भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति।
नन्वेवम् 'अदसोऽसेरि'त्यादिना 'अमू' इत्यादौ दीर्घविधानं न स्यादत आह -
भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति।२०।
'दिव उत्', 'ऋत उत्' इति तपरकरणमस्या ज्ञपकम्। 'तित्स्वरितम्' इति सूत्रे भाष्ये स्पष्टैषा॥२०॥
कामाख्या
'अदसोऽसेर्दादुदोम' इत्यादौ ह्रस्वदीर्घयोः समाहारेऽपरनिमित्तकत्वेनान्तरङ्गत्वात्पूर्वं नपुंसकह्रस्वे ततो दीर्घे सूत्रे ह्रस्वश्रवणानापत्तिः। एवं च अमू इत्यादौ कथं दीर्घोकारविधानं भाव्यमानत्वादित्याशयेनशङ्कते नन्वेवमिति। ज्ञापकमिति। न च 'दिव उदि'त्यत्र दीर्घग्रहणेऽपि अर्धमात्रिकव्यंजनस्य मात्राद्वयन्यूनकालिकत्वरूपसादृश्यादेकमात्रिक एवादेशो भविष्यतीति स्वांशे चारितार्थ्याभावेन कथं ज्ञपकत्वमिति वाच्यम्। 'घ्वो'रिति सूत्रे किङ्तीत्यननुवर्तमानेन द्युभ्यामित्यत्र पूर्वमूठि ततो ह्रस्वोकारविधानार्थम्। दिवशब्दादिच्छाक्यजन्तात् कर्त्तरि क्विपि, अल्लोपयलोपे, 'क्वौ विधिं प्रति न स्थानिवदि'ति निषेधादल्लोपादेः स्थानिवत्वाप्राप्तौ तत्रोठि द्युभ्यामित्यत्र ह्रस्वोकारविधानार्थञ्च तपरकरणस्य स्वांशे चारितार्थ्यात्। ऋत उदिति। न चात्र तपरकरणं यलोप इति दीर्घबाधनार्थमिति वाच्यम्। दीर्घस्य बहिरङ्गत्वेनासिद्धतया बाधायोगात्। अत एव 'पितूराज्यं'ऊरपर इति भाष्यप्रयोगौ 'सवितूरश्मयो यथे'ति रामायणप्रयोगश्च संगच्छते । केचित्तु 'ऊदुपधाया गोह' इत्यत्र ह्रस्वोकारविधानेऽपि आन्तरतम्यादीकारस्य स्थाने दीर्घ एव भविष्यतीति दीर्घविधातृसूत्रकारविरुद्धा उऊ इति प्रश्लिष्य गोह इति विकृतनिर्देशप्रत्याख्यातृभाष्यविरुद्धाच्च। न च ह्रस्वोकारमात्रविधाने तस्य तक्रन्यायेन गुणबाधकत्वापत्तिः। दीर्घविधाने तु तत्सामर्थ्यात्पूर्वं गुणे ततो दीर्घोकारादेशे गूहत इत्यादिसिद्धिस्तत्फलमिति वाच्यम्। ह्रस्वोकारविधानस्य गुणमात्रबाधकत्वे 'नाभ्यस्तस्याची'त्यत्र गुह इत्यस्य पाठेन वाक्यभेदेन अजादौ प्रत्यये गुहो गुणो नेत्यर्थेनैव सिद्धेः ह्रस्वोकारविधानस्य गुणाबाधकत्वकल्पनात्। उपधाग्रहणस्य 'मितां ह्रस्व' इत्युत्तरत्रावश्यकत्वेऽपि उच्छब्दाकरणलाघवन्तक्रन्यायाप्रवृत्तिरूपलाघवं चेति वदन्ति तन्न। गुहेर्ण्यन्ताच्चङि उपधाकार्यत्वात्प्राबल्येन गुणे ऊत्वे च 'णौ चङि'ति ह्रस्वाभावार्थं दीर्घविधानस्य सूत्रकृता भाष्यकृता च कृतत्वेन तद्विरोधाभावात्। यत्तु 'अदसो मादि'ति सूत्रे ऊद्ग्रहणानुवृत्त्या त्रिपाद्यां भाव्यमानेति परिभाषाया अप्रवृत्तिज्ञापनमिति तन्न। घटवानित्यादौ वकारस्यानुनासिकविधानापत्तेः। केचित्तु 'अदसोऽसे'रित्यत्र दीर्घोकारह्रस्वोकारयोस्तन्त्रेणोच्चारणादुभयोर्विधानसिद्धे नेदं परिभाषाफलमिति वदन्तीति दिक्॥२०॥
नास्ति।