विकरणेभ्यो नियमो बलीयान्
नन्वेवम् 'एधते' इत्यादौ परत्वाद्विकरणे 'अनुदात्तङितः' इत्यादिनियमानुपपत्तिस्तेन व्यवधानादत आह -
विकरणेभ्यो नियमो बलीयान्।४१।
अत्र 'वृद्भ्यः स्यसनो'रिति सूत्रेण स्ये विभाषाऽतङ्विधानं ज्ञापकम्। अन्यथा स्यव्यवधाने नियमाप्रवृत्तौ सामान्यशास्त्रेणोभयसिद्धौ विकल्पविधानं व्यर्थं स्यात्। अत्रार्थे ज्ञापिते तु 'स्य' इति विषयसप्तमी बोध्येति 'अनुदात्तङितः' इत्यत्र भाष्यकैयटयोः स्पष्टम्। विकरणव्यवधानेऽपि नियमप्रवृत्तेरिदं ज्ञापकमिति 'शदेः शितः' इत्यत्र भाष्ये ध्वनितम्। वस्तुतः अस्माज्ज्ञापकात् 'अनुदात्तङित' इत्यादिप्रकरणं तिबादिविध्येकवाक्यतया विधायकम्। तत्र 'धातो'रितिविहितपञ्चमी, तत्समानाधिकरणम् 'अनुदात्तडित' इत्यादिविहिविशेषणमेव। एवं च लावस्थायां स्येऽपि तद्व्यवधाने तङ्सिद्धिः। शबादिभ्यस्तु पूर्वमेव नियमः। यद्वा लमात्रापेक्षत्वादन्तरङ्गा आदेशा लकारविशेषापेक्षत्वात् स्यादयो बहिरङ्गा इति दिग्योगलक्षणपञ्चम्यामपि न दोषः। अत्र पक्षे 'वृद्भ्यः स्ये'ति सूत्रं स्यविषय इति व्याख्येयम्। आत्मनेपदशब्दादौ भाविसंज्ञाश्रयणीयेति तत्त्वम्। भिन्नवाक्यतया सामान्यशास्त्रविहितानां नियमे तु लुगादिनेव नियमेन जातनिवृत्तिरङ्गीकार्या। 'भुक्तवन्तं प्रति मा भुङ्क्था इति ब्रूयात्; किं तेन कृतं स्यादि'ति न्यायस्तु नात्र शास्त्र आश्रयितुं युक्तो नियमादिशास्त्राणां वैयर्थ्यापत्तेः। ध्वनितं चेदं 'स्थानेऽन्तरतमः' इति सूत्रे भाष्ये। शास्त्रानर्थक्यं तु वृद्धिसंज्ञा सूत्रे भाष्ये तिरस्कृतम्। सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्थकैयटरीत्या प्रधानानुरोधेन गुणभेदकल्पना तावत्प्रकृतिकल्पनया कार्या। प्रत्ययनिवृत्तौ च तत्कल्रितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमित्यन्यत्र विस्तरः॥४१॥
कामाख्या
परं बलवदित्यस्यापवादभूतां परिभाषामवतारयति। नन्वेवमिति। न चात्र पूर्वविप्रतिषेधेन निर्वाह इति वाच्यम्। तस्य भाष्योक्तफलातिरिक्तेऽप्रवृत्तिकल्पनात्। परत्वादिति। खश् चानशादौ च विकरणस्य लिडादावात्मनेपदस्य च चारितार्थ्यम्। प्रकृते उभयोः प्राप्तौ परत्वाद्विकरणमिति भावः। इदमत्रतत्त्वम् - तिप्तस्झीत्यनेन विहितानां तिबादीनां अनुदात्त ङित इत्यादिभिर्न्नियमः। तत्र तिबादिषु सन्सु नियमविकरणयोः प्राप्तौ परत्वाद्विकरणे विकरणेन व्यवधानान्नियमाप्राप्त्या परिभाषावश्यकता। न च विकरणस्य कृताकृतप्रसंगित्वेन नित्यत्वान्न तुल्यबलत्वमिति वाच्यम्। परत्वादित्यस्य नित्यत्वादित्युपलक्षणत्वात्। परान्नित्यमित्यस्यानन्तरमनुल्लेखस्तु वैचित्र्यार्थः। न च नियमस्याप्राप्तियोग्ये विकरणस्य चारितार्थ्याभावेन नियमबाध इति वाच्यम्। कृते नियमे चारितार्थ्यात्। न चैवं तक्रन्यायेन बाध इति वाच्यम्। भविष्यति गम्यादय इति निर्देशेन तक्रन्यायानित्यत्वेनात्राप्रवृत्तेः। अत्र पक्षे विषयसप्तम्याश्रयणे विप्रतिषेषशास्त्रबाधे च गौरवमतः पक्षान्तरमाहविकरणव्यवधानेऽपिति। अत्र पक्षे स्य इति परसप्तम्येव विप्रतिषेधशास्त्राबाधश्चेति लाघवम्।सिद्धान्तभूतं तृतीयपक्षमाह वस्तुतइति। शबादिभ्यस्तु पूर्वमेव नियम इति। तिबादिसूत्रस्य परत्वेन तदेकवाक्यतया नियमस्यापि परत्वात्। तम्विना सार्वधातुकपरत्वाभावाच्चेति भावः। विहितपञ्चम्यां गौरवादाह यद्वेति। यद्यपि विशेषापेक्षत्वेन बहिरङ्गत्वमित्यस्य अग्रे खण्डनीयतया नेदं युक्तं तथापि अस्य ग्रन्थस्य कैयटमताभिप्रायकत्वेनादोषः। स्वमते तु अपरनिमित्तकत्वेन लादेशानामन्तरङ्गत्वमिति बोध्यम्। गौरवमिति। नियमस्वीकारे प्राप्तबाधः अप्राप्तकल्पनं जातनिवृत्तिरिति गौरवमिति दिक्॥४१॥
परिभाषार्थमञ्जरी
इत्यादीति। आदिना 'स्वरितञित इत्यादिसंग्रह:। अत एव पचते इत्युक्तं संगच्छते। नन्वत्र पक्षे [1]पूर्व्वलस्थानिकत्वाभावेनात्मनेपदपरस्मैपदसंज्ञयोरभावेन तेषां संज्ञाया विधाने इतरेतराश्रय। भिन्नवाक्यतया विधाने तु पूर्व्वमष्टादाशानां लस्थाने जातत्वेन तयोस्तत्संज्ञायां नेतरेतराश्रयः। अत आह आत्मनेपदे इति। ननु संज्ञया हि विधिविहितानां च संज्ञेत्याकारान्योन्याश्रयस्य तत्र [2]संज्ञाविधानेऽपि संज्ञाविधायके लस्थानिकस्योद्देश्यत्वाभावेन[3] कथमितरेतराश्रय इति चेन्न। चानशस्तत्संज्ञाया[4] वारणायात्मनेपदसंज्ञाविधायके लकारानुवृत्तेः सिद्धान्तिसम्मतत्वात्॥४१॥
[1]पूर्वमिति खे
[2]संज्ञया विधाने इति के
[3]स्थानिकस्य निर्दिश्यत्वाभावेन इति के
[4]संज्ञावारणाय इति के