लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्
ननु 'तत्पुरुष तुल्यार्थ' इति स्वरः 'परमेण कारकेण, परमकारकेणे'त्यादौ स्यात्तथा 'गातिस्थाघुपाभूभ्यः' इति लुक् 'पै ओवै शोषण' इत्यतः कृतात्त्वात्परस्यापि स्यादत आह -
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्।११४।
लक्षणं लाक्षणिकमुपचारात्। तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तस्तस्यैव ग्रहणं शीघ्रोपस्थितिकत्वात्। द्वितीयो हि विलम्बोपस्थितिकः। 'पै' इत्यस्य पा इति रूपं लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकम्, पिबतेस्तु तच्छीघ्रोपस्थितिकम्। इदमेव ह्येतत्परिभाषाबीजम्। इयं च वर्णग्रहणेऽपि 'ओत्' सूत्रे भाष्ये सञ्चारितत्वात्। यत्तु वर्णग्रहणे नैषा 'आदेचः' इत्यत्रोपदेशग्रहणादिति, तत्तु तस्मिन्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम्। अनित्या चेयं 'भुवश्च महाव्याहृतेः' इति महाव्याहृतिग्रहणादित्यन्यत्र विस्तरः॥११४॥
कामाख्या
तत्पुरुषेति। तुल्यार्थं तृतीयान्तं सप्तम्यन्तमुपमानवाचकमव्ययं कृत्यप्रत्ययान्तं द्वितीयान्तं पूर्वपदं तत्पुरुषसमासे प्रकृत्येत्यर्थक 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्या' इति सूत्रेण। परमेण कारकेणेति परमकारकेणेति परिनिष्ठितविभक्त्या विशेषणसमासेऽपि तत्पुरुषत्वस्य तदीयपूर्वपदे तृतीयान्तत्वस्य च सत्त्वेन स्वरः स्यात्। ननु लेके स्वरो न नियतः, छन्दसि तु छान्दसत्वेनैव दोषनिराकरणमत आह। तथेति। उपचारादिति। लक्षणनिष्पन्ने लक्षणत्वारोपात्। एवं चयस्य स्वरूपं लक्षणानुसन्धानजन्यसाधुत्वप्रतिपत्तिविषयस्तल्लाक्षणिकम्। प्रतिपदोक्तत्वं च साक्षादुच्चरितत्वम्। यथा पा रक्षणे इति धातौ, क्वचित् तच्छब्दानुवादेन विहितत्वरूपम्। यथा 'विभाषा दिक्समास' इति सूत्रे। 'दिङ् नामान्यन्तराल' इति सूत्रविहितसमाससंज्ञकस्य। द्वितीयोहीति। परिनिष्ठितविभक्त्या समासपक्षेऽपि। 'विशेषणं विशेष्येणे'ति विहितः। इदमेवहीति। शीघ्रोपस्थितिकत्वमेव। ओत्सूत्रइति। अनदोऽदः समभवददो भवदित्यत्र च्व्यन्तत्वात् प्राप्तनिपातप्रगृह्यसंज्ञाया अनया वारणं कृतम्। प्राचीनोक्तं खण्डयति यत्विति। उदेशग्रहणादिति। तद्धि चेता स्तोतेत्यदावात्वनिवृत्यर्थं कृतमिति 'ओत्' सूत्रस्थोक्तभाष्यविरोधेन उपदेशग्रहणस्य गोभ्यामित्यादिव्यावर्त्यप्रदर्शनेन च दूषितमिति। महाव्याहृतिग्रहणात्। जसन्तस्य भूशब्दस्य व्यावृत्त्यर्थन्तत्क्रियते। तस्य च लाक्षणिकत्वादेव व्यावृत्तौ व्यर्थं सदनित्यत्वज्ञापकमिति भावः। अत्र केचित्- प्रतिपदोक्तत्वं च यदर्थे विशेषणतया प्रतिपदोक्तत्वं विवक्षितं तद्विशिष्टत्वम्। वै. स्ववृत्त्यानुपूर्व्यवच्छिन्नविधेयताश्रयत्व स्वार्थान्वय्यर्थकपदवृत्त्यानुपूर्वीमत्पदप्रयोज्योद्देश्यतानिरूपितविधेयताश्रयत्वैतदन्यतरसम्बन्धेनेति। तत्पुरुषपदार्थे प्रतिपदोक्तत्वं विशेषणतया विवक्षितं प्रतिपदोक्ते तत्पुरुषे इत्यर्थात्। तद्विशिष्टः प्रतिपदोक्तस्तत्पुरुषः। स च तृतीयापदप्रयोज्योद्देश्यतानिरूपितविधेयताश्रय एव न तु तृतीयान्तप्रकृतिकः कर्मधारयः। तथा हि स्वं तत्पुरुषपदम्, तदर्थान्वय्यर्थकं पदं तृतीयेति। तद्वृत्त्यानुपूर्वीमत्पदं 'तृतीया तत्कृतार्थे'ति सूत्रघटकं तृतीयेति। तत्प्रयोज्योद्देश्यतानिरूपितविधेयताश्रयत्वन्तत्सूत्रविहिते एवेति लक्षणसमन्वयः। एवं च 'विभाषा दिक् समास' इति सूत्रे प्रतिपदोक्तः समासो 'दिङ्नामान्यन्तराल' इति सूत्रविधेय एव तत्रैव समासपदवैशिष्ट्यात्। एवं पा पदार्थे पारूपे प्रतिपदोक्तत्वं विवक्षितमिति। पावृत्त्यानुपूर्व्यवच्छिन्नविधेयताश्रयत्वं पाधातोरेव न तु पै निष्पन्ने पाधातौ। तत्र पात्वावच्छिन्नविधेयताया आभावात्। 'इको गुणवृद्धी' इत्यत्रोक्तान्यतरसम्बन्धेन गुणवृद्धिशब्दवैशिष्ट्याभावेन। प्रतिपदोक्तयोर्गुणवृद्ध्योरसम्भवेन प्रतिपदोक्तपरिभाषायास्तत्राप्रवृत्तेः, अत एव प्रतिपदोक्तपरिभाषया तु नात्र निर्वाह इति शेखरोक्तं संगच्छत इत्याद्याहुः॥११४॥
परिभाषार्थमञ्जरी
ओत्सूत्रे भाष्ये इति। ननु नैतद्भाष्यं तदभावसाधकम्। तथाहि तत्र किमुदाहरणम्। आहो इति। नैतदस्ति। निपातसमाहारोऽयम्। तत्र 'निपात एकाजनाङि'त्येव सिद्धम्। एवं तर्ह्येकनिपाता इमे। अथवा प्रतिषेधार्थोऽयमारम्भः। ओ षु यातं मरुत:। ओतश्च्वि प्रतिषेधः। अदोऽभवत्। न वक्तव्यः। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं न भविष्यतीत्युक्तम्। तत्रैतत्सूत्रे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तिस्वीकार एकदेशिनो न सिद्धान्तिनः। प्रतिषेधार्थोऽयमारम्भ इति पूर्वसिद्धांतिभाष्यविरोधात्। एवञ्च तद्भाष्यमेकदेश्युक्तमेवेति स्पष्टमेव। अत एवाग्रे गोऽभवदित्यत्र प्रगृह्यसंज्ञामाशङ्क्य गौणमुख्यन्यायेनेति व्यापकं समाधानमुक्तमिति चेन्न। वर्णग्रहणेनेत्यस्य किं विशेष्यतया यत्र वर्णग्रहणं तत्र नेत्यर्थोऽथ विशेषणतया नेत्यर्थो वा। नाद्यः। 'एचोऽयवायव' इत्यादावेजंशे परिभाषाया अप्रवृत्त्या हरये इत्यादिसिद्धावपि उपदेशग्रहणवैयर्थ्यस्य तदवस्थत्वात्। धर्मिग्राहकमानविरोधाच्च। नद्वितीयाः। 'एचोऽयवायाव' इत्यादावेव दोषर्ध्रौव्यात्। न च सामान्यत एव वर्णग्रहणे अवृत्तिरिति वाच्यम्। मूलशैथिल्यात्। तथाहि 'लिटि धातो'रिति सूत्रे धातुग्रहणं तिष्ठतु तावत्सान्यासिकमिति भगवतोक्तम्। धातोरित्यस्याभावे लिटीतिएकाचो विशेषणं स्यात् ततश्च पापचेत्यत्रैव स्यान् न जजागरेत्यादाविति तदाशयः। एवञ्च गोभ्यामित्यादि उपदेशपदव्यावर्त्यं बोध्यम्। 'आदेच्' इत्यत्रापि धातुग्रहणं निवृत्तमित्युक्तम्। किञ्च धातुग्रहणाननुवृत्तौ नानुबन्धकृतमनेजन्तत्वमिति परिभाषाज्ञापकपरभाष्यविरोधश्च। 'न धातुलोप'सूत्रभाष्योक्तरीत्याऽनुबन्धसत्त्वे धातुत्वाभावेनात्वाप्राप्तौ तदसङ्गतिश्च। अपि च 'अवङ् स्फोटे'ति सूत्रे परिभाषाप्रवृत्त्या चित्रगोऽग्रमित्यादौ अवङ्ङभावप्रतिपादकत्वदुक्तिविरोधश्चेति दिक्। ननु पूर्वोक्त ओषु यातं मरुत इत्युदाहरणे 'उञः उः' इति सूत्रस्थ इह कस्मान्न भवति। आहो इति। उताहो इति। प्रत्युदाहरणे च कथमाङ्त्वोञत्वयोरतिदेश:[1]। द्वितीये ऊँ आदेशप्रसङ्ग इति भाव:। स्थानिवत्त्वेनोपात्ताल्वृत्तित्वेन न तयो: स्थानिवदित्यनेनातिदेशः। 'अचः परे'त्यस्य तु विषय एव न भवति। न च 'ओत्'सूत्रे आ उओ इत्यत्रान्तवद्भावाद्। भवत्ययमाङिति प्रतिषेधः प्राप्नोति इति वदता कैयटेन 'उञ' इति सूत्रे स्थानिवद्भावेन तु नैतल्लभ्यम्। एकादेशस्थान्यल्वृत्तिधर्मत्वात्। एकादेशः स्थान्यल्त्वमात्रवृत्तिधर्मस्तु नायम्। 'उञ' इति समुदायेऽपि सत्वात्। तेनान्तवद्भावेन ताद्रूप्यानतिदेशेऽपि न दोष इति वदता विवरणकारेण चान्तादिवत्सूत्रेण तयोरतिदेश उक्त एवेति वाच्यम्। आङ्त्वादेरल्मात्रवृत्तित्वेन तदतिदेशस्य तेन वक्तुमशक्यत्वात्। तथाहि आङत्वादिकं चेत्संज्ञकङकाराद्युपलक्षितत्वादिकं वक्तव्यम्। तच्च स्थान्यल्मात्रवृत्त्येव न [2]चाकाराद्युत्तरेङ्त्वादिकमेव तत्त्वमिति वाच्यम्। [3]तस्यान्तवर्णमात्रवृत्तित्वेन समुदायवृत्तित्वात्। न च पस्पशोक्तघोत्तरटत्वस्य स्वाश्रयघटितत्वसम्बन्धेन समुदायवृत्तित्वप्रतिपादक कौस्तुभोक्तरीत्याऽस्यापि समुदायवृत्तित्वम्। समुदायस्यापि स्थानित्वाभावेन तथा वक्तुमशक्यत्वात्। उञ्त्वं न स्थान्यल्मात्रवृत्तिरिति पूर्वोक्तविवरणव्याकोपाच्च। 'क्तक्तवतु निष्ठे'त्यादिसूत्रोक्त इत्संज्ञकतकारोपलक्षितः सो भवतीत्संज्ञकतकारोपलक्षितसकारेऽभ्यासात इत्वं भवतीत्यादिरर्थः। अत एवाटश्चेत्यादेर्न वैयर्थ्यं इति विवरणरित्याऽनाङित्यस्येत्संज्ञकङकारोपलक्षिताकारभिन्नस्य प्रगृह्यत्वमित्यर्थ एवोचितः। न चाङत्वादिरखण्डोपाधिरुभयसाधारण इति वाच्यम्। मानाभावात्। 'आटश्चे'त्यादेर्नासङ्गतिरिति विवरणाद्यसङ्गतेश्च। न च ताद्रूप्यानतिदेश इत्यस्य वर्णमात्रवृत्तिधर्मानतिदेश इति नार्थ:। किन्तु स्थानिवत्त्वेनोपात्तो यो वर्णस्तन्मात्रवृत्तिधर्मानतिदेश इत्यर्थः। एवञ्चाङ्उञोः समुदाययोः सूत्रे उपादानान्न दोष इति वाच्यम्। यादृशादेशे यत्बुद्धिरानेया तदादेशविधायके स्थानित्वेनोपात्तो यो वर्णस्तन्मात्रवृत्तिधर्मानतिदेश इत्यवश्यं वक्तव्यं न तु यत्रकुत्रचित्स्थानित्वेनोपात्तत्वम्। अन्यथा 'भो भगो' इति यत्वविधायके रोरिति समुदायस्य स्थानित्वेनोपादानात् स्थानित्वेनोपात्तालोभावेन निषेधानापत्त्या तत्रत्यभाष्यासङ्गतेः। तत्र स्थानिवत्वस्य प्रवृत्तिरत्र तु 'अन्तादिवच्चे'त्यस्येति त्वन्यदेतत्। तथा चैषु मरुत आहो इतीत्यत्र गुणरूपैकादेशे विधायके स्थानित्वेनाकारोकारयोरुपादानेन स्थानिवत्त्वेनोपात्तवर्णस्याव्याहतत्वात्। किञ्च [4]'उञ' इति सूत्रे स्थानिवत्वेन समुदायस्योपादानेऽपि 'निपात एकाजनाङि'ति सूत्रे आङस्त त्वेनानुपादानाच्च। अपि च 'अन्तादिवत्सूत्रे' रमा शब्दादौ टापा सहैकादेशे परादित्वेनाबन्तत्वमाश्रित्य सुलोपवर्णनस्य भाष्यकृदुक्तस्यासङ्गतेश्च। किञ्च सर्व्वस्याम् इत्यत्र 'सर्वनाम्नः स्याडि'ति आपो विधीयमान ह्रस्वानापत्तेश्च। यत्तु शेखरे एकादेशस्य [5]पूर्वान्तवत्त्वेन ग्रहणादिति प्रतीकस्थं न चैवमप्याबन्तत्वाभावः। एकादेशनिष्पन्नस्याप्त्वाभावादिति ग्रन्थमनूद्य सुड्विधायके आपो निमित्तत्वाभावेनायं विचारश्चिन्त्य इति दूषणमभिदधुस्तत्तुच्छम्। मूलस्य व्याख्यानस्य चाशयानवबोधात्। तथाहि। 'सर्व्वनाम्नः स्याडि'त्यत्र सर्वनामत्वमाश्रितं सुड्विधायके च। तत्र देहलीदीपन्यायेन एकादेशस्येत्यस्य ग्रन्थस्योभयात्रान्वयः। इदमेव स्फोटयितुमेतदनन्तरं शङ्का। यद्यपि पूर्वसूत्रे एव न चैवमिति शङ्कोचिता तथापि आप्त्वे परादिवत्त्वेन पूर्वसूत्रे बोधितेऽपि न तावता सूत्रार्थस्य निराकाङ्क्षता सर्व्वनामत्वस्यापेक्षणात्। तथापि वक्तव्ये मूलासङ्गते:। एवञ्च मूलकृता सार्वनामत्वांशे समाधानं कृतमेव। तदुत्तरान्यांशे स्वेनाशङ्क्य समाधानं परादिवद्भावेनाप्त्वमुक्तम्। तथा च न चैवमित्येव शब्दस्य सर्व्वस्यै इत्यादौ पूर्व्वान्तत्वेन सर्वनामत्वातिदेशेऽपीत्यर्थ इत्यलमन्यथा दूषकादूषणेन प्रकृतानुसरणिप्रतिरोधकेन। न च सूत्रोपात्तवर्णबोध्यो वर्णमात्रवृत्तिधर्मस्तदनतिदेश इति तदर्थ इति वाच्यम्। धर्मिग्राहकमानविरोधात्। तत्र हि ह्रस्वपदेन तस्य बोध्यत्वात्। तस्मादोत्सूत्रादिस्थभाष्यमसङ्गतमेवेति चेन्न। तस्य रूपं तद्रूपं। तद्रूपस्य भावः ताद्रूप्यम्। तस्यानतिदेशादित्यर्थेनादोषात्। एकादेशस्य अन्याद्यन्तवर्णवृत्तिरूपानतिदेश इति यावत्। रूपं चानवयवसंस्थानमेव। अत एव अन्तादिवत्सूत्रेनेह ताद्रूप्यमतिदिश्यते इति भगवतोक्तम्। कैयटेन च कार्य्यमात्रमनेनातिदिश्यते न तु रूपमित्युक्तम्। वर्णमात्रवृत्तिधर्म्मानतिदेशादित्यर्थः तु फलितार्थकथनपर इत्यवधेयम्। मात्रनिवेशोऽप्यार्थिकवर्णवृत्तिरूपस्यार्थाद्वर्णमात्रवृत्तित्वात्। अग्नीत्यादावादिवद्भावेन द्विवचनत्वस्य प्रगृह्यसंज्ञायामन्यथैवसिद्धेः नहि द्विवचनत्वादिकं स्थानिरूपम्। एवञ्चाङ्त्वोञ्त्वादेः स्थान्यल्वृत्तित्वेऽपि तस्य न स्थानिरूपत्वमिति तदतिदेशो निर्ब्बाध इति सङ्क्षेप इति दिक्॥११४॥
[1]अनिर्देश इति गे
[2]चकाराद्युत एङ्त्वादिकमेव इति गे
[3] तस्यान्त्यवर्णमात्रवृत्तिलक्षितत्त्वादिकं वक्तव्यं च, स्थान्यल्मात्रवृत्त्येव। न चाकाराद्युञ् एङ्त्वादिकमेव तत्त्वम् इति गे
[4]ओदिति सूत्रे इति छे।
[5]पूर्वान्तत्वेन इति गे