Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

आतिदेशिकमनित्यम्


एवमेव – 

आतिदेशिकमनित्यम्।९९।

 


कामाख्या

आतिदेशिकमिति। अत्र 'लोटो लङ्वदि'त्यतिदेशो ज्ञापकः। अन्यथा ङ्लोडित्युक्तेऽपि ङित्कार्यनिर्वाहे तद्वैयर्थ्यापत्तिः। तेन जुह्वत्वित्यत्र 'सिजभ्यस्ते'ति जुस् नेति प्राञ्चः। सिच्साहचर्यादभ्यस्तादप्यनतिदिष्टङित्ववतो लकारस्य स्थाने जायमानस्य 'झेर्जुसि'त्यर्थस्वीकारेण दोषाभावे नैतस्याः फलमिति तत्त्वम्॥९९॥

नास्ति।