Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्

ननु 'देवदत्तश्चिकीर्षति' इत्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वाद्यापत्तिरत आह -

प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्।२३।

'यस्मात्प्रत्ययविधिरि'ति सूत्रे 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यय' इति योगो विभज्यते। गृह्यमाण उपतिष्ठत इति शेषः। तेन तदाद्यन्तांशः सिद्धः। तदन्तांशस्तु 'येन विधिरि'त्यनेन सिद्धः। स च शब्दरूपं विशेष्यमादाय विशेष्यान्तरासत्त्वे। यत्तु प्रत्ययेन स्वप्रकृत्यवयवकसमुदायाक्षेपात् तद्विशेषपरत्वेन तदन्तविधिरिति। तन्न, ‘इयानि’त्यादौ तस्य तादृशसमुदायेन व्यभिचारेणाक्षेपासम्भवात्। यत्र प्रत्ययो निमित्तत्वेनाश्रीयते, तत्र तदादीत्यन्तांशमात्रोपस्थितिरिति 'अङ्गस्ये'ति सूत्रे भाष्यकैयटयोः। एवं यत्रापि पञ्चम्यन्तात्परः प्रत्यय आश्रीयते तत्रापि तदादीत्यन्तांशोपस्थितिः, परन्तु तत्र पञ्चम्यन्तता। अत एव 'एङ्ह्रस्वादि'ति सूत्रे एङन्तादित्यर्थलाभः। अस्याः परिभाषायाः प्रयोजनान्तरं 'येन विधिरि'त्यत्र भाष्य उक्तम्। परमगार्ग्यायण इति। परमगार्ग्यस्यापत्यमिति विग्रहेऽपि गार्ग्यशब्दादेव प्रत्ययो न विशिष्टात्। निष्कृष्य तावन्मात्रेणैकार्थीभावाभावेऽपि वृत्तिर्भवत्येव। अत्र चेदं भाष्यमेव मानमित्यन्यत्र विस्तरः। प्रत्ययमात्रग्रहणे एषा, न तु प्रत्ययाप्रत्ययग्रहण इति। 'उगितश्चे'ति सूत्रे भाष्ये। इयमङ्गसंज्ञासूत्रे भाष्ये स्पष्टा॥२३॥

 

कामाख्या

प्रसङ्गादाह नन्वितिदेवदत्तेति। सति धातुत्वे 'सुपो धात्वि'ति लुगापत्तिः। न चात्र प्रातिपदिकसाहचर्याद्धातुसंज्ञाप्रयोजकस्यैव सुपो ग्रहणेन वृत्तिप्रयोजकसुपोग्रहणेन वा प्रकृते तथात्वाभावेन न दोष इति वाच्यम्। एतत्परिभाषाऽभावे देवदत्तो गार्ग्येति तद्धितान्तस्य प्रातिपदिकत्वे तत्र च सुपः प्रातिपदिकसंज्ञाप्रयोजकत्वाभावेन वृत्त्यप्रयोजकत्वेन च साहचर्यस्य दौर्लभ्यम्। न चात्र समासग्रहणकृतनियमेन वारणमिति वाच्यम्। परिभाषाऽभावे समासग्रहणस्य नियमार्थत्वायोगात्। किञ्च सति धातुत्वे धातोरन्त उदात्त इत्यस्योदात्तत्वे शेषनिघातापत्तिः। न च क्यचश्चित्वेनात्र औपदेशिकधातोरेव ग्रहणम् अन्यथा पुत्रीयतीत्यत्र धातुत्वादेवान्तोदात्तत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेवेति वाच्यम्। 'न क्येः' इत्यत्र क्यङ्क्यषोर्ग्रहणसिद्धये क्यचश्चित्वस्य सार्थक्यात्, अन्यथा निरनुबन्धकपरिभाषया अस्यैव ग्रहणं स्यात्। किञ्च विशिष्टस्य धातुत्वे 'सन्यङो'रित्यनेन दे इत्यस्य र्द्वित्वापत्तिः अडागमापत्तिश्च स्यादत आह प्रत्ययग्रहण इत्यादि। प्रत्ययग्रहणशास्त्रे यस्मात् प्रकृतिरूपात् स प्रत्ययो विहितस्तत्र तदादिपदोपस्थित्या तदन्तविधिरिति परिभाषार्थः। प्रत्ययग्रहणे इत्यस्य प्रत्ययवृत्तिधर्मावच्छिन्नोद्देश्यकग्रहणे इत्यर्थः। 'इको यणची'त्यादावपि इक्पदस्य क्वचित्प्रत्ययस्य दर्शनात् तत्रापि तदादिपदोपस्थित्या 'ल्वादिभ्यः' इत्यादिनिर्देशासङ्गतिः, प्रत्ययमात्रवृत्तिधर्मावच्छिन्नोद्देश्यताकग्रहणे इत्यर्थे षणु दाने इति धातावपि सन्त्वस्य प्रत्ययमात्रवृत्तिधर्मत्वाभावेन परिभाषाया अप्रवृत्तेः। अत्र केचित् प्रत्ययत्वव्याप्यशाब्दबोधीयविषयताप्रयोजकपदग्रहणे इत्यर्थे सनाद्यन्ता इत्यत्र परस्परसाहचर्येण सन्पदप्रयोज्य शाब्दीयविषयतायाः प्रत्ययत्वव्याप्यत्वेन न दोषः। न च प्रतिषिषतीत्यत्र 'अच्झने'ति दीर्घमाशङ्क्य सनः प्रत्ययत्वाभावादिति शेखरविरोध इति वाच्यम्। अङ्गसंज्ञाप्रयोजकप्रत्ययत्वाभावादित्याशयवर्णनेन अविरोधात्, अङ्गत्वं हि प्रत्ययविशिष्टत्वम्। वै. स्वनिरूपितोद्देश्यताश्रयत्व स्वाव्यवहितपूर्वत्वोभयसम्बन्धेनेति प्राहुः। विशेष्यान्तरासत्त्व इति। यदि विशेष्यान्तरसत्त्वेऽपि। तदादिविशेष्यकतदन्तविधिर्भवेत्तर्हि 'ष्यङः संप्रसारण'मित्यत्र द्वितदन्तविधौ ष्यङन्ततदाद्यन्तपूर्वपदस्येत्यर्थेऽतिकारीषगन्ध्यापत्तिरित्यादावपि संप्रसारणापत्तिः। क्वचित् विशेष्यान्तरसत्त्वेऽपि तदादिविशेष्यकतदन्तविधिः सामर्थाल्लक्ष्यानुरोधाच्च। अत एव 'नित्यं समासेऽनुत्तरपदस्थस्ये'ति सूत्रे समासेन पूर्वपदाक्षेपे तद्विशेष्यकतदन्तविधौ इसुसन्ततदाद्यन्तपूर्वपदस्येत्यर्थे परमसर्पिः कुण्डिकेत्यत्र प्राप्तषत्ववारणायानुत्तरपदग्रहणं सार्थकम्। 'वनो र चे'त्यत्र प्रातिपदिकविशेष्यकतदन्तविधौ अतिधीवरीत्यादि सिद्धिः 'हल्ङ्यादि'सूत्रे ङ्याबंशे द्वितदन्तविधौ बहुश्रेयसीत्यत्र सुलोपसिद्धिः। यत्तु प्रत्ययेनेति। प्रत्ययस्वप्रकृत्यवयवयकसमुदायविशिष्टः प्रत्ययत्वात् रामाभ्यामित्यादिघटकभ्याम्वत् इत्यनुमानरूपाक्षेपेणोपस्थितस्य तादृशसमुदायस्य प्रत्ययेन विशेषणात्तदन्तविधौ प्रत्ययान्तः स्वप्रकृत्यवयवकसमुदाय इत्यर्थेनैव सिद्धौ परिभाषावृथेति तदाशयः। अत्रेदं विचार्यते देवदत्तश्चिकीर्षेति समुदायस्य प्रत्ययान्तत्वेन तत्प्रकृत्यवयवकत्वेन च धातुत्वापत्तेर्दुर्वारत्वात्। न च स्वप्रकृत्याद्यवयवकसमुदायस्य ग्रहणान्न दोष इति वाच्यम्। बहुपटव इत्यादौ व्यभिचारात्। न च हेतुभूतप्रत्ययपदेन परत्वावच्छिन्नविधेयताश्रयस्यैव ग्रहणान्नबहुचिव्यभिचार इति वाच्यम्। श्नमि हेतोः सत्वेन साध्यव्यभिचारस्य दुर्वारत्वात् । यदि च रुणद्धीत्यादौ अपर्याप्त्या प्रकृतित्वं रूशब्देऽस्त्येवेति न दोष इत्याग्रहश्चेत्तर्हि इयानित्यादौ तादृशसमुदायाभावेन व्यभिचारस्य दुर्वारत्वात्। ननु 'सुपि चे'त्यादौ तदादितदन्तोपस्थितौ रामाभ्यामित्यादि न सिध्येदित्यत आह यत्र प्रत्यय इत्यादि। लक्ष्यानुरोधात् कष्टायेत्यादि निर्देशाच्चेति भावः। इदमत्र तत्वम्यत्र पञ्चम्यन्तात् परः प्रत्यय आश्रीयते तत्र प्रत्ययग्रहणे चापञ्चम्या इति तदन्तविधेर्निषेधात्तदाद्यंशमात्रमुपतिष्ठते परन्तु तत्र पञ्चम्यन्तता। यत्र तु प्रत्यय सप्तम्यन्तत्वेनोपादीयते तत्र कस्मात्पर इत्यवध्याकाङ्क्षायां पूर्वत्वेनाभिमतस्य पञ्चम्यन्ततयोपस्थित्या तत्रापि प्रत्ययस्य पञ्चम्यन्तात्परत्वेन निषेधः सिद्ध इति। प्रयोजनान्तरमिति। ननु करिष्यमाणवृत्यारब्धकसमुदायघटकपदप्रयोज्यप्रकारतानिरूपितविशेष्यत्वप्रयोजकात् समर्थाद्यञन्ततदादेः फगिति। 'यञिञोश्चे'त्यस्यार्थे परमगार्ग्यशब्दैकदेशगार्ग्यशब्दात् कथं प्रत्यय इत्यत आह निष्कृष्येति। परं शब्दं परित्यज्य। तावन्मात्रेणेति। गार्ग्य इत्येतन्मात्रेण एकार्थीभावाभावेऽपि वृत्तिर्भवत्येव। तदादिविधिप्रयोजनकथनपरभाष्यप्रामाण्यात्। 'तद्धितार्थोत्तरपदसमाहारे चे'त्यत्र उत्तरपदग्रहणाच्च अपर्याप्तैकार्थीभावेऽपि वृत्तिर्भवतीति कल्पनात्। अत एव शिवस्य भगवतो भक्तः शिवभागवत इति भाष्यप्रयोगः संगच्छते। न चैवं राजपुरुषस्यापत्यमित्यर्थे राजपौरुषिरिति स्यादिति वाच्यम्। उक्तभाष्यप्रामाण्यात् प्रत्ययान्तत्वव्याप्यधर्मावच्छिन्नोद्देश्यताकतद्धित एकदेशादपि भवतीति कल्पनेनादोषात्। शिवभागवत इति भाष्यप्रयोगादेव समर्थनीयः। तथा च भाष्यप्रयोगाच्छिष्टप्रयोगाद्वा तथाकल्पनेऽपि अन्यत्र तथाकल्पने मानाभावादिति तत्त्वम् ॥२३॥

परिभाषार्थमञ्जरी

आक्षेपासम्भवादिति। यत्वत्र कैयटानुयायिनः प्रक्रियाज्ञानवतां व्यभिचाराभावादिति कैयटाशयवर्णनमूचुस्तच्चिन्त्यम्। प्रक्रियाज्ञानवतां तादृशसमुदाये संज्ञाप्रवृत्तिज्ञानस्यापि संभवेनात्र[1] तद्बुद्धौ संज्ञाप्रवृत्तेः पुनर्व्यर्थतैव स्यात्। न च कार्य्यकालपक्षे इदमिति वाच्यम्। तावतापि शब्दानुशासनप्रस्तावादन्तरङ्गोपस्थितशब्दरूपं विशेष्यमादाय[2] तदन्तविधेरुचितत्वात्। अत एव 'येन विधि'रिति सूत्रे इह कस्मान्न भवति। 'इको यणची'ति भाष्यमुपादाय शब्दानुशासनप्रस्तावाच्छब्दरूपमिका विशेष्यत इति त्वदीयकैयट ग्रन्थश्च संगच्छते। ननु 'सुपि चे'त्यादौ सुपीति प्रत्ययसत्वेन तदन्तविधौ, तदन्ते कार्य्यं स्यादत आह – यत्रेति। सुबन्ते परतोऽङ्गसंज्ञाया बाधात्तत्र तदन्तग्रहणं नेति भावः। एङन्तादित्यर्थ इतीति। एङन्तं ह᳙स्वान्तं यत्तदादिः ततः परस्य लोप इत्यर्थेन अतिकतरदित्यत्र न लोप इति भावः। अनुत्पत्त्यभावेनाङ्गाक्षेपस्तु नेत्यन्यत्र विस्तरः। इत्यन्यत्र विस्तर इति। उद्योते शेखरादौचेत्यर्थः। कैयटानुयायिनस्तु कैयटोक्तं प्रकारं स्थापयन्तः प्रकृतपरिभाषाप्रयोजनं तु यदीयं न स्यात् तदा परमगार्ग्यशब्दादपि फक् स्यादित्येतावता न्यायव्युत्पादनार्थं तु परमगार्ग्यायण इत्येतदुपात्तमित्याहुस्तत्तुच्छम्।

गिरिं कुबेरस्य गतोपधाय वा सभां गतो वा वरुणस्य राज्ञः।

असंशयं दाशरथैर्न मोक्ष्यसे महाद्रुमः कालहतोशनेरिव।।[3]

इति न्यायेन युक्तिशतैरपि परिभाषाप्रयोजन[4]प्रतिपादकभाष्यविरोधस्य त्वया परिहर्त्तुमशक्यत्वेन लघुभाण्डस्थचणकबद्धमर्कटपुष्टितुल्यत्वपातात्॥२३॥

[1]संभवेन नात्र इति के

[2]भाष्यमादाय के, गे

[3]श्रीमद्बालमीकीये रामायणे सुन्दरकाण्डे एकविंशे सर्गे ३५तमः श्लोकः।'महाद्रुमः कालहतोशनेरिव' इत्यंशरहितः टीकायाम्।

[4]प्रयोजनता इति गे