Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

एकान्ताः

वस्तुतस्तु

एकान्ताः॥५॥

इत्येव न्याय्यम्।शास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच्च। अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते, नैवमयम्। एवं हि बहुव्रीहिरपि न्यायत एवोपपन्नः। अन्त्यादिशब्दे लक्षणा च न। किञ्चानवयवत्वे ण-श-क-प्रत्ययादौ णादेरित्त्वानापत्तिः, प्रत्ययादित्वाभावात्। दघ्नचश्चकारस्य वैयर्थ्यापत्तिश्च। इदं च 'तस्य लोपः' इत्यत्र भाष्ये स्पष्टम्। तत्र ह्युक्तम्, 'एकान्ता अनुबन्धाः' इत्येव न्याय्यमिति दिक्॥५॥

 

कामाख्या

अनेकान्तपक्षे नानुबन्धकृतमित्यादिपरिभाषात्रयाकरणरूपलाघवेऽपि शित्किदादावारोपकरणम् () अनुबन्धसहितात्‌ सौत्रविभक्तिकल्पनम् (२) आनङो नकारे हेतुसत्वेन साध्याभावाद्व्यभिचारः (३)। विधेयेऽदर्शनस्य 'तस्य लोप' इति वाक्यार्थबोधाधीनत्वम् तद्बोधश्च 'हलन्त्यमि'ति वाक्यार्थबोधाधीनः, तद्बोधश्च लक्षणाग्रहाधीनः तद्ग्रहश्चानवयवत्वग्रहपूर्वकशक्यार्थबाधग्रहपूर्वकः अनवयवत्वग्रहश्च प्रकृतहेतुज्ञानपूर्वक इति चक्रकापत्तिरतः सिद्धान्त‌माह - वस्तुत इति। तथा चानुबन्धाः बोधकावयवाः बोधकायुतसिद्धत्वात् यो यस्यायुतसिद्धः स तदवयवः यथा शाखादिः। नकाराद्यनुबन्धस्य सनाद्ययुतसिद्धत्वेन तदवयवत्वम्। ययोर्द्वयोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठते तौ द्वौ परस्परायुतसिद्धौ। न चबोधकानामपि स्वावयवायुतसिद्धत्वेन अवयवावयवत्वापत्तिरिति वाच्यम् , व्यापकत्वविशिष्टायुतसिद्धत्वस्य हेतुघटकत्वेन विवक्षिततया समुदायरूपस्य बोधकस्य स्वावयवाव्यापकत्वेनादोषात्‌। अत्र पक्षे 'गुप्तिजि'त्यादिसूत्रे विधेयताप्रयोजकसनादिपदस्य नकारेत्संज्ञकः सो भवतीत्यर्थः। इत्संज्ञालोपौ हि पक्षद्वयेऽपि सूत्र एव अनुबन्धविनिर्मुक्तपदार्थस्यैवोपस्थितिरिति सिद्धान्तात्। एवमनुवादे, सन्यत इत्यादौ, नकारेत्संज्ञके सशब्दे परे इत्यादिरर्थः। अत एव आटश्चेत्यादेर्नासंगतिः। केचित्तु - अनुबन्धाः बोध्यावयवाः बोधके एवोपलभ्यमानत्वात् सनादि‌घटकसकारादिवत्। स्वं रूपशास्त्रेण बोध्यबोधकयोर्भेदबोधनरूपानुकूलतर्कस्यात्र सत्वेनाप्रयोजकत्वशङ्का न। एवं चानुबन्धसहितस्य बोध्यत्वेन तस्मिन्नेवेत्संज्ञालोपौ न सूत्रेषु। एवं च गुप्तिजादिषु लक्षणया नकारेत्संज्ञक इत्यादिरर्थ इति शेखरोक्तक्लेशोऽपि नाश्रयणीय इत्याद्याहुः। श्रीमद्गुरुचरणास्तु शास्त्रे तत्रोपलम्भादित्यादिना अनुबन्धाः बोधकावयवाः पदत्वप्रयोजकप्रत्ययप्रकृतिघटकत्वप्रकारकोपलब्धिविषयतावत्वे सति तादृशप्रकृतिभिन्नघटकत्व-प्रकारकोपलब्धिविषयताशून्यत्वादित्यनुमानेन न दोष इत्याहुरिति दिक्॥५॥

परिभाषार्थमञ्जरी

नैवमयमिति[1] सूत्रे स्वघटित समुदायान्त्यादिवृत्तित्वसम्बन्धेन। लक्ष्ये तु स्वघटित समुदायोपस्थाप्यत्वसम्बन्धेन। स्वप्रतियोगिकाभाववत्वसम्बन्धत्वेन[2] वेति भावः। यथा भूतलं घटाभाववदित्यत्र भूतलवृत्यभावे प्रकारतया भासमानस्य घटस्यालौकिकसन्निकर्षजन्यज्ञानविषयत्वं तथेहापीति ध्येयम्। न साक्षादेव तत्र प्रतीतिरित्याग्रहः। णशकप्रत्ययादाविति। कशणेति पाठः। अत एवाग्रे कादेरिति सङ्गच्छते। यद्वा। ननु णशप्रत्ययादौ इत्वेऽसति पाक्षिक'[3]श्याद्व्यधे'ति णप्रत्ययप्रापक 'ददातिदधात्योर्विभाषे'ति विभाषाग्रहणं व्यर्थं स्यात्। असरूपप्रत्ययत्वेनैव पक्षे णप्रत्ययसिद्धेरेवञ्चेत्संज्ञा तेन विभाषा ग्रहणेन ज्ञाप्यते। तत्फलन्तु 'छत्रादिभ्योऽण्' इत्यादौ बोध्यमिति चेत्तत्राह – कप्रत्ययादाविति।तद्गुणसंविज्ञानो बहुव्रीहिः। तेन कप्रत्यय'नन्दिग्रही'ति ल्युर्ल्युट्चेत्यादीनां संग्रहो बोध्यः। तदेव विवृणोति कादिरित्यादिना। व्यर्थतापत्तिश्चेति। ननु चकारेण स्वपूर्ववर्तिन्येव कार्यं ज्ञाप्यते, नोत्तरत्रेति 'वुञ्छण्के न दोष इति चेत् सत्यम्। गौरवं भाष्यविरोधश्च मुख्यं दूषणं तन्मते बोध्यम्। तत्र गौरवं प्रदर्शितमेव। भाष्यविरोधं दर्शयति – इदञ्चेति॥५॥

[1]'डः सि धुडि'त्यादौ उभयोरनवकाशत्वेनैतत् भाष्यात् परत्वेन बाधेऽपि सामान्यतः ङम इत्युक्ते इष्टत्वादित्यर्थः । इदं सप्तम्यन्तपदं बोध्यम्। तृतीमिति। इति चे घे पुस्तके अधिकः पाठः।

[2]सम्बन्धेन इति के खे गे घे

[3] 'पाघ्राध्मे'ति चे घे पुस्तके पाठः।