Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्

॥अथ शास्त्रशेषनामकं तृतीयप्रकरणम्॥

ननु 'अतः कृकमी'ति सत्वम् 'अयस्कुम्भी'त्यत्र न स्यात्, कुम्भशब्दस्यैवोपादानादत आह –

प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्।७२।

सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम्। अपिना केवलस्यापीत्यर्थः।
अस्याश्च ज्ञापकं समानाधिकरणाधिकारस्थे 'कुमारः श्रमणादिभिरि'ति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः। स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यैव सामानाधिकरण्यं न तु कुमारशब्दस्येति तदेतज्ज्ञापकम्। इयं च 'द्विषत्परयो'रित्याद्युपपदविधौ, समासान्तविधौ, महदात्त्वे, ञ्नित्स्वरे राजस्वरे ब्राह्मणकुमारयोः, 'बहोर्नञ्वदुत्तरपदभूम्नि' इत्यादौ समाससङ्गातग्रहणेषु च न प्रवर्तत इति 'ङ्याप्'सूत्रे भाष्ये स्पष्टम्। विभक्तिनिमित्तककार्ये च नेत्यपि तत्रैव। तत्र समासान्तविधाववयवग्रहण एव न, समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र दोषोक्तः। 'बहुव्रीहेरूधसः'इति सूत्रस्थभाष्याच्च। एतावत्सु एवानित्यत्वादप्रवृत्तिः, दोषाः खल्वपि साकल्येन परिगणिता इति भाष्योक्तेः। नन्वेवं 'बहुव्रीहेरूधसो ङीष्' इति सूत्रस्थभाष्यासङ्गतिः। तत्र हि कुण्डोध्नीत्यत्र 'नद्यृतश्च' इति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात्। नद्यन्तस्य बहुव्रीहित्वाभावात्तदसङ्गतिः। नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्। नद्यन्तप्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्, न। अनया परिभाषया स्त्रीप्रत्ययसमभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्वतद्व्याप्यधर्माणां विशिष्टेऽपि पर्याप्तत्वमतिदिश्यत इत्याशयात्॥७२॥

 

कामाख्या

ननु 'अतः कृकमी'ति सूत्रे कुम्भरूपोत्तरपदे विसर्गस्य सत्वमित्यर्थे अयसः कुम्भीति समासे कुम्भरूपोत्तरपदत्वाभावात् कथं सत्वमित्याशङ्कायां परिभाषामवतारयति नन्वतइति। केचित्तु कुम्भादावुत्तरपदे इत्यर्थान्न दोष इति वदन्ति। तदसत्। धातुग्रहणे तदादिविधेः स्वीकारेऽपि अन्यत्र तदभावेनोक्तार्थालाभात्। केचित्तु एकदेशविकृतनयायेन भान्ते कुम्भशब्दत्वमानीयावतरणं खण्डयन्ति। ते मान्याः। तस्योत्तरपदत्वाभावेन सूत्राप्रवृत्तेः। कुम्भश्च कुम्भी चेत्येकशेषेण तु न निर्वाहः शब्दपरत्वेनैकशेषऽसंभवात्। ननु प्रातिपदिकग्रहणे प्रातिपदिकबोधकपदे उच्चारिते सति प्रत्यासत्त्या तेनैव पदेन लिङ्गबोधकप्रत्ययविशिष्टस्य ग्रहणं भवतीत्यर्थे 'अत इञि'त्यादावत्पदस्यापि अदन्तप्रातिपदिकबोधकत्वेन रमागौरीत्यादि लिङ्गविशिष्टबोधकत्वापत्तिरत आह सामान्यरूपेणेत्यादि। प्रातिपदिकत्व तद्व्यप्यानुपूर्वीप्रकारेण बोधके सतीत्यर्थः। अत्पदं चादन्तत्वप्रकारेण बोधकं तच्च न प्रातिपदिकत्वरूपन्न वा तद्व्याप्यं चेति न दोषः। न चैवं कुमारत्वस्य कुमारक्रीडायामिति धातावपि सत्वेन प्रातिपदिकत्वव्याप्यत्वाभावाज्ज्ञापकांसंभव इति वाच्यम्। प्रातिपदिकत्वव्याप्यशाब्दबोधीयविषयताप्रयोजकस्यैव ग्रहणेनादोषात्। कुमारप्रकृतिकसुबन्तस्यैव समासबोधनेन तत्रत्य कुमारपदप्रयोज्यविषयतायां प्रातिपदिकत्वव्याप्यत्वात्। न चैवमपि 'अत इञि'त्यत्र प्रातिपदिकाधिकराददन्तत्वावच्छिन्नशाब्दीयविषयताया अपि प्रातिपदिकत्वव्याप्यत्वेनोक्तदोषः स्यादेवेति वाच्यम्। प्रातिपदिकत्वावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताभिन्नविषयताप्रयोजकत्वस्यैव ग्रहणेनादोषात्। प्रकृते चादन्तत्वावच्छिन्नविषयतायास्तादृशप्रकारताभिन्नत्वाभावात्। प्रत्ययविशिष्टस्यापीति। वै. स्वघटित्व स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयघटितत्व स्वविशिष्टाघटितत्व त्रितयसम्बन्धेन। अत्र वै. स्वाघटकत्व स्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयाघटकत्वोभयसम्बन्धेन। लक्षणकृत्य स्वयमूहनीयम्। इयं चानित्यत्वाद्यत्र न प्रवर्तते तानि परिगणयति द्विषत्परयोरित्यादि। तेन द्विषतीताप इत्यत्र न खश्। समासान्तविधावप्रवृत्त्या मद्रराज्ञीत्यत्र 'राजाह' इति टच् न। महदात्वेऽप्रवृत्त्या महती प्रिया यस्य स महतीप्रिय इत्यत्र 'आन्महत' इत्यात्वं न। ञ्नित्स्वरेऽप्रवृत्त्या दाक्षिरित्यत्रेव दाक्षीत्यत्र 'ञ्नित्यादिर्नित्यमि'ति स्वरो न। राज्ञः स्वरे ब्राह्मणकुमारयोरिति। ब्राह्मणकुमारशब्दयोः परयो राजन्शब्दस्य विधीयमानः पूर्वपदप्रकृतिस्वरः राजब्राह्मणी राजकुमारीत्यत्र न। 'बहोर्न्नञ्वदुत्तरपदभूम्नी'त्यादौ समाससंघातग्रहणेषु चेति।

अयं भावः - उत्तरपदार्थगतबहुत्वे वर्तमानात् पूर्वपदभूतबहुशब्दात्परं यदुत्तरपदं तदन्ते बहुव्रीहौ नञ्वत् स्वरो भवतीत्यर्थकेन योऽतिदेशः स, यथा बहवो गोमन्तोऽस्मिन् बहुगोमानित्यत्र भवति, तथा बहवो गोमन्तोऽस्यां बहुगोमतीत्यत्र नेति। समान्यतः समाससंघातग्रहणेऽपि प्रवर्तत एव। अत एव बहुव्रीहेरुधस इति सूत्रस्थवक्ष्यमाणभाष्यविरोधो नेति सर्वं मूले स्पष्टम्। समासान्तविधावप्रवृत्तिरपि समासावयवे राजादावेव समाससंघातग्रहणे समासान्तविधावपि प्रवृत्तिस्त्विष्टैव। अत एव 'बहुव्रीहेरुधस' इति सूत्रे भाष्ये कुण्डोध्नीत्यत्र ङीषन्तेऽनया बहुव्रीहित्वमानीय कबापादितः। अतिशयितो भ्राता यस्याः साऽतिभ्रात्रीत्यत्र ङ्यन्तेऽनया ऋदन्तोत्तरपदकबहुव्रीहित्वमानीय प्राप्तस्य कपः अनयैव पूजितार्थकभ्रातृशब्दान्तबहुव्रीहित्वमानीय 'वन्दिते भ्रातु'रिति निषेधः कृतश्चसंगच्छते। अत्रत्य मान्यानां प्रयोगपरिपाटी नास्मद्बुद्धिगोचरतां गच्छतीति। किन्तत्राधिकप्रयासेन। ननु लिङ्गबोधकप्रत्ययविशिष्टे आनुपूर्वीरूपाणां प्रातिपदिकत्वरूपसामान्यस्य वातिदेशाद्बहुव्रीहित्वस्यातथात्वेन 'बहुव्रीहेरुधस' इति सूत्रस्य भाष्यासंगतिरिति शङ्कते। नन्वेवमितिप्रातिपदिकत्वतद्व्याप्यानामिति। अत्रत्यविचारः पूर्वोक्तदिशाऽवसेयः। मान्यास्तु अत्रातिदिश्यत इति प्रतीकमुपादाय स्वविशिष्टे स्ववृत्तीनां वर्णत्वव्याप्यधर्माघटितधर्माणामारोपोऽनया बोध्यते। वै. स्वनिष्ठाद्यवयवतानिरूपकत्व स्वविशिष्टोद्देश्यतानिरूपितविधेयताश्रयीभूतलिङ्गबोधकप्रत्ययनिष्ठचरमावयवतानिरूपकत्वोभयसम्बन्धेन। अत्र वै. स्वपर्याप्तत्व स्वघटितपर्याप्तत्वान्यतरसम्बन्धेन। यथा कुमारशब्दविशिष्टः कुमारीशब्दस्तत्र स्वं कुमारशब्दस्तदाद्यवयवकत्वस्येत्यादि सत्वेन स्ववृत्तिकुमारत्वस्यारोपेण सूत्रस्थकुमारीपदेन कुमारीशब्दस्य कुमारशब्दस्य च लक्षणां विनैव बोधोपपत्तिरित्याद्याहुरिति दिक्॥७२॥

परिभाषार्थमञ्जरी

द्विषत्परयोरितिद्विषन्तप इत्यत्र खश् द्विषंतीताप इत्यत्र नेत्यु‌दाहरणम्। समासान्तविधाविति। तदुदाहरणन्तु 'राजाहः सखिभ्यष्टच्' इति टच्। यथा मद्रराज इत्यत्र भवति। एवं मद्राज्ञीत्यत्रापि नेति[1] बोध्यम्। महदात्वे इति। 'आन्महतः समानाधिकरणजातीययो'रित्यात्वं महाब्रह्मणे भवति। न महती ब्राह्मणीत्यादौ परत्वात् पुंवत्वं बाधित्वा आत्वमिति ध्येयम्। ञिनत्स्वरविधाविति। दाक्षिरित्यादाविव दक्षीत्यत्र न 'ञ्नित्यादिर्नित्यमि'त्यस्य प्रवृत्तिः। राजस्वर इति। आर्यो ब्राह्मणकुमारयोरित्यतो ब्राह्मणकुमारयोरित्यनुवर्त्तमाने तयोः परतो राजन्शब्द: कर्म्मधारये वा प्रकृत्येति प्रकृतिस्वरविधायकराजा चेति सूत्रेण यथा राजा ब्राह्मण इत्यादौ प्रकृतिस्वरस्तथा राजा ब्राह्मणीत्यत्रापि प्राप्नोति। बहोर्नञ्वदुत्तरेपदेति। उत्तरपदे बहुत्वे वर्तमानाद्बहुशब्दात्परं पदन्तस्य समासस्य नञ् इव स्वरो भवतीत्यतिदेशार्थः। एवञ्च बहवो गोमन्तोऽस्य बहुगोमानित्यत्र यथाऽतिदिष्टस्वरो 'नञ्सुभ्यामि'ति समासस्यान्तोदात्तत्वं भवति। एवं बहुगोमतीत्यत्रापि प्राप्नोति। इदं च समाससंघातग्रहणे चेत्यनेन समानाधिकरणमेकवचनान्तपाठश्च। समाससंघातग्रहणे चेति। पूर्व्वोक्तमेवोदाहरणं प्रत्युदाहरणन्तु 'कुसूलकूपकुम्भशालं बिले' इति बिले परत: कुसूलादीनामन्तोदात्तत्वं कुसुलीबिले भवतीति। विभक्तिनिमित्तकार्य्ये इति। 'उगिदचामि'ति नुम् गोमानित्यत्र भवति। न भवति गोमतीत्यत्रेति बोध्यम्। अवयवग्रहण एवेति। उदाहरणं तु पूर्वोक्तं राजाहः सखिभ्य इति बोध्यम्। समाससंघातग्रहणे त्विति। शेषाद्विभाषेति महायशस्कादाविव बहुमालाके प्रवर्तत इत्याशयः। स्वरविधावेवेति। प्रत्युदाहरणमाह बहुव्रीहेरिति। इदं सर्वं तत्र सूत्रे विशिष्य तत्सूत्राणां भाष्ये [2]उपादानादनुमीयत इति ध्येयम्। यत्तु एकादेशस्य पूर्व्वान्तत्वेन ग्रहणाद् 'आमि सर्व्वनाम्नः सुडि'ति कौमुदीप्रतीकमुपादाय न चैवमप्याबन्तत्वाभाव इति शेखरे शङ्कितम्। तत्राबन्तत्वस्यानुपादानात् चिन्त्यमित्याहुः। कैयटानुयायिनस्तदेव चिन्त्यम्। ग्रन्थाशयानवबोधात्। तथाहि न चैवमित्येवादिशब्दस्य पूर्व्वन्तवदभावेन सर्व्वनामत्वेऽपीत्यर्थ:। आबन्तत्वाभाव इति अस्य सिंहावलोकनन्यायेन सर्व्वनाम्न इति स्याड्विषये इत्यर्थः। न च तत्सूत्रव्याख्यानावसरे[3] शङ्कोचितेति वाच्यम्। तत्राबन्तत्वांशे समाधानेऽपि सर्व्वनामत्वांशेऽपि समाधानं कर्त्तव्यं स्यात्। मूलकृतैवैकांशे समाधानस्य कृतत्वात्। अपरांशे स्वेन समाधानकरणात्॥७२॥

[1]प्राप्नोति इति गे

[2]उपपादनात् इति गे

[3]व्याख्यावसरे इति गे