Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते

नन्वेवमपि 'प्रधाय, प्रस्थाय' इत्यादावन्तरङ्गत्वाद्धित्वादिषु कृतेषु ल्यप् स्यादत आह

अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते।५४।

'अदो जग्धिरि'ति सूत्रे कितीत्येव सिद्धे ल्यब्ग्रहणमस्या ज्ञापकमिति 'अदो जग्धिः' इत्यत्र भाष्ये स्पष्टम्॥५४॥

 

कामाख्या

अन्तरङ्गपरिभाषाबाधिकामवतारयति नन्वेवमपीति। पूर्वेक्तस्थलत्रये निर्वाहेऽपि। अन्तरङ्गत्वादिति। पदद्वयापेक्षसमाससापेक्षल्यबपेक्षया दधातेर्हिरित्यादेरन्तरङ्गत्वात्। ल्यप्बाधतेइति। धर्मिग्राहकमानादन्तरङ्गनिमित्तविनाशक एव ल्यप् गृह्यते। अत एव अभिवाद्येत्यादौ णिज्निमित्तकवृद्धौ लघुपूर्वत्वाभावेन णेरयादेशेन। न च ल्यब्विषयेऽन्तरङ्गन्नेत्येव ज्ञाप्यतां 'न ल्यपी'ति च न कार्यमिति वाच्यम्। निरेष्य गत इत्यत्रान्तरङ्गस्य लघुपधगुणस्याप्यप्रवृत्त्याऽयादेशापत्तेः। संकीर्त्येत्यादावीत्वानापत्तेश्च। यत्तु 'न ल्यपी'ति सूत्राकरणलाघवात् प्रकृतिप्रत्ययमात्रनिमित्तकं कार्यं ल्यव्विषये न प्रवर्तत इत्येव ल्यब्ग्रहणेन ज्ञाप्यत इति। तन्न, अधीत्येत्यत्र तुकोऽप्यभावापत्तेः। यदपि क्त्वाश्रयानुबन्धकार्याणां ल्यब्विषयेऽप्रवृत्तिरित्येव ज्ञाप्यत इति। तदपि न। अनुभूयेत्यादौ गुणनिषेधानापत्तेः। प्रोह्येत्यत्र संप्रसारणस्य प्रमथ्येत्यत्र न लोपस्य च अभावापत्तेश्चेति दिक्॥५४॥

नास्ति