं तत एव बोध इति भावः। एवं च। परिभाषास्वीकारे च। आर्थसमाजेति। अर्थानामयमार्थः। स चासौ समाजः समुदायस्तेन ग्रस्तं गठितं व्याप्तं वा, अर्थश्च सुप्त्वं तदादित्वादि च विवक्षितः। अस्य लोकसिद्धत्वेऽपि शास्त्रे आश्रयणे प्रमाणमाह अत एवेति। परिभाषास्वीकारादेव। 'प्राग्दीव्यतोऽणि'ति सूत्रे दीव्यदिति 'तेन दीव्यती'त्यत्रत्य दीव्यतीत्यस्यानुकरणं तच्च न संभवति। अनुकरणस्यानुकार्यसमानानुपूर्वीकत्वनियमात्। अनेन न्यायेन एकदेशविकृतो दीव्यदिति दीव्यतितोऽभिन्नमिति बोधिते अनुकरणत्वं ज्ञापकत्वं च सूपपन्नम्। न च किमर्थं विशिष्टानुकरणं लाघवात्तान्तानुकरणेनैव सिद्धेरिति वाच्यम्। अवधेर्दीव्यतो निरर्थकत्वेन अवध्यवधिमतोः साजात्यमिति बलात् प्रत्ययार्थबोधकपदाघटितेऽपि 'बाह्वादिभ्यश्चे'त्यादिसूत्रे अणाधिकारापत्तौ अणिञोः पर्यायतापत्तेः। ज्ञापयतीति। बोधयतीत्यर्थः। स्वांशे चारितार्थ्यासंभवात्। एतेनेति। उक्तज्ञपकपरभाष्येण। अत्र हि विकारस्य कार्यस्य शास्त्रीयत्वाभावेन भाष्यविरोधः स्यादिति भावः। नन्वेवं हि कतरदितत्यत्र विकृतावयवह्रस्वत्वप्रयुक्तमपि कार्यं स्यादत आह विकृतावयवेति। विशेषान्तरमप्याह एवमक्तेति। परिछिन्नपरिमाणग्रहणेइत्यर्थः। अर्थात् अयोग्विपुरुषनिश्चीयसंख्यात्वपरिमाणत्वान्यतरव्याप्यधर्मावच्छिन्नविषयताप्रयोजकत्वमक्तपरिमाणत्वम्। तादृशसंख्यात्वव्याप्यधर्मो जराशब्दे वतुष्ट्वरूपः तदवच्छिन्नविषयता जरानिष्ठा तत्प्रयोजकत्वन्तस्य एवं सर्वत्र गुणोदकमित्यत्र भाष्यन्तु पूर्वोत्तरपरदनिमित्तेत्यादिना पूर्वमेव स्वप्रवृत्या एकदेश्युक्तं दीव्यतिशब्दत्वस्यानेन नातिदेशः किन्तु दीव्यतिशब्दनिष्ठबोधजनकत्वस्यैवेति केचिदाहुः। मान्यास्तु संख्यात्वपरिमाणत्वान्यतरव्याप्यधर्मावछिन्नप्रकारताकबुद्धिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकविषयताश्रयविशिष्टत्वं वै. स्वघटितत्व स्वसमनियतत्वान्यतरसम्बन्धेन द्वयतृकत्वस्य एकत्वप्रतिबन्धकीभूतद्वित्वघटितत्वात्जरात्वादेस्त्रित्वप्रतिबन्धकीभूत चतुष्ट्व समनियतत्वात् परिच्छिन्नपरिमाणत्वमिति प्राहुः। मिश्रास्तु -संख्यात्वपरिमाणत्वान्यतरव्याप्ययत्किञ्चिज्जातिव्यापकाभावप्रतियोगित्वं तत्त्वं। व्यापकत्वघटकाधिकरणता च स्वाश्रयाश्रयत्वसम्बन्धावच्छिन्ना। तथा च संख्यात्वव्याप्याजातिः पञ्चत्वत्वं, तदधिकरणं स्वाश्रयाश्रयत्वसम्बन्धेन पञ्चाक्षरावयवकः समुदायस्तन्निष्ठाभावो घटत्वाद्यभावस्तदीयप्रतियोगितावच्छेदकं घटत्वत्वं अवच्छेदकं जरात्वाभावत्वं तद्वत्वरूपव्याप्यकत्वं जरात्वाभावस्य तत्प्रतियोगित्वं जरात्वस्येतिलक्षणसमन्वय इत्याहुः। एषां धर्माणां परिगणिताक्षराम्भकसमुदायात्मकव्यक्तिवृत्तित्वं यथा तिङ्त्वोपसर्गत्वप्रत्ययत्वादीनां तेषामक्तपरिमाणत्वम्। अत्रत्य बहुविचारो निरर्थक इति दिक् । नन्वनेनैव सर्वत्र सिद्धौ स्थानिवत्सूत्रं किमर्थमत आह यत्र त्वर्धमिति।॥३७॥

॥इति शास्त्रत्वसम्पादकनामकं प्रथमं प्रकरणम्॥


परिभाषार्थमञ्जरी

कार्य्यकालपक्षे कथमिति। यथोद्देशस्याप्युपलक्षणमिदम्। तत्रापि पदत्त्वस्यातिदेशेनैव वाच्यत्वात्। ननु 'अपादानमुत्तराणि कारकाणि बाधन्ते' इत्याकडारीयभाष्यानुसारात्तदधिकारपठितसंज्ञासु यथोद्देशपक्षस्यैव सिद्धान्तसम्मतत्त्वेन स्वेनापि पूर्व्वं तथैवानूदितत्वेन च कार्य्यकालपक्षोपक्रमेण शङ्काऽसंगतेति चेन्न। भाष्यस्यविशेषविषयत्वेन तत्रादोषात्। तथाहि तदधिकारपठितं संज्ञाद्वयं यत्र प्रशक्तं तत्रैव स नियम:। अत एव तत्र तत्र भपदसंज्ञाविषये त्विति संज्ञाद्वयोल्लेखः संगच्छ्ते। यथाराज्ञ इत्यत्र न लोपस्यासिद्धत्वात् पूर्वमल्लोपो न इति लोपे पश्चात्प्राप्तनलोपैकवाक्यतापन्नपदत्वस्य तदेकवाक्यतापन्नभत्वेन बाधायोगान्न लोपापत्तिः। भाष्योदाहरणात्तथैव लाभाच्च। वस्तुतस्तु तत्रत्यभपदसंज्ञाविषये यथोद्देशपक्ष एवेत्यत्र मानाभाव:। न चोक्तं भाष्यमेव मानम्। तस्यान्यथा सुयोजत्वात्। तथाहि अग्नी इत्यादौ[1] प्लुते कृते कार्यकालपक्षे प्रगृह्यसंज्ञाया: अणोऽप्रगृहयस्येत्येतदेकवाक्यतापन्नत्वेन तद्दृष्ट्या प्लुतस्यासिद्धत्वेन सूत्रे त्रिमात्रस्याग्रहणात् अप्रगृह्यत्वेऽनुनासिकप्रवृत्तभिया लक्ष्यानुसारियथोद्देशपक्षावलम्बकेदूदेत्सूत्रस्थभाष्यवत् प्रकृतेऽपि तस्यैवाङ्गीकारात्। एवञ्च सर्व्वथा कार्य्यकालपक्षाभावबोधन्तु[2] न किञ्चिदेतत्। अत [3]एवादिवत्वे कानि प्रयोजनानि इत्युपक्रम्य 'सुप्तिङाब्विधिषु प्रयोजनमि'ति वार्त्तिकव्याख्यावसरे वृक्षे तिष्ठतीति सुब्विधिमुदाहृत्य कार्य्यकालपक्षे पदत्वप्रतिपाद‌कान्तादिवत्सूत्रस्थभाष्यं संगच्छते। संगच्छते च भाष्यानुवादक आदेशप्रत्यययोरिति सूत्रस्थशब्दरत्नञ्च[4]। न चाकडाराधिकारस्थभपदसंज्ञाविषयेत्यादिपूर्वग्रंथविरोध: [5]शेखरादिविरोधश्चेति वाच्यम्। तत्र एतस्य भिन्नक्रमिकत्वमङ्गीकृत्य विषये इत्यस्यानन्तरं योजनेनादोषात्। एवञ्च यत्र संज्ञाद्वयं प्रशक्तं तत्रैव स नियम इत्याशयः। द्वितीये तु विषये त्वित्यस्यानन्तरं लक्ष्यानुरोधेन प्राप्त[6] इति शेषो बोध्य इति तत्त्वम्। इदं सर्व्वं कार्य्यकालपक्षे इति वदता मूलकृता बोधितमिति दिक्। उभयत आश्रयण इति।ननु वतिघटितशास्त्रस्याहार्य्यारोपबोधकत्वेन तस्य च विरुद्धविषयस्यापि युगपत् संभवेनान्तादिवत्सूत्रे यथा द्वयोरेकः प्रेष्यो भवति। ताभ्यां युगपद्भिन्नदेशे प्रेषितोऽविरोधार्थी[7] कस्यापि कार्य्यं न करोति इति लोकन्याय सिद्धममुं न्यायमुक्त्वा तदनुदाहरणेन च 'न पदान्तादि'सूत्रस्थभाष्योल्लिखिते न्याये एकदेश्युक्तित्वं स्वस्याभिमतमिति कथं तदुल्लेख इति चेन्न। 'येषां क्वापि' इति न्यायेनास्य प्राचीनानुसारित्वात्। वस्तुतस्तु 'उपसर्गस्यायतावि'ति सूत्रे अयति परस्योपसर्गावयवस्य रेफस्य लत्वमित्यर्थे प्लायत इत्यादावेकादेशे कृते व्यपदेशाभावाल्लत्वं न स्यादिति शङ्किते तत्रैकदेशिनाऽन्तादिवद्भावेन व्यपवर्ग इत्युत्तरिते परेणैकादेशिनोभयत इति निषेध इत्युक्तेरचः परेति स्थानिवद्भावात् व्यपवर्गसाधकसिद्धान्तभाष्येणान्तादिवद्भावेन व्यपवर्गाभावबोधनादपदत्वे प्रकृतोदाहरणे तद्भावसाम्यमादाय उभयत इत्यस्योल्लेखो न तु वस्तुतस्तदाश्रयणेनेति बोध्यम्। विकृतावयवेति। पचत्वित्यादाविति भावः।एवमक्तेति। सर्वकादाविति भावः। अत एव भाष्ये तन्मध्यपतितन्यायेन सर्वादित्वमुक्तं तदेव भाष्यमाह एतद्येनेति॥३७॥

॥इति शास्त्रत्वसम्पादकनामकं प्रथमं प्रकरणम्॥

[1]इत्यत्र खे,गे

[2]बोधकन्तु इति गे

[3]एवायादिवत्वे इति के, एव स्थादित्वे इति गे

[4]शब्दरत्नश्च इति गे

[5]शेखरविवरणादि इति के,खे,गे

[6]प्राय इति के,खे

[7]विरोधार्थे इति के। अविरोधार्थो इति खे। अविरोधार्थ इति गे