Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

भाव्यमानेन सवर्णानां ग्रहणं न

ननु 'त्यदादीनामः' इत्यादिना 'इममि'त्यादावनुनासिकः स्यादत आह -

भाव्यमानेन सवर्णानां ग्रहणं न।१९।

'अणुदित्' सूत्रे 'अप्रत्ययः' इत्यनेन सामर्थ्यात्सूत्रप्राप्तम्, जातिपक्षेण प्राप्तम्, गुणाभेदकत्वेन च प्राप्तम्, नेत्यर्थः। अत एवाणुदित्सूत्रे प्रत्ययाऽऽदेशाऽऽगमेषु सवर्णग्रहणाभावं प्रकारान्तरेणोक्त्वा, 'एवं तर्हि सिद्धे यदप्रत्यय इति प्रतिषेधं शास्ति, तज्ज्ञापयति भवत्येषा परिभाषा 'भाव्यमानेन सवर्णानां ग्रहणं न' इति। किञ्च, 'ज्याद ईयसः' इत्येवान्तर्यतो दीर्घे सिद्धे 'ज्यादादि'ति दीर्घोच्चारणमस्या ज्ञापकम्। अणुदित्सूत्रे 'ज्यादात्' इति सूत्रे च भाष्ये स्पष्टैषा। 'चोः कु'रित्यादौ भाव्यमानेऽपि सवर्णग्रहणम्, विधेये उदिदुच्चारणसामर्थ्यात्। एतदेवाभिप्रेत्य भाव्यमानोऽण् सवर्णान्न गृह्णातीति नव्याः पठन्ति ॥१९॥

 

कामाख्या

'त्यदादीनाम' इत्यत्र सवर्णग्राहकताबलेनानुनासिकादीनामपि ग्रहणादिममित्यादौ कदाचित् सानुनासिकस्यापि विधानं स्यादत परिभाषामवतारयति नन्वित्यादिना। इमावित्यादौ तु न दोषः ऐचोऽनुनासिकाभावेन शुद्धस्यैवौकारस्य 'वृद्धिरेची'त्यनेन विधानात्। इमे इत्यत्र ईकाररूपस्थानिनो द्विमात्रत्वेन मल्लग्रामादिवद् भूयसाव्यपदेश इति तत्सदृशस्यैव विधानान्न दोषः। भाव्यमानेनेति।ननु विधीयमानत्वं लक्ष्ये एवास्ति तत्र सवर्णग्राहकताया अनुपयोगेन निषेधो व्यर्थः। सूत्रे तदभानेन निषेधाप्राप्त्या सर्वमिदमसंगतमिति चेन्न। विधेयताप्रयोजकपदेन सवर्णानां ग्रहणं नेत्यर्थेनादोषात्। न चैवं 'त्यदादीनाम' इत्यत्रापादने शुद्धह्रस्वाकारस्यापि ग्रहणन्न स्यादिति वाच्यम्। स्वावृत्तिधर्मवतां सवर्णानां ग्रहणन्नेत्यर्थकरणेनादोषात्। नचैवमपि तद्व्यक्तित्व-तत्पुरुषीयत्व-तत्कालीनत्वधर्माणामपि तथात्वेन पूर्वोक्तदोषस्तदवस्थ एवेति वाच्यम्। स्वावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवतां सवर्णानां ग्रहणन्नेत्यर्थेनादोषात्। नन्वेवमपि 'इको यणची'त्यत्र यण्पदेन लक्ष्यस्थानां वकारादीनां ग्रहणन्न स्यात्, यण्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकवल्त्वादिधर्मस्य वकारादौ सत्वात्। किञ्चानुनासिकत्वस्य श्रावणप्रत्यक्षविषयतावच्छेदकधर्मत्वाभावेन निषेधाप्राप्त्या तद्धर्मवतां ग्रहणं स्यादिति चेन्न। स्वतादात्म्यस्वशक्यतावच्छेदकघटकत्वान्यतरसम्बन्धेन स्वविशिष्टावृत्तिधर्मवतां ग्रहणन्नेत्यर्थेनादोषात्। प्रथमसम्बन्धस्य फलं 'त्यदादीनाम' इति द्वितीयस्य 'इको यणची'ति यण्पदशक्यतावच्छेदको यकारादिणान्तसमुदायत्वरूपस्तद्घटकत्वं यकारादीनामिति। स्वविशिष्टयकारादिस्तदवृत्तिधर्मोऽनुनासिकत्वरूपस्तद्वतामग्रहणेऽपि शुद्धवकारादीनां ग्रहणं सुलभम्। केचित्तु स्वविशिष्टश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवतां विधेयताप्रयोजकपदेन ग्रहणन्न भवतीत्यर्थः। वै. स्वावृत्तित्व स्वनिष्ठशक्तिनिरूपकतावच्छेदकसमुदायघटकावृत्तित्वान्यतरसम्बन्धेनेति सर्वमवदातमिति वदन्ति। अप्रत्यय इत्यत्र सामर्थ्यादिति। पृथक्योगकरणसामर्थादित्यर्थः।प्रकारान्तरेणेति। प्रत्ययेऽनभिधानेन आदेशे 'ईहल्यघो'रिति दीर्घोच्चारणेन आगमे 'वृतो वे'ति दीर्घविधानेनेत्यर्थः। उक्तज्ञापनेनैकदैकदेशानुमत्या ज्ञापितेऽपि सर्वांशे ज्ञापकत्वमाहकिञ्चेति। 'ज्यादादीयस' इत्यत्र लोप इत्यनुवृत्त्यैव सिद्धे आकारविधानमङ्गवृत्तिपरिभाषाज्ञपकम्। तेन लोपे कृते 'अकृत्सार्वे'ति दीर्घो न स्यादत आकारविधानं स्वांशे चारितार्थ्यम्। तत्र आकारविधानेऽपि आन्तरतम्याद्दीर्घे सिद्धे दीर्घोच्चारणमस्या ज्ञापकमिति भावः। न च परिभाषाज्ञापनोत्तरं सवर्णदीर्घेणैव सिद्धे दीर्घविधानस्य वैयर्थ्येन कथं ज्ञापकत्वम्। अकारविधाने पररूपन्तु न शक्यमुच्चारणसामर्थ्यात्। न चोच्चारणे ज्ययानिति तदभावे 'अकृतसार्वे'ति दीर्घे ज्यायानिति फलभेदसत्वेन कथं वैयर्थ्यन्तस्येति वाच्यम्। अङ्गवृत्तिपरिभाषया फलभेदवारणात्। न चास्या भाष्ये क्वाप्याश्रयणाभावेन तया फलभेदवारणासंभव इति वाच्यम्। 'ज्ञाजनोर्जे'ति दीर्घान्तविधानसामर्थ्येनोक्तपरिभाषाकल्पनस्यावश्यकत्वात्। एवं च विधानसामर्थ्यं स्पष्टमेवेति चेन्न। विधानसामर्थात्पररूपाभावकल्पनवत् सन्ध्यभावकल्पनाया अपि संभवेन तद्वारणायाकारोच्चारणस्य स्वांशे चारितार्थ्यादिति दिक्॥१९॥

नास्ति।