Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य


ननु 'गातिस्थाघुपाभूभ्यः' इति सिचो लुक् 'अपासीदि'त्यादौ पातेरपि स्यादत आह

लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य।९१।

अस्याश्च ज्ञापकः 'स्वरतिसूती'ति सूत्रे सुङिति वक्तव्ये सूतिसूयत्योः पृथङ्निर्देश इति कैयटः। तन्न, साहचर्यादलुग्विकरणस्यैव ग्रहणे प्राप्ते पृथङ्निर्देशस्य तज्ज्ञापकत्वासम्भवात्। ध्वनिता चेयं परिभाषा 'यस्य विभाषा' इत्यत्र भाष्ये। तत्र हि विदित इति प्रयोगे निषेधमाशङ्क्य 'यदुपाधेर्विभाषा तदुपाधेर्निषेधो 'विभाषा गमहनविदविशाम्' इति सत्रे शविकरणस्य ग्रहणं लुग्विकरणश्चायमि'त्युक्तम्। तत्र चो हेतौ। यतोऽयं लुग्विकरणोऽतो विशिसाहचर्याच्छविकरणस्य ग्रहणं न तु हनिसाहचर्यादस्याप्येतत्परिभाषाविरोधादिति तदाशयः। अत एव परिभाषायां लुग्विकरणस्यैवेति नोक्तम्। कण्ठतस्तु भाष्ये एषा क्वापि न पठिता। 'गातिस्था' इति सूत्रे पिबतेर्ग्रहणं कर्त्तव्यमिति वार्तिककृता सर्वत्रैव पाग्रहणेऽलुग्विकरणस्य ग्रहणमिति भाष्यकृता चोक्तम्। 'स्वरतिसूति' इति सूत्र कैयटेन च स्पष्टमुक्तम्॥९१॥

 


कामाख्या

लुग्विकरणेति। अत्रालुग्विकरणस्येति सावधारणमलुग्विकरणस्यैवेत्यर्थः। कैयटइति। न च स्वरतिसाहचर्यादलुग्विकरणस्यैव ग्रहणं स्यादित्युभयोर्ग्रहणार्थं पृथगुपादानं सार्थकमिति वाच्यम्। स्वरतिधूञूदित्सुङो वेत्येव सिद्धे पृथङ्निर्देशस्य ज्ञापकत्वं संभवात्। न चैवमपि 'लुग्विकरणालुग्विकरणयोर्लुग्विकरणस्यैवे'त्येव कस्मान्न कल्प्यत इति वाच्यम्। 'यस्य विभाषे'ति सूत्रभाष्यानुसारेण तथा कल्पनात्। साहचर्यात्। पूर्वोत्तरसाहचर्यात्। ननु यदीयं न ज्ञापकसाध्या तर्हि निर्मूला स्यादत आह ध्वनितेतिविदितइति। वेत्तेरिदं रूपम्। दिवादितुदादिरुधादिपठितानामनुदात्तेत्वादेव निषेधसिद्धेः। यदुपाधेः। उपाधिपदं विशेषणं परम्। एवं च यदि साहचर्यं व्यवस्थापकं स्यात्तदा हनिसाहचर्यविशिष्टसाहचर्याभ्यामुभयोर्ग्रहणं स्यात्। एतत्परिभाषासत्त्वे तु साहचर्यमात्रं न हेतुः, किन्तु एतत्परिभाषापीति अलुग्विकरणस्य ग्रहणमित्येतद् ध्वनितमिति बोध्यम्। अतएव उक्तभाष्येण ध्वननादेव। अन्यत्सुगममिति॥९१॥

नास्ति।