पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः
ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशेऽल्विधौ, स्थानिवत्वाभावाददादेशो न स्यादिति तद्वैयर्थ्यापत्तिः, अत आह –
पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः।६३।
लक्षणैकचक्षुष्को ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभावनिश्चय उत्सर्गेण तत्तल्लक्ष्यं संस्करोति। अन्यथा विकल्पापत्तिरित्यर्थः। अभिनिविशन्त इत्यस्य बुद्ध्यारूढा भवन्तीत्यर्थः। 'अपवादो यद्यन्यत्र चरितार्थः' इति न्यायस्य तु नात्र प्राप्तिः, अन्तादेशप्राप्तिविषये चारितार्थ्याभावात्॥६३॥
कामाख्या
अपवादप्रसङ्गादाह ननु दधतीत्यादाविति। द्विर्वचनानपेक्षान्तादेशस्य शीघ्रोपस्थितिकत्वेनान्तरङ्गत्वम्। द्वित्वसापेक्षाभ्यस्तसंज्ञापेक्षादादेशस्य विलम्बोपस्थितिकत्वेन बहिरङ्गत्वमिति। न च जक्षतीत्यादावनैमित्तिकत्वेन सर्वापेक्षया पूर्वमेव 'जक्षित्यादय' इति अभ्यस्तत्वे समकालमेव अन्तादेशादादेशयोः प्राप्तौ निरवकाशत्वेनान्तादेशं बाधित्वाऽदेशस्य चारितार्थ्येन कथं वैयर्थ्यमिति वाच्यम्। आयन्नादिषूपदेशिवद्वचनमिति वार्तिकबलेनात्रापि पूर्वमेवान्तादेशप्रवृत्तेः। न च अदादेशेऽपि उपदेशिवद्वचनसत्वान्नोक्तदोष इति वाच्यम्। आयन्नादिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वार्तिके स्वरसिद्धिप्रयोजनोपन्यासेन अभ्यस्तविषये अभ्यस्तानामादिरित्याद्युदात्तप्रवृत्त्या प्रयोजनाभावेन वार्तिकाप्रवृत्तेः। अन्यथाविकल्पापत्तिरिति।
अयं भावः असति बाधके उद्देश्यतावच्छेदकावछेदेन विधेयान्वय इति सिद्धान्तात्। अपवादशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्नातिरिक्तत्वेन उत्सर्गशास्त्रीयोद्देश्यतावच्छेदकावच्छिन्ने संकोचाभावे अपवादोत्सर्गयोरुभयत्रापि उद्देश्यतावच्छेदकत्वस्य विधेये नियमतो भानेन विकल्पापत्तिरिति॥६३॥
नास्ति।