नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः
नन्वेवम् 'अक्षद्यूरि'त्यादौ बहिरङ्गस्योठोऽसिद्धत्वादन्तरङ्गो यण् न स्यात्, अत आह-
नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिः।५१।
अत्र 'षत्वतुकोरि'ति सूत्रस्थं तुग्ग्रहणं ज्ञापकम्। अन्यथा 'अधीत्य' 'प्रत्ये'त्यादौ समासोत्तरं ल्यप्प्रवृत्त्या पूर्वं समासे जाते तत्र संहिताया नित्यत्वाद् ल्यबुत्पत्तिपर्यन्तमप्यसंहितयाऽवस्थानासम्भवेन एकादेशे ल्यपि तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षैकादेशस्य बहिरङ्गतयाऽसिद्धत्वेन तद्वैयर्थ्यं स्पष्टमेव। पदद्वयसम्बन्धिवर्णद्वयापेक्षं बहिरङ्गमिति 'प्रेद्ध' इत्यादौ गुणो बहिरङ्ग इति ग्रन्थेन 'न धातुलोप' इति सूत्रे 'संयोगान्तस्य लोपः' इति सूत्रे च भाष्ये स्पष्टम्। यत्तु षत्वग्रहणमपि ज्ञापकम्, अन्यथा 'कोऽसिचदित्यादौ पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गस्यैकादेशस्यासिद्धत्वेन षत्वाप्रवत्तौ कि तेनेति। तन्न, इणः पूर्वपदसम्बन्धित्वेन षत्वस्यापि पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन उभयोः समत्वात्। एकादेशस्य परादित्त्वेन 'ओसिचदि'त्यस्य पदत्वेन पदादित्वाभावान्न 'सात्पदाद्योरि'त्यनेन निषेधः। त्रैपादिकेऽन्तरङ्गे कार्यकालपक्षेऽपि बहिरङ्गपरिभाषाया अप्रवत्तेः पूर्वमुपपादितत्वाच्च। परिभाषार्थस्तु - अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्वप्रक्लृप्तिः। बहिष्पदेन बहिरङ्गम्, तस्य भावो बहिरङ्गत्वम्। तत्प्रयुक्तासिद्धत्वस्य न प्रक्लृप्तिः, न प्राप्तिरिति। 'असिद्धं बहिरङ्गम्' इत्युक्त्वा 'नाजानन्तर्य इति वक्ष्यामि' इति भाष्योक्त्या तत्रत्यस्य अन्तरङ्ग इत्यस्यानुवृत्तिसूचनात्। तेन 'पचावेदम्' इत्यादौ न दोषः। अन्तरङ्गस्याच्स्थानिक कार्यस्यैत्वस्य अन्यानन्तर्यनिमित्तकत्वाभावात्। जातस्य बहिरङ्गस्येत्युक्त्या 'अयजे इन्द्रं धियती'त्यादौ बहिरङ्गदीर्घगुणादेरसिद्धत्वं सिद्धम्। अत एव 'इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वाच्छचङन्तस्य अन्तरङ्गलक्षणत्वादि'त्यादि सङ्गच्छते। अत एव 'ओमाङोश्च' इत्याङ्ग्रहणं चरितार्थम्। तद्धि 'शिव आ इही' ति स्थिते परमपि सवर्णदीर्घं बाधित्वा धातूपसर्गकार्यत्वेनान्तरङ्गत्वाद् गुणे वृद्धिबाधनार्थम्। न च 'अक्षद्युरि'त्यत्र यणि कृते ऊठोऽसिद्धत्वाद्वलि लोपापत्तिरिति वाच्यम्, अचोऽन्यानन्तर्यनिमित्तकेऽन्तरङ्गे कर्तव्ये कृते च तस्मिन् यदन्तरङ्गं प्राप्नोति तत्र च कर्तव्ये नासिद्धत्वमिति तदर्थात्। असिद्धपरिभाषाया अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यम्, तेनैव सिद्धेः। अत एव 'नलोपः सुबि'ति सूत्रे कृति तुग्ग्रहणं चरितार्थम्। अन्यथा 'वृत्रहभ्यामि'त्यादौ बहिर्भूतभ्याम्निमित्तकपदत्वाश्रयत्वेन बहिरङ्गतया नलोपस्यासिद्धत्वेन सिद्धेस्तद्वयर्थ्यं स्पष्टमेव। मम तु तुक्यजानन्तर्य सत्त्वान्न दोषः। न चैवं सति 'ह्रस्वस्य पिती'ति सूत्रस्थभाष्यविरोधः। तत्र हि 'ग्रामणिपुत्र' इत्यत्र 'इको ह्रस्वोऽङ्य' इति ह्रस्वे कृते तुकमाशङ्कच ह्रस्वस्य बहिरङ्गासिद्धत्वेन समाहितम्।'नाजानन्तर्ये' इत्यस्य सत्त्वे तत्र तदप्राप्तेरसङ्गतिः स्पष्टवेति वाच्यम्। तेन भाष्येणास्या अनावश्यकत्वबोधनात्। एतज्ज्ञापकेनान्तरङ्गपरिभाषाया अनित्यत्वबोधनस्यैव न्याय्यत्वात्। अत एव 'अचः परिस्मिन्नि'ति सूत्रे भाष्ये 'पटु ई आ' इत्यत्र परयणादेशस्यानयासिद्धत्वात् पूर्वयणादेशः साधितः। अत एवैषा परिभाषा भाष्ये पुनः क्वापि नोल्लिखिता। अत एवान्तरङ्गपरिभाषामुपक्रम्य विप्रतिषेधसूत्रेऽस्या बहूनि प्रयोजनानि सन्ति तदर्थमेषा परिभाषा कर्तव्या प्रतिविधेयं च दोषेष्वित्युक्तं 'सम्प्रसारणाच्चे'ति सूत्रे भाष्ये। प्रतिविधानञ्च परिभाषाविषयेऽनित्यत्वाश्रयणमेवेति ध्वनितमित्यलम्॥५१॥
कामाख्या
उक्तपरिभाषाबाधिकामवतारयति नन्वेवमिति। एवं बहिरङ्गपरिभाषास्वीकारे।अक्षद्युः। अक्षशब्दे उपपदे दिवेः क्विपि, छ्वोरित्यूठि, यणादेशो न स्यात्। बहिरङ्गत्वेन जिघृक्षितोठ्शास्त्रीयाङ्गपदप्रयोज्यविषयताश्रयो दिविति तद्घटकः स्थानिद्वारा उकारस्तन्निष्ठविषयताप्रयोजकाच्पदघटितत्वेन यणोऽन्तरङ्गत्वात्। ज्ञापकत्वं विवृणोति अन्यथेति। संहिताया नित्यत्वादिति। संहितैकपदे नित्या नित्याधातूपसर्गयोरित्युक्तेः। अन्तरङ्गनिमित्तविनाशल्यपोऽभावेन अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब् बाधते इत्यस्याप्राप्त्या एकादेशे ल्यपीति भावः। प्रेद्धइति। अत्र पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन आद्गुण इत्यस्य बहिरङ्गत्वमुक्तम्। संयोगान्तस्येति। सुद्ध्युपास्य इत्यत्र संयोगान्तलोपे 'यणः प्रतिषेधो वाच्यो' न वा झलो लोपाद्बहिरङ्गलक्षणत्वान्नेत्युक्तम्। न च वृक्षे छत्रमित्यत्र पदान्ताद्विति तुकि कर्तव्ये एकादेशस्यासिद्धत्वार्थं तुकश्चारितार्थ्येन कथं ज्ञापकत्वम्। नात्र परिभाषया निर्वाहः एकादेशस्यैवान्तरङ्गत्वात्। न चात्रासिद्धत्वेऽपि 'छे चे'ति तुक्प्रवृत्त्या न विशेष इति वाच्यम्। वैकल्पिकासिद्ध्या विशेषस्य स्पष्टत्वादिति वाच्यम्। पदान्तपदाद्योरेवैकादेशेऽसिद्ध इति वार्तिकेन तदप्रवृत्तेः। न चैवमपि वृक्षस्य इः वृक्षेस्तस्य छत्रमित्यत्र एकादेशस्य तथात्वेन तत्रासिद्धत्वार्थं तुग्ग्रहणमिति वाच्यम्। न चैङः पदान्तात्परोरूरस्तीति भाष्यादुक्तपरिभाषाज्ञापकपरभाष्याच्च प्रकृतप्रयोगस्यानभिधानेनादोषात् ।
प्राचीनोक्तं खण्डयति यत्विति । कोऽसिचदित्यत्रैकादेशविशिष्टे को शब्दे पदत्वं सिचदित्यस्यैकदेशविकृतन्यायेन पदत्वमिति षत्वस्यापि पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वमिति भावः। ननु एकदेशविकृतन्यायेन सिचदित्यस्य पदत्वात् 'सात्पदाद्यो'रिति षत्वनिषेधे षत्वग्रहणं व्यर्थमेवेत्यत आह एकादेशस्येति। न च निषेधाप्रवृत्तेरशास्त्रीयत्वात् कथं परादिवद्भाव इति वाच्यम्। षत्वनिषेधाप्रवृत्तेःषत्वरूपत्वेन शास्त्रीयत्वात्। ननु षत्वदृष्ट्या एकादेशस्य बहिरङ्गत्वेनासिद्धत्वात् षत्वाप्राप्तौ षत्वग्रहणं ज्ञापकमेवेत्यत आह त्रैपादिकेइत्यादि। अन्तरङ्गे बहिरङ्गे वा अचोरानन्तर्यमिति हरदत्तादिस्वीकृतार्थं धर्मिग्राहकमानविरोधादयुक्तमित्याशयेन स्वमते परिभाषार्थमाह परिभाषार्थस्त्विति। अज्निष्ठान्यनिरूपितानन्तर्यनिमित्तक इत्यर्थः। ज्ञापकसाजात्यादाह। जातस्येति। न चैवम् अन्तरङ्गानपीति परिभाषया एकादेशात्पूर्वमेव ल्यपि, तत एकादेश तुकोः समकालप्राप्तिकत्वेन अस्या अप्राप्तौ तुग्ग्रहणस्य स्वांशे चारितार्थ्याभाव इति वाच्यम्। अन्तरङ्गनिमित्तविनाशकस्यैव लुकस्तया प्राबल्यबोधनेन प्रकृते तदभावेन तस्या अप्रवृत्तौ पूर्वमेवैकादेशप्रवृत्तेः। अत एव निपूर्वकात् ष्यन्तादिशेः क्त्वाप्रत्यये 'अन्तरङ्गानपी'ति न्यायेन गुणात्पूर्वं समासे ल्यपि च कृते पुनः प्रतिपदोक्तत्वेन गुणात्पूर्वं 'ल्यपि लघुपूर्वा'दिति णोरयादेशे, गुणे निरेषय्य इति न। किन्तु अनतरङ्गत्वाद्गुणे ल्यपि लघुपूर्वकत्वाभावेनायादेशाप्राप्तौ णिलोपे निरेष्य दुरेष्य इत्येव । न चैवं पराजग्ध्येत्यत्र अन्तरङ्गत्वात् सवर्णदीर्घे ततो जग्धिं बाधित्वा अनया ल्यपि पश्चाज्जग्ध्यादेशे पर्जग्ध्येति स्यादिति वाच्यम् । स्वेन स्वप्रकृतिद्वारा वा अन्तरङ्गनिमित्तविनाशकल्यपः प्राबल्य बोधनेन जग्ध्यादेशद्वारा दीर्घनिमित्तविनाशकत्वस्य सत्वेनादोषात्। परिभाषायां बहिष्ट्वपदं बहिरङ्गत्वप्रयोज्यासिद्धत्वे लाक्षणिकमित्याशयेनाह बहिःपदेनेति। ननु परिभाषार्थे अन्तरङ्गे इति पदं त्वया कुतो लब्धमित्यत आह असिद्धमिति। अनुवृत्तिसूचनादिति। अत्र केचित् असिद्धपरिभाषायाः वाह ऊठित्येतद्देशस्थत्वेन प्रथमपादस्थतुग्ग्रहणज्ञापितायामस्यामनुवृत्त्यसम्भवाच्चिन्त्यमिदमित्याहुः। वस्तुतस्तु प्रत्यासत्त्या अन्तरङ्गे इत्यस्य लाभ इति युक्तः पन्थाः। तेन। अज्निष्ठान्यानन्तर्यनिमित्तकत्वस्यान्तरङ्गविशेषणत्वेन। अतएवेति। जातस्यैवासिद्धत्त्वाभावबोधनादेव। परमपिसवर्णेति। समकालप्राप्तिस्थलेऽपि प्रवृत्तौ तु अनया अन्तरङ्गपरिभाषाया निषेधे परत्वाद्दीर्घे गुणे च शिवेहीति सिद्धौ तद्वैयर्थ्यं स्पष्टमेव। ऊठोऽसिद्धत्वादिति। वलिलोपापेक्षया बहिरङ्गत्वेनोठोऽसिद्धत्वम्। तेनैवेति। अन्तरङ्गपरिभाषाया अनित्यत्वेनैव। ननु अस्तु अस्या वैयर्थ्यमिष्टापत्तिरत आह अतएवेति। नाजानन्तर्य्यपरिभाषायाः सत्वादेव। अन्यथा। अनित्यासिद्धपरिभाषया निर्वाहे। मम तु। नाजानन्तर्यपरिभाषावादिनस्तु। न चैवं सतीत्यारभ्य आसमाप्तेन ग्रन्थेन अस्या अनावश्यकत्वं अन्तरङ्गपरिभाषाया अनित्यत्वं च विवृतमिति दिक्॥५१॥
परिभाषार्थमञ्जरी
बृहद्विवरणकारोक्तरीत्या आशङ्कते - न चैवं सति ह᳙स्वस्य पीतीति। अनावश्यकत्वबोधनादिति। इदं त्वसत् नाजानन्तर्य्यपरिभाषायाः [1]स्वीकर्तॄणां 'षत्वतुकोरसिद्ध' इति सूत्रस्थतुग्ग्रहणादसिद्धपरिभाषाया अनित्यत्वेन ह᳙स्वस्य पितीत्येतत्सूत्रविषयेऽप्रवृत्तिर्ब्बोधव्या। अत एव तुग्ग्रहणं चरितार्थम्। ततश्च ग्रामिणिपुत्रो ग्रामणिकुलमित्यादौ तुग्वारणं त्वसिद्धपरिभाषया कर्त्तुमशक्यमिति सन्निपातपरिभाषयैव तुग्वारणीयः। एवञ्च एतत्परिभाषासत्वेऽप्यन्यथैव तुग् वारयितुं शक्यमिति। त्वदुक्त परिभाषाभावसाधकहेत्वसिद्धिः। न च परिभाषया तुग्वारकभाष्यविरोधः। तस्यैकदेश्युक्तित्वस्याजन्तनपुंसकशेखरान्ते मूलेऽपि तदुपन्यासे एकदेशिन इति न तद्विरोध इत्यलमित्यनेन ग्रन्थेनबोधनात्। अत एव मूल[2]कृतापि असिद्धपरिभाषाज्ञापकोपपादनसमये गुणेऽजानन्तर्य्यसत्वेन निषेधमाशङ्क्य परिभाषाया अभावान्न दोष इत्यनुक्त्वा 'पुगन्ते'ति कर्मधारयाश्रयणेन भिनत्तीत्यादौ दोषवारणान्न निमित्तमिको विशेषणमित्युक्तम्। एतदसत्वे तथा समाधानपर्य्यन्तानुधावनमसङ्गतमेव स्यात्। किञ्च विवरणेऽपि तत्र तत्र नाजानन्तर्यपरिभाषामुक्त्वा अनित्यत्वात्तदसत्वाद्वेति समाधीयते। अत एव 'अचः परस्मिन्निति' इति।जातस्य बहिरङ्गस्येत्युक्त्येति। पूर्व्वेक्तमूलकारोक्तरीत्या जातस्य बहिरङ्गस्यासिद्धत्वप्रतिपादकांशस्यैव निषेधलाभात्। ज्ञापकस्य विशेषापेक्षणात्। असिद्धमिति वाचनिकपरिभाषामुक्त्वा नाजानन्तर्य्य इति वक्ष्यामीत्युक्तेर्वाचनिकांश निषेधालाभाच्च। प्रकृते अस्या अप्राप्तौ भाष्यविरोधाभावेन द्वितीयहेतोरप्यसिद्धिः। भाष्ये पुनः क्वापि नोल्लिखितेति। विप्रतिषेधसूत्रे कण्ठत उक्तायाः परिभाषाया अपलापं कुर्व्वतस्तव भाष्यास्पृष्टानेकेषां सूत्राणां विलयप्राप्त्या तृतीयहेतोरप्यसिद्धि:। अत एव कैयटेन तत्र तत्र नाजानन्तर्यनिषेधमाशङ्क्य भाष्ये इति अनित्यत्वात्समाधीयते। किञ्च भाष्ये पूर्वमसिद्धपरिभाषामङ्गीकृत्य तस्याः अक्षद्युरित्यत्र दोषमुद्भाव्यास्याः पूर्व्वज्ञापकमुक्त्वा पश्चादसिद्धपरिभाषाया ज्ञापकोक्त्याऽस्यावश्यकत्वमुचितम्। दृष्टश्चायं प्रकारो लौकिकानां वैदिकानाञ्चेति पस्पशास्थभाष्यव्याख्यापकवैदिकानां प्राधान्येऽपि परनिपातो लौकिकानामपि आदरसूचनायेति विवरणे। न च तदनित्यत्वेनैव निर्व्वाहे अस्या: स्वीकारो गुरुभूत इति वाच्यम्। 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते', ल्यप् बाधते। 'वार्णादाङ्गं बलीय' इत्यादेरप्यसत्वात्। किञ्च विप्रतिषेधसूत्रोक्तपूर्व्वोत्तरपदनिमित्तकार्य्यात्पूर्वमन्तरङ्गोप्ये कादेशो नेत्यस्य त्वङ्गीकारोऽस्यास्तु नेत्यत्र बीजाभावाच्च।तस्मादाग्रहमूलकमिदमिति दिक्। प्रतिविधेयं च दोषेष्विति। आद्ययोगे बहूनि प्रयोजनानि सन्ति यदर्थमेषा कर्त्तव्येति। अन्तरङ्गपरिभाषामुपक्रम्य संप्रसारणाच्चेत्यत्र भाष्ये उक्तम्। तत्राद्ययोग इत्यस्य विप्रतिषेधसूत्र इत्यर्थः। ततः प्रतिविधेयं दोषेष्वित्युक्तं तस्याः पूर्व्वमनित्यत्वेन समाधेयमिति नार्थः। किन्तु प्रतिविधेयमित्यस्याग्रे उक्तमिति शेषः। एवञ्च दोषेषु प्रतिविधेयं यत्तदुक्तमित्यर्थः। एवमेकवाक्यतायां सत्यां परस्परभाष्ययोर्व्विरोधो न न्याय्यः। पूर्व्वोक्तसमाधेरेवानुवादो भाष्ये न त्वपूर्वसमाधानमिति बोध्यम्। किञ्च भाष्यानुक्ताया अनित्यतायाः स्वीकारे प्रत्युत विपरीतदोष एव। अपि च भाष्ये यद्यपूर्व्वसमाधिरभिप्रेतः स्यात्तदा पूर्व्वोक्तसमाधिदूरीकरणाय कण्ठतस्तं वदेत्। न च गौरवम्। दत्तोत्तरत्वात्। विप्रतिषेधसूत्रस्थविवरणन्तु बृहद्विवरणानुरोधादिति बोध्यम्। एवञ्च चतुर्थहेतोरप्यसिद्धिर्बोध्या। एतदनुवादस्तु स्वरूपव्याक्रियेति न्यायेनात्रेति दिक्॥५१॥
[1]अङ्गीकर्तॄणामिति के,खे
[2]सूत्र इति छपुस्तके पाठः।