उभयगतिरिह भवति
ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधाननियामकत्वसिद्धात् 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायात्। अस्ति च प्रकृते बह्वादीनां संख्यासंज्ञा कृतेति ज्ञानरूपं प्रकरणम्, न तु लोकप्रसिद्धैकद्व्यादीनामित्यत आह -
उभयगतिरिह भवति॥९॥
इह = शास्त्रे। 'संख्याया अतिशदन्तायाः' इति निषेधोऽस्या ज्ञापकः। न हि कृत्रिमा संख्या त्यन्ता शदन्ता वास्ति। तेन 'कर्तरि कर्मव्यतिहारे', 'कण्वमेघेभ्यः करणे', 'विप्रतिषिद्धं चानधिकरणे'त्यादौ लौकिकक्रियाद्रव्याद्यवगतिः। तत्र क्वोभयगतिः, क्वाकृत्रिमस्यैव, क्व कृत्रिमस्यैवेत्यत्र लक्ष्यानुसारि व्याख्यानमेव शरणम्। अत एवाम्रेडितशब्देन कृत्रिमस्यैव ग्रहणम्, न तु द्विस्त्रिर्घुष्टमात्रस्य। स्पष्टं चेदं संख्यासंज्ञासूत्रे भाष्ये। यत्तु संज्ञाशास्त्राणां मच्छास्त्रेऽनेन शब्देनैत एवेति नियमार्थत्वं 'कृत्रिमाकृत्रिम'न्यायबीजमिति तन्न, तेषामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति नियमत्वायोगात्। 'सर्वे सर्वार्थवाचका' इत्यभ्युपगमोऽपि योगिदृष्ट्या, न त्वमस्मदादिदृष्ट्या, विशिष्य सर्वशब्दार्थज्ञानस्याशक्यत्वात्। सामान्यज्ञानं तु न बोधोपयोगीत्यन्यत्र निरूपितम्॥९॥
कामाख्या
अभिधानियामकत्वेति। अत्राभिधापदेन तात्पर्यन्तेन अर्थविशेषे तात्पर्यग्राहकमित्यर्थः। एवं च संख्यादिपदे एकत्वादिनिरूपितालौकिकी बहुगणादिनिरूपिता शास्त्रीया च शक्तिरस्तीति कीदृशार्थबोधनेच्छया पाणिनिनोच्चारितमिति जिज्ञासायां शास्त्रकारेण बह्वादिनिरूपितशक्तिं बोधयित्वा कथमन्यार्थबोधनेच्छया उच्चारितं स्यादिति ज्ञानरूपप्रकरणेन बहुगणादावेव तात्पर्यनिर्णयेन तद्विषयकबोधस्यैव शास्त्रे संभवेन लौकिकार्थबोधाप्रसक्तिरित्येतत्फलितमेव। कृत्रिमेति। उभयगतिरिति। शास्त्रत्वावच्छेदेन लौकिकालौकिकोभयार्थतात्पर्यमस्तीति परिभाषया बोध्यते। त्यन्तेति। अर्थवत्त्यन्तेत्यर्थः। तेन कतीत्यत्र तत्संभवेऽपि अर्थवत्वाभावान्न दोषः। यत्त्विति।
अयं भावः – सिद्धे शब्दार्थसम्बन्धे इति भाष्येण शब्दार्थयोर्वच्यवाचकभावरूपशक्तिसम्बन्धस्यापि सिद्धत्वबोधनेन वृद्धिरादैजित्यादिसंज्ञाशास्त्राणां वैयर्थ्यापत्त्या शास्त्रे वृद्ध्यादिशब्दैरादैजादय एव बोधव्या इति नियममूलकोऽयं कृत्रिमेति न्याय इति। अगृहीतशक्तीति। शक्तेः सिद्धत्वेऽपि तद्ग्रहणस्यासिद्धत्वेन तदर्थं सूत्रस्यावश्यकतया नियामकत्वासंभवादिति भावः। ननु सर्वे सर्वार्थवाचका इत्यस्य का गतिरित्यत आह - सर्वे इति। विशे विशिष्येति। वृद्ध्यादिपदानामर्थवत्त्वेन तत्तदर्थवाचकत्वस्य ज्ञानेऽपि आदैच्त्वादिना तद्वाचकत्वज्ञानाय संज्ञासूत्राणामावश्यकत्वमिति भावः। ननु घटपदमर्थवाचकं पदत्वादित्यनुमानेन सामान्यलक्षणासहकृतेनार्थत्वावच्छिन्नसकलार्थनिरूपितशक्तिज्ञानमस्मदादीनामपि सुलभमित्यत आह - सामान्यज्ञानमिति। आत्वादिविशेषरुपेण बोधोपयोगी नेति भावः। अन्यत्रेति। मञ्जूषायामिति दिक्॥९॥
परिभाषार्थमञ्जरी
त्यन्ता शदन्ता चेति। ननु कतीति कृत्रिमा संख्याऽस्तीति त्यन्तप्रतिषेधोऽज्ञापक इति चेन्न। अर्थवतस्तिशब्दस्यग्रहणेन[1] तस्यैव व्यावर्त्यत्वात्। अत एव भाष्ये त्वदुक्तमाशङ्क्य 'अर्थवद्ग्रहणे नानर्थकस्ये'त्यर्थवतस्तिशब्द[2]ग्रहणमित्युक्तम्[3]। नन्वेतद्भाष्यमयुक्तम्। तथाहि - ज्ञापकात्पूर्वं सूत्रे संख्यापदेन कृत्रिमसंङ्ख्याग्रहणात् कृत्रिमत्यन्तस्यैव ग्रहणं प्रशक्तं नाकृत्रिमत्स्येत्युभयोरनुपस्थित्या कथमर्थवत्परिभाषोपस्थितिरिति चेन्न। अतिशदन्ताया इत्यस्य सङ्ख्याविशेषणत्वेन विशिष्टबुद्धौ विशेष्यज्ञानासंबलितविशेषणज्ञानस्य कारणतया तज्ज्ञानस्य पूर्वं सम्पाद्यत्वेन तदवस्थायां त्यन्तांशे उभयोरूपस्थित्या परिभाषाप्रवृत्तावर्थवति शब्दस्यैव ग्रहणे पश्चाद्विशिष्टज्ञानेनानुपपत्तिप्रतिसंधानेऽपि ज्ञापकत्वस्य साम्राज्यपदारूढत्वादिति धेयम्। स्पष्टश्चायमर्थः कैयटविवरणयोः। ननु अतिशदन्तग्रहणेन शास्त्रे अकृत्रिमस्यैव ग्रहणमिति विपरीतमेव कुतो न ज्ञाप्यत इति चेन्न। 'बहुगण' इति सूत्रबाधापेक्षया उक्तार्थस्यैवोचितत्वादिति ध्येयम्[4]। न बोधोपयोगीति।द्रव्यत्वप्रकारकद्रव्यविशेष्यकं सामान्यज्ञानम्, घटत्वप्रकारकघटविशेष्यकं विशेषज्ञानं प्रति न कारणमित्यर्थः। सामान्यज्ञानन्तु सामान्यबोधोपयोगि भवत्येव। एतेन सामान्यज्ञानस्य बोधानुपयोगित्वे जगत्सकलकृत्स्नादिभ्योऽपि बोधो न स्यादिति दूषणं दत्ततिलाञ्जलि[5]त्वमापादितम्॥९॥
[1]ग्रहणेन च इति के
[2]शब्दस्य ग्रहणम् इति खे गे
[3]'तस्यैव व्यावर्त्यत्वात्। अत एव भाष्ये त्वदुक्तमाशङ्क्य 'अर्थवद्ग्रहणे नानर्थकस्ये'त्यर्थवतस्तिशब्दग्रहणमित्युक्तम्' इति पाठः मिथिलापुस्तके नास्ति।
[4]'स्पष्टश्चायमर्थः कैयटविवरणयोः। ननु अतिशदन्तग्रहणेन शास्त्रे अकृत्रिमस्यैव ग्रहणमिति विपरीतमेव कुतो न ज्ञाप्यत इति चेन्न। 'बहुगण' इति सूत्रबाधापेक्षया उक्तार्थस्यैवोचितत्वादिति ध्येयम्।' इति पाठः मिथिलापुस्तके नास्ति।
[5]'जलाञ्जलि' इति के,खे,घे च पुस्तकेषु पाठः।