Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

बहुव्रीहौ तद्गुणसंविज्ञानमपि


बहुव्रीहौ तद्गुणसंविज्ञानमपि।७८।

अपिनाऽतद्गुणसंविज्ञानम्। तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेष्यान्वयित्वमिति तदर्थः। यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थस्तत्र प्रायस्तद्गुणसंविज्ञानम्, अन्यत्र प्रायोऽन्यत्। 'लम्बकर्णचित्रगू' उदाहरणे 'सर्वादीनि' 'जक्षित्यादयः' इति चोदाहरणे सर्वनामसंज्ञासूत्रे भाष्ये स्पष्टा॥७८॥

 


कामाख्या

'उगिदचा'मित्यत्र बहुव्रीहिनिर्देशाद्बहुव्रीहिप्रसंगेनाह बहुव्रीहाविति। तेषामित्यादिना वाक्यार्थं प्रदर्श्य उभयोर्विभक्तविषये प्रवृत्तिर्दशिता। अवयवपदार्थानामिति। बहुव्रीह्यवयवपदार्थानाम्। विशेष्यान्वयित्वम्। समासार्थस्य यो विशेष्यस्तदन्वयित्वम्। समवायेति। संयोगस्याप्युपलक्षणम्। लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यादौ तथा दर्शनात्। लम्बकर्णो भोज्यताम्। चित्रवासा बोध्यतामित्यादौ तथाऽदर्शनेन प्राय इत्युक्तम्। अन्यत्र। समवायसंयोगान्यसम्बन्धेनान्यपदार्थस्यावयवार्थेन सम्बन्धित्वे। तरुणवत्सां गां ददाति, दृढसेनो राजा युध्यत इत्यादौ जन्यजनकभावस्वस्वामिभावसम्बन्धेऽपि तद्गुणसंविज्ञानमेव दर्शनात् प्राय इत्युक्तम्। लौकिकोदाहरणमुक्त्वा सौत्रमुदहरति। सर्वादीति। अत्रादि शब्दस्यावयववाचित्वात् समवायः। 'जक्षित्यादय' इत्यत्रादिशब्दस्य पूर्ववाचित्वान्निरूप्यनिरूपकभावः सम्बन्ध इति दिक्॥७८॥

नास्ति