कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते
ननु'अध्येता', 'शायिते'त्यादविङ्शीङोर्ङित्वाद् गुणनिषेधः स्यादत आह -
कार्यमनुभवन् हि कार्यी निमित्ततया नाश्रीयते॥१०॥
'स्थण्डिलाच्छयितरि व्रते' इति निर्देशोऽस्यां ज्ञापकः। 'ऊर्णुनविषती'त्यादिसिद्धये कार्यमनुभवन्निति। अत्र हि 'द्विर्वचनेऽचि' इति नुशब्दस्य द्वित्वम्।अन्यथा 'सन्यङोः' इत्यस्य षष्ठ्यन्तत्वात् सन्नन्तस्य कार्यित्वेन इसो द्वित्वनिमित्तत्वाभावात् तत्प्रवृत्तिर्न स्यात्। वस्तुतः समवायिकारण-निमित्तकारणयोर्भेदस्य सकललोकतन्त्रप्रसिद्धतया तस्य तत्त्वेनाश्रयणाभावेन नैषा ज्ञापकसाध्या। अत एव हिः प्रयुक्तः। स हि तत्त्वेनानाश्रयणे हेतोः प्रसिद्धत्वं द्योतयतीति तत्त्वम्। 'द्विर्वचनेऽचि' इत्यत्र भाष्ये ध्वनितैषा॥१०
कामाख्या
संज्ञाप्रसङ्गस्मृतगुणसंज्ञा तत्प्रसङ्गस्मृत 'क्क्ङिति चे'ति शास्त्रं तद्विषयिणीं परिभाषामवतारयति नन्वध्येतेति। यद्यपि शास्त्रे निमित्तपदेन सप्तम्यन्तपञ्चम्यन्तपदप्रयोज्यविषयताश्रयस्यैव व्यवहारस्तथापि परिभाषातः पूर्वं कारणमात्रस्यैव निमित्तपदेन ग्रहणस्य सर्वसम्मतत्वमित्यवतरणान्नासंगतमिति। अत्र केचित् निषेधवाक्यानामपि विध्येकवाक्यतयैवान्वय इति स्वसिद्धान्तात् क्ङित्पदार्थस्य स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन नञर्थभेदेऽन्वयस्तस्याश्रयत्वसम्बन्धेन 'सार्वधातुकार्धधातुकयोः' एवं च क्ङिन्निष्ठप्रतियोगितानिरुपकभेदवत्सार्वधातुकार्धधातुकयोर्गुणो भवतीत्यर्थेऽध्येतेत्यादौ गुणः स्यादेवेत्यवतरणमसंगतमिति वदन्ति तदसत्। यत्किञ्चिन्निष्ठप्रकारतानिरूपितनञर्थनिष्ठविशेष्यताकबोधं प्रति प्रतियोगिवाचकप्रथमान्तजन्योपस्थितिः कारणमिति स्वीकारात्। अत एव घटो न पट इत्यत्रैव तादृशबोधो न तु भूतलेन घट इत्यत्रापि, एवं च प्रकृते प्रतियोगिवाचकप्रथमान्तपदाभावेन तादृशान्वयबोधस्य दुर्लभत्वात्। यत्तु गित्साहचर्यात् ङितोऽपि प्रत्ययस्यैव ग्रहणेन अध्येतेत्यादौ दोषाभाव इति, तन्न, ओहाग्धातौ गितः सत्वेन साहचर्याश्रयणासंभवात्। ओहाक् त्याग इति चर्त्वेन निर्देश:। अत एव जाहायत इत्यत्र 'दीर्घोऽकित' इति दीर्घसिद्धिरिति केचित् समादधुः। वस्तुतः 'क्ङितिचे'ति शास्त्रप्रवृत्तिप्रयोजस्य गितः प्रत्ययस्यैव सम्भवेन तत्साहचर्याश्रयणे बाधकाभावः। एवं चावतरणस्य सुनोतीत्यस्योपलक्षणत्वेन आदिपदोपादानेन वा ग्रन्थदोषानवकाशः। न च गुणशास्त्रीयायाः कस्या अपि विषयतायास्तु पर्याप्तत्वाभावेन ङित्वेऽपि न दोष इत्यवतरणसंगतिरेवेति वाच्यम्। अस्य स्त्री ई, सेवाचरति, अयतीत्यस्योपलक्षणत्वेनादोषात्। न च गित्साहचर्याद्धातुविहितङित एवात्र ग्रहणात् प्रकृते न दोष इति वाच्यम्। किनिष्पन्नाधिशब्दादाचारक्विपि आधयतीत्यस्योपलक्षकत्वेनादोषात्। यदि च पूर्वोक्तसाहचर्यात् कित्पर्याप्तनिमित्तताकगुणस्यैवानेन निषेध इत्युच्यते, तदाऽरिरिषतीत्यस्यैवोपलक्षकत्वेनादोषात्। अत्र हि इसो द्वित्वनिमित्तत्वेन 'द्विर्वचनेऽची'त्यनेन पूर्वं द्वित्वे, ततो गुणे उक्तरूपसिद्धिः। परिभाषया इसो द्वित्वनिमित्तत्वाभावबोधने 'द्विर्वचनेऽची'त्यस्याप्राप्तौ परत्वाद्गुणो रिस्शब्दस्य द्वित्वे रूपसिद्धिः। यदि च जग्मतुश्चक्रतुरित्यादिभाष्योदाहरणात् 'द्विर्वचनेऽची'त्यस्य द्वित्वनिमित्तघटकाच्पर्याप्तनिमित्तताकाजादेशो नेत्यर्थ आवश्यकः। एवं चारिरिषतीत्यत्र गुणस्य दित्वनिमित्ते स्-घटकेकारपर्याप्तनिमित्तकत्वाभावेन 'द्विर्वाचनेऽची'त्यस्याप्राप्तौ पूर्वं गुणे रूपसिद्ध्या फलाभाव इत्युच्यते तर्हि परिभाषाफलं मृग्यमिति। न चोक्तार्थस्वीकारे ऊर्णुनविषतीत्यत्र इकारपर्याप्तनिमित्तकत्वं गुणोऽसत्वेन 'द्विर्वचनेऽची'त्यस्याप्राप्तौ पूर्वं गुणावादेशे रूपसिद्धिरिति वाच्यम्। अवादेशस्येकारपर्याप्तनिमित्तताकत्वेनानेन निषेधे गुणोऽपि अभ्यासह्रस्वत्वेन रूपसिद्धेः। न च दुधूषतीत्यत्र उकारपर्याप्तनिमित्तकयणोऽनेन निषेधाद्द्वित्वोत्तरं यणि रूपासिद्धिरिति वाच्यम्। प्रत्यये इति वक्ष्यामीति भाष्याद् द्वित्वनिमित्तप्रत्ययघटकाच् पर्याप्तनिमित्तताकेत्याद्यर्थस्वीकारेणादोषात्। न च क इवाचरतुश्चकतुरित्यत्र द्वित्वनिमित्तप्रत्ययघटकाकारपर्याप्तनिमित्ताकतो लोपाभावेन 'द्विर्वचनेऽची'त्यस्याप्राप्तौ द्वित्वात्पूर्वमतोलोपापत्तिरिति वाच्यम्। एकाज्भ्यः क्विपोऽनभिधानेनोक्तप्रयोगस्यैव दुर्लभत्वात्। न चैवमपि अधिपूर्वकादिङ्धातोर्णिजन्ताल्लुङि, चङि, अध्यजीगपदित्यत्र द्वित्वनिमित्तचङ्प्रत्ययघटकाकारपर्याप्तनिमित्तताक 'णौ चसंश्चङो'रिति गाङादेशे कर्तव्येऽनेन निषेधात्पूर्वन्द्वित्वे, तत आदेशे उक्तरूपासिद्धिरिति वाच्यम्। द्वित्वनिमित्तप्रत्ययघटकाज्विशिष्टं कार्यन्नेत्यर्थस्वीकारेणादोषात्। वै० स्वपर्याप्तनिमित्तताकत्व, स्वाव्यवहितपूर्वापर्याप्तनिमित्तताकत्वोभयसम्बन्धेन। एवं चाकाराव्यवहितपूर्वे णिचि गाङादेशनिमित्ततायाः पर्याप्तत्वेनादोष इति दिक्। यत्तु अन्तरङ्गे निषेधे कर्तव्ये बहिरङ्गगुणस्यासिद्धत्वादेव निषेधाप्राप्तौ अवतरणासंगतिरिति। तन्न, 'निषेधश्च बलीयांस' इति परिभाषया निषेधविषयेऽन्तरङ्गपरिभाषाया अप्रवृत्तिबोधनात्। अत एव 'न वृद्भ्यश्चतुर्भ्य' इति निषेधसार्थक्यम्। अन्यथाऽन्तरङ्ग इडागमे कर्तव्ये बहिरङ्गनिषेधस्यासिद्धत्वादिडागमे निषेधवैयर्थ्यं स्पष्टमेवेति। न चोक्तज्ञापकसाजात्यात् यत्र निषेधस्य बहिरङ्गत्वन्तत्रैव निषेधश्चेति परिभाषाप्रवृत्तिस्वीकारः। प्रकृते तु न तथेति वाच्यम्। अन्तरङ्गे 'दीधीवेवीटामि'तीटो गुणनिषेधे कर्तव्ये बहिरङ्गगुणस्यासिद्धत्वाद्भवितेत्यादौ गुणस्य दुर्वारत्वेन ज्ञापकसाजात्याश्रयणस्याशक्यत्वात्। केचित्तु क्नोः कित्वेन एकवर्णव्यवधानेऽपि निषेधप्रवृत्तिस्वीकारात् 'क्ङिति चे'त्यत्र परसप्तमीस्वीकारेऽपि छिन्नो भिन्न इत्यादावदोषेण 'निमित्तग्रहणं कर्तव्यमुपधारोरवीत्यर्थ'मिति वार्तिकस्यासाधारणफलाभावेनावतरणासंगतिः रोरवीत्यत्र हि प्रत्ययलोपसूत्रस्य नियमार्थतया ङित्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्त्या 'न लुमताङ्गस्ये'त्यनेन निषेधेन च दोषाभावादिति वदन्ति। न च कविरिवाचरति कवयतीत्यादौ क्विप्परत्वेन निषेधाभावाय निमित्तग्रहणमावश्यकमिति वाच्यम्, धातोर्विहिते क्ङितीत्यर्थेनादोषात्। न चैवमपि ग्रामं नयतीति ग्रामणीः, स इवाचरतीत्यर्थे ग्रामणयतीत्यत्र धातोर्विहिते क्विपि निषाधापत्तिरिति वाच्यम्। अन्तरङ्गे, निषेधे कर्तव्ये बहिरङ्गगुणस्यासिद्वत्वेन गुणाप्रवृत्तेर्दुर्वारत्वात्। न चैकवर्णव्यवधाने निषेधप्रवृत्तिस्वीकारे भवत इत्यादावपि निषेधः स्यादिति वाच्यम् । ज्ञापकसाजात्याद् हलेकवर्णव्यवधाने इति स्वीकारेणादोषात्। न चाक्षैष्टामित्यत्र वृद्धिनिषेधः स्यादिति वाच्यम्। धात्ववयवहलेकवर्णव्यवधाने इत्यादिस्वीकारेणादोषात्। न चैवं गुतेत्यादौ तास्निमित्तकगुणनिषेधेऽपि आनिमित्तकगुणः स्यात्। आनिमत्तकगुणस्य तास्निमित्तकनिषेधस्तु न बहिरङ्गत्वेनासिद्धत्वादिति वाच्यम्। गुणवृद्धिप्रयोजकप्रत्ययभिन्नव्यवधाने निषेधप्रवृत्तिस्वीकारेणादोषात्। किञ्च ज्ञापकसाजात्यात् हलेकवर्णव्यवधाने गुणनिषेधप्रवृत्तिस्वीकारेऽपि वृद्धिनिषेधप्रवृत्तेरस्वीकारादक्षैष्टामित्यादौ न दोष इति बोध्यम्। यत्तु सिज्भिन्नहलेकवर्णव्यवधाने इत्यादिस्वीकारान्न दोष इति, तदसत्। अगुषीदित्यादौ तकारनिमित्तकगुणस्य दुर्वारत्वात्। न च ज्ञापकसाजात्यात् हलेकवर्णव्यवधाने गुणनिषेधस्यैव स्वीकारे मृष्टो मृष्टवानित्यादौ वृद्धिः स्यादिति वाच्यम्। 'मृजेर्वृद्धिरचः अचि क्ङितीति भाष्यन्यासेन क्ङिति चेदजादावेवेति नियमेन प्रकृते वृद्धेरप्राप्तेः। न च निमित्तग्रहणाभावे ञिभी-धातोर्घञर्थे कप्रत्यये, इयङि, तत आचारक्विबन्तात्कर्तरि क्विपि, अल्लोपयलोपौ ततो वनिपि भेवेत्यादौ क्विप्परत्वेन निषेधः स्यादिति वाच्यम्। अन्तरङ्गपरिभाषया करणसंभवात्। किं च निमित्तग्रहणं कर्तव्यमिति वार्तिकप्रत्याख्यानपरभाष्यप्रामाण्ये- नोक्तप्रयोगाणामनभिधानेनादोषादित्यलम्। निर्देशश्चेति। न च 'निष्ठाशीङ् स्विदी'त्यादिना निष्ठाया अकित्वविधानेन प्रकृतिगतङित्वमादाय निषेधो नेति ज्ञापनेन निर्देशादेरुपपत्तौ प्रकृतग्रन्थासंगतिरिति वाच्यम्। विशेषापेक्षज्ञापनेनापि अकित्वविधानस्य चारितार्थ्यसंभवात्, किं च कार्यी निमित्तत्वेनाश्रीयत इत्यकिद्विधानेन ज्ञापनम् ऊर्णनविषतीत्यादिलक्ष्यानुरोधान्निर्देशेन कार्यमनुभवन्निति ज्ञापनमिति ग्रन्थकारस्याशयः। यत्तु कुटादिगणे कुङ्धातुपाठेनोक्तज्ञापनसंभवात् प्रकृतग्रन्थासंगतिरिति तन्न, कुधातोरच इरिती प्रत्यये, उवडि, कुविरिति, तत आचारक्विपि कुव्यतीत्यत्र इकारस्य गुणाभावाय गणे पाठस्य चारितार्थ्यात्। भाष्येध्वनितैषेति। तत्र हि अचि किं जेघ्रीयते, देद्मीयत इत्युक्तम्, एतत्परिभाषाभावेऽच्ग्रहणसत्त्वेऽपि द्वित्वनिमित्तोऽच् घ्रघटकाकारस्तन्निमित्तताकोऽजादेश 'ईघ्राध्मो'रितीत्वादेशस्तस्मिन् कर्तव्ये 'द्विर्वचनेऽची'ति निषेधात्प्रत्युदाहरणासंगतेरतोऽनुमीयते कार्यी निमित्ततया नाश्रीयत इति। एवमपि कार्यी यकारस्तस्य निमित्तत्वेनाश्रयणाभावे 'द्विर्वचनेऽची'त्यस्याप्राप्तौ जेघ्रीयत इत्यादेः सिद्ध्याऽत्र ग्रहणं व्यर्थमेव स्यादिति कार्यमनुभवन्नित्यस्याप्यनुमानम्। एवं च विशेषणविशिष्टा ध्वनितेति तात्पर्यम्। केचित्तु शयितरीति निर्देशेन कार्यी निमित्ततया नाश्रीयत इति ज्ञापनम्, अचि ग्रहणेन कार्यमनुभवन्निति। एवं च विशेषणमात्रेण ध्वनितेति तात्पर्यमिति वदन्ति। केचित्तु नटभार्यावद्व्यञ्जनानि भवन्तीति न्यायेन घ्राय्शब्दस्य द्वितीयाजव्यवहितपूर्वस्य द्वित्वकार्यित्वेन अचिग्रहणसत्वेऽसत्वे च परिभाषया द्विर्वचनेऽचीत्यस्याप्राप्तौ जेघ्रीयत इत्यादिसिद्धौ प्रत्युदाहरणात्कथनासंगत्या अध्वनितैषेतिच्छेद इति वदन्ति ते धन्याः। स्वरान्तरे व्यञ्जनान्युत्तरस्येति न्यायेन सर्वत्र व्यञ्जनस्य परेण संयोगदर्शनाच्च। यत्तु 'द्विर्वचनेऽची'त्यत्राधिकरणसप्तम्या द्वित्वनिमित्तताश्रयीभूतो योऽच् तदव्यवहितपूर्वस्याच आदेशो नेत्यर्थेऽच् ग्रहणाभावेऽपि जेघ्रीयत इत्यादावदोषेण कथं ध्वनितेति तन्न अधिजगे जग्ले इत्यादौ द्वित्वनिमित्तताश्रय-एकारस्तदव्यवहितपूर्वस्याऽचो गाङदेशस्यात्वादेशस्य वा अभावापत्तौ रूपाऽसिद्ध्या निमित्तसप्तम्याश्रयणस्यैव युक्तत्वात्। एवं च गाङादेशस्य लावस्थायामेव प्रवृत्त्या आत्वस्य चानिमित्तकत्वेन दोषाभावः। परिभाषार्थस्तु स्वाश्रयत्व स्वप्रयोज्यसंभावना-विशेष्यत्वान्यतरसम्बन्धेन कार्यानुभवकर्तृत्वविशिष्टः कार्यी निमिश्रतया नाश्रीयत इति। तेन दुद्यूषतीत्यादौ परिभाषास्वीकारोत्तरमुकारस्य यणुत्तरं कार्यित्वस्य संभावनया द्वित्वनिमित्तत्वाभावेन पूर्वं यणादेशे पश्चाद्द्वित्वे रूपसिद्धिः। द्वितीयसम्बन्धाभावे तु उकारस्य कार्यानुभवकर्तृत्वाभावेन, परिभाषाया अप्राप्त्या 'द्विर्वचनेऽची'ति निषेधे रूपासिद्धिरिति दिक्॥१०॥
परिभाषार्थमञ्जरी
अध्येता शयितेति। तृजन्तमेतत्। यत्तु कैयटानुयायिभिः ननु 'दीधी वेव्यो'र्ङित्वात् 'क्ङिति चे'ति सिद्धे तयोः पृथक् निषेधो व्यर्थोऽत आह इति परिभाषा अवतारिता तत्तुच्छम्। भाष्ये दीधीवेव्योर्निषेधविषये 'अदीधेत् अदीधयुर्दाशराज्ञे वृत्तास' इत्यादौ गुणदर्शनेन छान्दसत्वेनैव तत्र निषेधाप्राप्तेर्वक्तव्यतया सूत्रमेव मास्त्वित्यर्थकदीधीवेव्योः छन्दोविषयत्वात् दृष्टानुविधित्वाच्च। छन्दस इत्युक्तत्वेनैव[1] तद्विरोधपर्वतपातेन त्वदुक्तावतरणस्य चूर्णितत्वात्। सूत्रकाररीत्यापि न। आदीध्यक इत्यादावनिग्लक्षणा[2] 'अचोञ्णिती'ति निषेधेन चारितार्थत्वात्। स्पष्टश्चायमर्थश्शब्दकौस्तुभादौ। स्थण्डिलाच्छयितरीति। ननु 'ऊर्णुनविषती'त्यादौ 'इस्'शब्दस्य निमित्तत्वेनाश्रयणार्थं प्रशस्तकार्य्यिणो निमित्तत्वं नास्तीत्यर्थो ज्ञापनीयः। स च कार्य्यमनुभवन्नित्यादिना क्रोडीकृतः। एवञ्च धर्मिग्राहकमानविरोधः। तथा हि शयितरीत्यत्र प्रशस्तकार्यित्वं 'सार्वधातुकार्धधातुकयो' रित्यस्येगन्ताङ्गस्य गुण इत्यर्थेनेकारस्य। न च तत्र ङित्वमस्ति तस्य समुदायानुबन्धत्वात्। यश्च ङिन्नासौ कार्य्यी। न च प्रशस्तकार्य्यिघटिततयाङ्गस्य तत्त्वम्। ऊर्णुनविषतीत्यादावपि समुदायस्य तत्त्वेन दोषस्योज्वलत्वात्। न च तद्घटितत्वेन तस्य तत्त्वेऽपि तद्धटकस्य तस्य तत्त्वेनाश्रयणे बाधकाभाव इति वाच्यम्। परिभाषया[3] कार्य्यीनिमित्ततयानाश्रीयत इति यथाश्रुतार्थकत्वे उर्णुनविषतीत्यादौ सन्नन्तसमुदायस्य कार्य्यित्वेऽपि 'इस्'शब्दस्य कार्यित्वाभावेन तस्य विना यत्नं [4]निमित्तत्वेनाश्रयणेऽतिदेशप्रवृत्तौ यत्नानर्थक्येन कार्य्यिघटकतया तस्यापि कार्य्यित्वेन एव यत्नस्य साफल्येनात्रापि विनिगमनाविरहेण प्रशस्तकार्यिघटकतया प्रशस्तकार्यित्वस्य इस्शब्देऽपि सत्वेन तस्यापि निमित्तत्वनापत्तौ दोषस्योद्भटत्वात्। [5]ननु च कृतेऽपि यत्ने परम्परया प्रशस्तकार्य्यिणो ग्रहणे यत्नानर्थक्येन साक्षात्प्रशस्तकार्य्यिणो ग्रहणेन 'इस्'शब्दस्य तत्त्वाभावेन निमित्तत्वेनाश्रयणं [6]तर्वारूढमिति चेत्तर्हि तेनैव यत्नेन प्रशस्तकार्य्यिघटितत्वेन समुदायस्य [7]निवर्ततारुढतां कथं जानासि। न च ङित्वस्य स्वोपलक्षितसमुदायघटकत्वरूपपरम्परया ईकारे सत्वेन तस्य प्रशस्तकार्यित्वेन च[8] दोष इति वाच्यम्। अत्रापि स्वघटितसमुदायघटकत्वरूपपरम्परासम्बन्धेन प्रशस्तकार्य्यित्वस्य 'इस्'शब्देऽपि सत्वेन दोषस्याशीविषायमानत्वात्। न च 'सर्वे सर्वपदादेशा' इति न्यायेन शीत्यस्य शे इत्यादेशे दोषस्य गङ्गाजलावसेक इति वाच्यम्। ऊर्णुनविषतीत्यादावपि तस्या विशिष्टेनेसः कार्य्यितया निमित्तत्वेनानापत्तिः। न च समुदायस्य तत्त्वेनापि[9] नावयवस्य तत्त्वम्। पूर्वोक्तद्वितीयदूषणोक्तदिशा दोषस्य जागरुकत्वेन तस्य कुत्सितकर्दमहृदोन्मज्जनप्रसङ्गादिति चेन्न। 'सार्वधातुकार्धधातुकयो'रित्यादौ इक्परिभाषाप्रवृत्तौ प्रथमान्तगुणपदश्रवणमात्रस्य प्रयोजकतया तज्ज्ञाने सर्वापेक्षयाऽन्तर ङ्गत्वात्तदुपस्थितौ वाक्यार्थबोधे जाते स्थानषष्ठीत्वनिर्णये पश्चात् प्रसक्तालोऽन्त्यपरिभाषया 'निषेधाश्च बलीयांस' इति न्यायेन 'क्ङिति चे'त्यस्योपस्थित्त्या निषेधे[10] पर्य्युदासार्थकनञोऽभावेन वाक्यैकवाक्यतयाऽन्वयबोधेन[11] तदवस्थायामङ्गे ङित्त्वस्य प्रशस्तकार्य्यित्वस्य च सत्वेन परिभाषोत्पत्तौ, पश्चादप्रतिबद्धप्रसरालोऽन्त्यपरिभाषाप्रवृत्तावपि तस्याः पूर्वपरिभाषाव्याख्यानभाष्यध्वनितरीत्याऽप्रयोजकत्वेन ज्ञापकत्वस्य मेरुशिखरारूढत्वात्। न चान्तरङ्गोपजीव्यत्वादपि[12] निषेधकस्य[13] प्राबल्येन इक्परिभाषायाम[14]न्तरङ्गस्योपजीव्यत्वस्य च सत्त्वेन तस्यापि प्रतिबन्धः स्यात्। अत एव सवर्णसंज्ञाया निषेधोपजीव्यत्वेऽपि न तदंशे प्रवृत्तिरिति वाच्यम्। इक्परिभाषाप्रवृत्तिमन्तरा गुणस्य इग्लक्षणत्वाभावेन गुणोपजीव्यत्वेऽपि निषेधोपजीव्यत्वाभावेन च त्वदुक्तदूषणत्वस्य[15] अकिञ्चितकरत्वात्। ऊर्णुनविषतीत्यादौ तु सन्नन्ते प्राप्ति[16]कार्य्यित्वस्याप्रतिबद्धप्रसरेण 'अजादेर्द्वितीयस्ये'त्यनेनावयस्यैव प्रशस्तकार्यित्वपर्यवसानमिति ध्येयं सूरिभिरिति दिक्। वस्तुतस्तु कार्य्यानुभवतो निमित्ततया पर्य्याप्तिसम्बन्धेन निमित्तघटकतया वा आश्रयणञ्च नेत्यर्थः। न चानया रीत्या परिभाषैव मास्त्विति वाच्यम्। अध्येतेत्याद्यसिद्धेः ज्ञापकतानिर्वाहार्थं तथार्थस्वीकार इत्याशयः[17]। भाष्ये ध्वनितैषेति। तत्र हि सूत्रेण कार्य्यमतिदिश्यते इति मनसि निधाय 'चक्रतु'रित्यादौ यणि अनच्कत्वेन द्वित्वाप्राप्तौ अनेन द्वित्वरूप[18]कार्य्यातिदेशेऽपि अभ्यासेऽकारश्रवणं न स्यादिति दोषेऽज्ग्रहणस्य रूपातिदेशे ज्ञापकत्वमुक्तम्। अज्ग्रहणस्य व्यावर्त्यं हि जेघ्रीयते, देध्मीयते इत्यादौ च सतिकार्यातिदेशे तद्व्यर्थमेव स्यादित्याशयः। एवञ्च कृतेप्यज्ग्रहणे अरिरिषतीत्यादौ गुणस्य इस् निमित्तकस्थानिवद्भावेन इस्शब्दस्य द्वित्वं दुर्निवारमेवेति कथमिष्टसिद्धिरुक्ता। किञ्चाज्ग्रहणेऽसति सति वा उभयथाप्यत्र दोषत्वेन[19] तत्परित्यज्यान्योदाहरणानुधावनमसङ्गतं स्यात्। तस्मात्तेन तत्सत्वमनुमीयत इति ध्येयम्॥१०॥
[1]एव इति के गे ङे नास्ति
[2]इग्लक्षणा इति गे ङे
[3]परिभाषायाम् इति गे के
[4]निमित्तत्वाश्रयणे इति गे
[5]ननु प्रकृतेऽपि इति के
[6]द्वितर्वारूढम् इति के खे गे घे, द्युतर्वारूढमिति घे ङे।
[7]निम्बतर्वारूढताम् इति के गे
[8]च तस्य न दोषः इति के खे
[9]तत्त्वेऽपि इति के खे गे ङे
[10]निषेधो इति गे
[11]बोधे इति गे ङे
[12]उपजीव्यादपि इति गे
[13]निषेधस्य इति गे के ङे
[14]अन्तरङ्गत्वस्य इति गे ङे
[15]दूषणस्य इति गे
[16]प्राप्त इति के ङे
[17]वस्तुतस्तु .. इत्यारभ्य इत्याशयः इति पर्यन्तं पाठः के खे ङे नास्ति
[18]कार्यमतिदिशियते.. इत्यारभ्य द्वित्वरूप इति पर्यन्तं पाठः गे नास्ति
[19]दोषसत्त्वेन इति के खे गे ङे