उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्
ननु 'ङमो ह्रस्वात्' इत्यादौ ङमः परस्याचोऽचि परतो ङम इति वेति सन्देहः स्यादत आह -
उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्।७१।
अचीति सप्तमीनिर्देशस्य 'मय उञः' इत्युत्तरत्र चारितार्थ्यात् पञ्चमीनिर्देशोऽनवकाश इति 'तस्मादित्युत्तरस्य' इत्यस्यैव प्रवृत्तिः। यत्र तु 'डः सि धुट्' इत्यादावुभयोरप्यचारितार्थ्यंतत्र 'तस्मिन्निति'सूत्रापेक्षया 'तस्मादित्युत्तरस्य' इत्यस्य परत्वात्तेनैव व्यवस्था। एवमुभयोश्चारितार्थ्येऽपि। यथा 'आमि सर्वनाम्नः' इत्यादौ। तत्रामीति सप्तमी 'त्रेस्त्रयः' इत्यत्र चरितार्था। आदिति पञ्चमी 'आज्जसेरसुक्' इत्यत्र चरितार्थेति स्पष्टं तस्मिन्' इति सूत्रे भाष्ये कैयटे च॥ ७१॥
॥ इति बाधबीजनामकं द्वितीयं प्रकरणम् ॥
कामाख्या
अपवादस्य बलवत्वेन तत्प्रसंगादन्यस्यापि बलवत्वनिरूपणार्थमाक्षिपति नन्विति।सन्देहःस्यादिति। न च 'ङमो ह्रस्वादि'त्यादौ पञ्चमीसप्तमीश्रुत्या 'तस्मिन्निति' परिभाषाद्वयोपस्थितावपि अजव्यवहितपूर्वत्वविशिष्टो ह्रस्वाव्यवहितोत्तरत्वविशिष्टो यो ङम् तदन्तं यत्पदं तदव्यवहितोत्तरत्वविशिष्टो यः कश्चनोदासीनस्तस्य ङमुडिति सूत्रार्थः संपत्स्यत इति कथं सन्देह इति वाच्यम्। परिभाषाद्वयेऽपि अव्यवहितत्वं पूर्वत्वं षष्ठ्यंशः अव्यवहितत्वमुत्तरत्वं षष्ठ्यांशश्चेति । अंशत्रयस्य सत्वेन तेषु यः अंशो यत्रसिद्धो बाधितो वा तत्र तदंशविकलाया एवानयोरुपस्थितिः। एवं च यदि 'तस्मिन्निति' परिभाषा अंशत्रयवती पूर्वमुपतिष्ठेत् तदा षष्ठ्यंशविकला 'तस्मादि'ति उपतिष्ठते। ततश्च ङमव्यवहितोत्तरत्वविशिष्टो योऽच् तदव्यवहितपूर्वत्वविशिष्टस्य ङमुडित्यर्थे ङमो ङमुट् प्राप्तः।अथ च पूर्वमेव 'तस्मादिति' परिभाषा अंशत्रयवती उपस्थिता तदा षष्ठ्यंशविकला 'तस्मिन्निति' परिभाषोपतिष्ठेत। ततश्चाजव्यवहितपूर्वो यो ङम् तदव्यवहितोत्तरस्य ङमुडित्यर्थेऽचो ङमुट् प्राप्त इति सन्देहस्य दुर्वारत्वात्। बलीयानिति। यत्रोभयनिर्देशस्य सावकाशत्वं निरवकाशत्वं वा तत्र 'तस्मादिति' परिभाषा परत्वादंशत्रयवत्युपतिष्ठते। यत्र च पञ्चमीनिर्देशः सावकाशः सप्तमीनिर्देशश्च निरवकाशस्तत्र 'तस्मिन्निति' परिभाषांशत्रयविशिष्टा तस्मादिति च षष्ठ्यंशविकलोपतिष्ठते। तत्फलितेयमिति भावः। 'डः सि धुडि'त्याद्युदाहरणानीति मूलातोऽवसेयः॥७१॥
॥इति बाधबीजनामकं द्वितीयं प्रकरणम्॥
नास्ति।