उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति
एतन्मूलकमेव नवीनाः पठन्ति-
उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति।६५।
यत्त्वभ्यस्तसंज्ञासूत्रे कैयटेन प्रकल्प्य चेति प्रतीकमुपादाय यथा 'न सम्प्रसारणे' इति 'परस्य यणः पूर्वं सम्प्रसारणम्, पूर्वस्य तु तन्निमित्तः प्रतिषेधः' इत्युक्तम्, तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननुगुणम्। यत्तु अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थ इति, तन्न। अभिनिविशतेऽपवादविषयमित्यादिपदस्वारस्यभङ्गापत्तेः। पदजन्यपदार्थोपस्थितौ वाक्यार्थबोधाभावे कारणाभावाच्च। यत्र त्वपवादो निषिद्धस्तत्रापवादविषयेऽप्युत्सर्गः प्रवर्तत एव। यथा वृक्षावित्यत्र 'नादिचि' इति पूर्वसवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धिबाधकत्वाभावाद् वृद्धिः प्रवर्तते। अत एव 'तौ सत्' इत्यादि सङ्गच्छते। अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रेऽनाश्रयणम्। ध्वनितं चेदम् 'इको गुण' इति सूत्रे भाष्य इति भाष्यप्रदीपोद्द्योते निरूपितम्। अत्र देवदत्तस्य हन्तरि हते देवदत्तस्योन्मज्जनं नेति न्यायस्य विषय एव नास्ति। हते देवदत्त उन्मज्जनं न, देवदत्तहननोद्यतस्य हनने तु भवत्येवोन्मज्जनम्। प्रकृतेऽपि न पूर्वसवर्णदीर्घेण वृद्धेर्हननं किन्तु हननोद्यमसजातीयं प्रसक्तिमात्रम्, प्रसक्तस्यैव निषेधात्। प्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम्। स्पष्टं चेदं 'शेषाद्विभाषा' इति सूत्रे भाष्ये। तत्र हि शेषग्रहणमनर्थकं ये प्रतिपदं विधीयन्ते ते बाधका भविष्यन्तीत्याशङ्क्य, 'अनवकाशा विधयो बाधका भवन्ति, समासान्ताश्च कबभावे सावकाशा' इत्युक्तम्। क्वचिदनवकाशत्वाभावेऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयोजकं बलवत्त्वं प्रतिपदविधित्वेनापि। परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे कैयटेन पाठात्। अत एव रमे इत्यादौ प्रतिपदोक्तत्वात् पूर्वमेत्वे आकारप्रश्लेषाद्धल्ङ्यादिलोपो न प्राप्नोतीत्याशङ्क्य 'एङ्ह्रस्वात्' इति लोपेन समाहितम्॥६५॥
कामाख्या
अत एवेति। न्यायद्वयस्य विलक्षणार्थबोधकत्वेऽपि फलतस्तथाऽभावादेव। इत्यर्थकमुक्तमिति। उपसंहारकं वाक्यान्तरमिति शेषः। यदि द्वयोर्न्याययोर्भिन्नार्थतात्पर्यकत्वं स्यात्तर्हि उपसंहारद्वयं कुर्यादिति भावः। एतन्मूलकमिति। उक्तन्यायद्वयफलितार्थमूलकम्।नवीनाः। दीक्षितादयः। दधतीत्येतत् साधनायेति शेषः। उपसंजनिष्यमाणेति। उत्सर्गशास्त्रप्रवृत्त्यभावसंभावनाप्रयोज्यापवादशास्त्रप्रवृत्तिसंभावनाप्रयोज्यापवादशास्त्रवैयर्थ्यसंभावनायां पूर्वमुत्सर्गशास्त्रप्रवृत्तिर्न्नेति परिभाषार्थः। अनेन च भविष्यदपवादविषयातिरिक्तत्वेन संकोचो भवति। तथा च अभ्यस्त्तात् परत्वेन संभावितो यो झस्तदतिरिक्तस्यैव झस्यान्तादेश इति दधतीत्यादौ न दोषः । प्राचीनकल्पितमर्थं निरस्यति यत्विति। तन्मते हि 'प्रकल्प्ये'त्यस्य अपवादविषयकल्पनां कृत्वा उतसर्गशास्त्रं तथा प्रवर्तते यथाऽपवादस्य प्रवृत्तिः स्यादित्यर्थः। इतीति। एतत्सूत्रे बुद्धिस्थे सति। संप्रसारणम्। प्रवर्तत इति शेषः। 'पूर्वं ह्यपवादा' इति न्यायस्य प्राचीनाभिमतार्थं खण्डयति यत्विति। अनाश्रयणमिति। अत्रानाश्रयणमविषयो न तु आश्रयणाभावः। शास्त्रस्यावसरो नाम तदीयोद्देश्यतावच्छेदकाक्रान्तिः। तथा च वृक्ष औ इत्यस्यां दशायां 'वृद्धिरेची'त्येतदुद्देश्यतावच्छेदकाक्रन्तेः सत्वेनावसरभ्रंशाभावात्। देवदत्तस्य हन्तरि हते देवदत्तस्य नोज्जीवनमिति न्यायस्य विषयाभावादप्रवृत्तिमाह अत्रेति। कश्चित् प्रतिपदविधेर्बलवत्वं सामान्येन भवतीत्याह तत्खण्डयति प्रतिपदोक्तत्वमपीति। अन्यत्सर्वं सुगममिति दिक्॥६५॥
परिभाषार्थमञ्जरी
प्रतिपदोक्तमपि निरवकाशसत्वे सत्येवेति। यथा ॠग्भिन्ने स्त्र्यर्थे चरितार्थस्य 'पादोऽन्यतरस्यामि'त्यस्य ऋचि वाच्ये प्राप्तस्य प्रतिपदविधित्वेनापवादत्वात् 'टाबृची'त्यनेन बाधः। एवञ्च सूत्रकारमते ऋग्भिन्ने स्त्र्यर्थे द्विपदी द्विपादिति रूपद्वयम्। ऋचि तु द्विपदेति तृतीयरूपम्। अत एव 'टाबृची'त्यस्यापवादोक्तिः मनोरमोक्ता तत्सूत्रे संगच्छते। भाष्यकारेण तु 'ङ्याप्प्रातिपदिकादि'ति सूत्रे ङ्याब्ग्रहणं किमर्थमित्युपक्रम्य क्रुञ्चेत्यादावेकादेशाभावेनाप्रातिपदिकत्वात् स्वाद्यनुत्पत्तिशङ्कायामकारान्तं क्रुञ्चेत्यङ्गीकृत्य तत्खण्डने कृते इदं तर्हि प्रयोजनं 'पादोऽन्यतरस्याम्' 'टाबृची'त्युक्त्वा तत्रापि पादशब्दसमानार्थकाकारान्तपदशब्दात् टाप्येकादेशस्य पूर्व्वान्तत्वेन ग्रहणात्प्रातिपदिकत्वे स्वाद्युत्पत्तौ सिद्धायां 'टाबृची'ति न कर्त्तव्यमिति सूचितम्। एवञ्च तन्मते सूत्रसत्वे ऋचि ङीपो वारणेऽपि तत्प्रत्याख्याने ऋच्यभिधेयायां ङीपोऽवारणाद्। ऋच्यपि द्विपदीति प्राप्तरूपं फलभेदे प्रत्याख्यानासंभवेनानभिधानाद् वारणीयम्। न च भाष्यानुरोधात् सूत्रकारमतेऽपि पूर्वसूत्रादन्यतरस्यां ग्रहणमनुवर्त्य ऋच्यभिधेयायां ङीबिष्ट इत्येव कुतो न कल्पनेति वाच्यम्। स्वमते ङीबिष्ट इति सूत्रकारेणस्वप्नेऽनुपदेशात्। किञ्च भाष्यानुरोधात् अन्यतरस्यां ग्रहणानुवृत्या सूत्रकारमते ऋचि ङीप्यपि द्विपादित्यस्यापि तन्मतेऽनिष्टस्य तदर्थे आपत्तेश्च तस्यापि तन्मते [1]कल्पनं तु सूत्रकारोपदेशैकगम्यम्। अनभिधानेन दत्तोत्तरत्वात् पूर्व्वसूत्रापवादकत्वे ऋच्यभिधेयायां प्राप्तङीब्बाधनार्थत्वरूपप्रयोजनस्योत्तरसूत्रांशे सत्वेन ङ्याप्सूत्रे 'टाबृची'त्येतत्प्रत्याख्यानमसंगतमित्युक्तिरपि निरस्ता। अन्तादिवत्सूत्रेऽप्यादिवत्वे कानि प्रयोजनानीत्युपक्रम्य उत्तरम् आप् खट्वा माला आबनापोरेकादेश आदिवद्भवति यथा शक्येत कर्त्तुम् आबन्तात्सुलोपो भवति। क्व तर्हि स्याद्यत्रैकादेशो नास्ति। क्रुञ्चा, उष्णिहा, देवविशेति भाष्योक्तहलन्तक्रुञ्च्शब्दप्रसिद्धेः तस्मादापि ततः सुबुत्पत्यर्थं आबधिकारस्यावश्यकत्वेऽकारान्तं क्रुञ्चशब्दमङ्गीकृत्याब्ग्रहणप्रयोजन[2]खण्डनोत्तरमकारान्त-[3]पदमङ्गीकृत्य 'टाबृची'त्यस्यापि खण्डनेन डाबुभाभ्यामित्यंशे आब्ग्रहणप्रयोजनस्थापनपरभाष्यस्यैकदेश्युक्तित्वावश्यकत्वे तन्मध्यपतितैतत्प्रत्याख्यानस्य नान्तरीयकतया तु लाभात्। आब्ग्रहणं किमर्थमिति प्रश्ने कुञ्चेति प्रयोजनकथनं कोऽन्तादिवत् सूत्रानुरोधी सिद्धान्तग्रन्थस्तदुत्तरमकारान्तमङ्गीकृत्य प्रवृत्तग्रन्थस्तु एकदेशिना डाबंशे प्रयोजनप्रतिपादनार्थः[4]। न च क्रुञ्चानालभेतेत्यकारान्तः कण्ठत उच्चारितः। ङ्याब्सूत्रस्थप्रयोगानुपपत्तिः। तदंशे आबधिकारस्याप्रयोजकत्वेऽपि अन्तादिवत्सूत्रस्थ प्रयोगांशे प्रयोजकत्त्वात्। अत्राप्यग्रे लिङ्गविशिष्टपरिभाषया आबधिकारप्रयोजनानामन्यथा साधनस्य तौल्याल्लिङ्गविशिष्टपरिभाषया गतार्थत्वात् सूत्रस्थं भाष्यमेकदेश्युक्तमिति तु न शङ्काकलङ्कलेशोऽपीति दिक्। एतेन वष्टीतिप्रतीकमुपादाय इदं भाष्ये न दृश्यते। निशदिशोरिगुपधलक्षणे केऽदन्तत्वादेव टाप् क्विपि दिगित्यपि अत एव ङ्याप् सूत्रे आब्ग्रहणं न कार्य्यम्। अकारान्तादाप् तत्रान्तवद्भावात्प्रातिपदिकत्वेनैव सिद्धेः यतस्तर्ह्यनकारान्तात् क्रुञ्चा उष्णिहा देवविशेति। अत्रापि अकारान्तादेव क्रुञ्चानालभेत् उष्णिहककुभौ देवविशमित्यन्ते कप्प्रत्यये इत्येवं विषय इत्युक्त्वा बहुराजेति डाबन्तार्थमाब्ग्रहणमिति भाष्योक्तं संगच्छते। तस्माद्वाचेत्यसाध्वेवेति प्राचीनानुसारी अव्ययान्तशेखरः परास्तः। न च 'पादोऽन्यतरस्यामि'त्यस्य वैकल्पिकतया तद्भावे चारितार्थ्येऽपि ऋच्यभिधेयायां प्रतिपदविधित्वेन उत्तरसूत्रस्यापवादत्वाङ्गीकारे 'शेषाद्विभाषा' 'उगवादिभ्यो यदि'ति सूत्रस्थभाष्यविरोधः। तत्रान्त्ये 'उगवादिभ्यो यत्' 'ऋषभोपानहोर्ञ्य' इत्युभौ 'चर्म्मणोऽञ्' इत्यञपेक्षया पूर्व्वविप्रतिषेधेनेति वार्तिकं तत्र शंकव्यं दारु वार्द्धं चर्मेत्यादौ क्रमेण चरितार्थयोर्यदञोः सनङ्गुर्नाम चर्म्मविकारस्तस्मादुभयप्रसङ्गेसनङ्गव्यमिति यत् भवति पूर्व्वविप्रतिषेधेन। एवमौपानह्यः ञ्य चेत्युक्त्वा 'छदिरूपधिबलेर्ढञि'ति ढञापि ञञो बाधे छादिषेयं चर्म्मेत्युक्तम्। एवञ्च 'टाबृची'त्येतद्रीत्या शंकव्यं दारु, उपानह्यं दारु, छादिषेयं तृणमित्यादौ चारितार्थ्येऽपि प्रतिपदविधित्वेनाञ्ठञ्भ्यां बाधे सिद्धे पूर्व्वविप्रतिषेधारम्भोऽनर्थकः स्यादिति वाच्यम्। सति शेषग्रहणे व्याख्यानादनन्तर 'बहुब्रीहौ सक्थ्यक्ष्णो'रित्यधिकारापेक्षयैव शेषस्य ग्रहणात्तत्र चाङ्गुलेर्दारुणि इत्यादिप्रतिपदशास्त्राणां पाठेन तेषां स्वविषये प्राप्तकपो बाधकत्वेन तत्प्रवृत्तिप्रतिबन्धकस्यानेकवक्ष्यमाणभाष्यैः वक्ष्यमाणसूत्रस्थकैयटरीत्या चावश्यकत्वेन निरवकाशत्वस्याक्षतेः। तद्भाष्यस्यैकदेश्युक्तित्वात्। एवञ्च शेषग्रहणं स्पष्टार्थम्। न च समासान्तरे चरितार्थानाम् ऋक्पूरित्यबादीनां बाधनाय तद्ग्रहणम् अन्यथा परत्वात्प्रियपथिक इत्यब्विषये कप् स्यादिति वाच्यम्। तत्र कप्प्रत्ययस्येष्टत्वेन शेषग्रहणेऽपि भगवन्मते तद्वारणात्। एवञ्च ये प्रतिपदं विधीयन्ते ते बाधका: भवष्यन्तीति सिद्धान्त्युक्तिः। नैतदस्तीत्यादिना शङ्कासमाधानादिकं त्वेकदेशिन इति दिक्। द्वितीयस्याप्यत्राहुः। छदिरूपानह्योः प्रतिपदं प्रत्ययविधानाद्युक्तो विप्रतिषेधः। तथा चोक्तम्। परनित्यान्तरङ्गप्रतिपदविधयो विरोधसंन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति नार्थः पूर्व्वविप्रतिषेधेनेति चिन्त्यमेतदिति कैयटेनैव चिन्त्यतोक्तेः। अत्राहुरिति प्रतीकमुपादाय प्रतिपदविधीनामनवकाशत्वेन सत्येव बाधकत्वं नत्वन्यथेति अत्रारुचिरिति विवरणस्तु चिन्त्यमेवेति बोध्यम्। यत्तु स्वांपीत्यत्र निरवकाशत्वमिति प्रतीकमुपादाय इदं 'छदिरुपधिबलेढञि'ति सूत्रे 'शेषाद्विभाषे'ति सूत्रे च भाष्ये स्पष्टमित्युक्तं नपुंसकान्तशेखरे तत्र छदिरूपधीति सूत्रे भाष्ये किमपि नोक्तं तथापि सूत्रे यत्र पाद इति बहुब्रीहिणा तत्र पादे 'उगवादिभ्यो यदि'ति सूत्रे इत्यर्थो बोध्यः। अत एव कपो वैकल्पिकत्वेन तदभावे 'अव्ययसर्व्वनाम्नामकजि'त्यकचश्चारितार्थेऽपि सर्व्वनाम्नाऽकजिति प्रतिपदमकचो विधानात् स्वविषये प्राप्तकपो बाधकत्वं भाष्योक्तं कैयटादिनवीनोक्तं च संगच्छते। अन्यथा समासान्तविषये शेषग्रहणाभावे परत्वात्कबापादनवत्परत्वादत्रापि कपि तदभावेऽकचि च सर्व्वनाम्नो काकचोर्व्विभाषाप्रवृत्तिप्रसङ्गः। 'न धातु लोप' इति सूत्रे भाष्येपि तत्सूत्रप्रत्याख्यानावसरे पूर्व्वमकारलोपे पश्चाल्लुकि,अल्लोपस्य स्थानिवद्भावात्। लोलुबादौ गुणवृद्ध्यभावमुक्त्वा तदन्तरमुक्तं लुकि कृते न प्राप्नोति इदमिह संप्रधार्य्यम्। लुक् क्रियतामल्लोप इति। किमत्र न्याय्यम्। परत्त्वादल्लोपः। नित्यो लुक्। शब्दान्तरस्येति न्यायेन लुगप्यनित्यः। द्वयोरनित्ययोः परत्वाद्व्यवस्था। अनवकाशस्तर्हि लुक्। सावकाशो लुक्। कोऽवकाशः। अवशिष्टः। अथापि कथञ्चिदनवकाशो लुक्। अथापि न दोषः। अल्लोपे योगविभागः करिष्यते। अत इति किमर्थमिति लुक् बाधनार्थमित्युक्तम्। तत्र यद्यपि सावकाश इति प्रतीकमुपादाय भिन्नविषयौ लुक्लोपौ। यकारस्य लुक् अकारस्य लोपः। ततश्च नास्ति येन नाप्राप्तिन्याय इत्युक्तं कैयटेन। तथापि लुकि कृते न प्राप्नोतीति प्रतीकमुपादायानवकाशत्वादन्तरङ्गानपीति न्यायाच्च लुकि कृते लोपो न प्राप्नोतीत्यर्थः। इतर आशयानभिज्ञ आह। परत्वादिति। किञ्च भिन्नविषयेऽपि बाध्यबाधकभावो दृष्टः। यथा 'व्यथो लिटी'ति संप्रसारणस्य वकारे चारितार्थ्येऽपि 'हलादिः शेष'बाधकता भाष्यकारोऽपि 'मिदचोऽन्त्यादि'त्यस्य विषयभेदेऽपि प्रत्ययपरत्वबाधकतां वक्ष्यति। तस्मात् प्रकृते चारितार्थ्येऽपि तत्प्राप्तिकालेऽवश्यं प्राप्त्याऽपवादत्वं भवत्येवेत्याशयः। असंभव एव बाधकत्वं विरोधस्य [5]तदुक्तत्वादिति वार्तिकानुयायिना सावकाशो लुगित्युक्ते स एवाथापीत्याहेति तदुक्तिः कथञ्चिदिति विवरणे उक्तम्। किञ्च 'पारे मध्ये षष्ठ्या वा' 'द्वितीयतृतीयचतुर्थतुर्य्यान्यतरस्यामि'त्यादिसूत्रस्थं भाष्यमप्यत एव संगच्छते। तत्राद्ये हि महाविभाषया पारं गङ्गाया इति वाक्यस्यापि सिद्धतया सूत्रे वा ग्रहणवैयर्थ्यशङ्कायां पक्षे षष्ठीसमासार्थं तर्हिवा ग्रहणमित्युक्ते सोऽपि महाविभाषाधिकारपठित इति तावुभौ वचनाद्भविष्यत इत्युक्त्वाऽपवादेन मुक्ते पूर्व्वकायादावेकादेशिसमासाभाववत्पक्षे षष्ठीसमासाप्राप्तौ तदभ्यनुज्ञानं वा ग्रहणप्रयोजनमुक्तम्। द्वितीये हि पूर्व्वोक्तरीत्या एवैकदेशिसमासेन मुक्ते भिक्षाद्वितीयमिति षष्ठीसमासाभ्यनुज्ञानमन्यतरस्यां ग्रहणफलमुक्तं स्पष्टञ्चेदं विवरणेऽपि। भवदुक्तरीत्योत्सर्गशास्त्रस्य वैकल्पिकतयाऽव्ययीभावैकदेशि समासयोश्चारितार्थ्येनानपवादत्वात् षष्ठीसमास्याप्रतिरुद्धतया[6] तत्प्रवृत्तौ तदभावे चानयोरिति वा ग्रहणमन्यतरस्यां ग्रहणं विनापि लक्ष्यसिद्धौ तदर्थोक्तिस्तयोर्भाष्योक्तासंगतिः स्यात्। किञ्चानयोरपवादत्वाभावे अपवादत्वेन मुक्ते इति न्यायसंचारस्यासंगत्यापत्तेश्च। ननु महाविभाषया न प्रत्यय[7]समासयोर्व्विकल्पः क्रियते किन्तु एकोपस्थितजनकत्वरूपैकार्थीभावे प्रत्ययादिस्तद्भावेत्यपेक्षायां न प्रत्ययादिकमित्येव। एवञ्च सर्व्वकः, पारे गङ्गादित्यादौ व्यपेक्षायामकजादीनां प्राप्तेरेवाभावात् अचारितार्थ्येनावश्यप्राप्तकादेर्बाधनमुचितं प्रकृते तु नैवमिति चेन्न। यद्युत्सर्गापवादकृतैकार्थीभाव एकस्तदानीमिदं संभवेत्तदेव न। यदा न षष्ठी समासस्तदोपपदसमास इत्यनुक्त्वा तदोपपदसमासकृतैकार्थीभाव इति 'उपपदमतिङ्' इति सूत्रस्थभाष्येण अथवा विभाषा षष्ठीसमासः। यदा न षष्ठीसमासः तदोपपदसमास इति तत्सूत्रस्थाग्रिमभाष्येण च दाक्षिरित्यत्र इञा युक्तेऽण् माभूदिति। यत्रोत्सर्गापवादेन महाविभाषा तत्रोत्सर्गो न प्रवर्त्तत इति। 'द्वितीयतृतीये'ति सूत्रस्थान्यतरस्यां ग्रहणेन ज्ञापयित्वा तत्प्रयोजनकथनपरतत्सूत्रभाष्येण च तत्तत्कार्य्यकृतैकार्थीभावव्यपेक्षयोः भेदस्यावश्यकत्वात्। अन्यथा षष्ठीसमासाद्यभावे व्यपेक्षाया एव सत्त्वेन तत्रोपपदसमासादिरिति भाष्यासंगत्यापत्तेः। ततश्च कप्रत्ययकृतैकार्थीभावेऽकच्कृतत्वेऽकचश्चारितार्थ्येऽपि उत्सर्गाप्राप्तियोग्ये अचारितार्थ्यरूप बाधकत्वाहानेरकचको बोध्यः। एवं प्रकृतेऽपि ङीबभावे टापश्चारितार्थ्येऽपि तदप्राप्तियोग्येऽचारितार्थ्येरूपबाधकत्वाहानेष्टापा ङीपो बाध एवोचितः। ङीपो वैकल्पिकतया प्रवृत्तावपि तत्प्राप्तियोग्यतायाः सत्वात्। वस्तुतस्त्वनया रीत्या छाधिषेयाणि तृणानि इत्यादौ उत्सर्गाप्राप्तिविषये 'छदिरूपधी'ति सूत्रस्य चारितार्थ्येन कैथटोक्तं प्रतिपदविधित्वं चिन्त्यमेव। इदमेव भाष्यं मूलोक्तनिरवकाशत्वे सत्येव बाधप्रयोजकमित्यस्य प्रत्युदाहरणं बोध्यम्। ननु येनेति न्यायेन बाधस्तु चारितार्थ्येऽपि भवत्येवेति न्यायमादाय पूर्व्वोक्त भाष्याणां प्रवृत्तिरिति। नत्वनवकाशत्वेन बाधमादाय इति चेन्न। पूर्व्वसूत्रापवादोऽयमिति मनोरमायामपि तुल्यत्वात्। इदं पूर्व्वोक्तं सर्व्वं तस्माच्छेषग्रहणं कर्त्तव्यमिति भाष्योक्तमुपसंहारमकृत्वा समासान्ताश्च कबभावे सावकाशा इत्युक्तमित्युपसंहारेण मूलकृतैव बोधितम्। कबभावे चारितार्थ्येऽपि तदप्राप्तियोग्येऽचारितार्थ्येन बाध उचित इति तस्याशयः। अग्रिमभाष्यन्त्वेकदेश्युक्तमित्युक्तमेवेति दिक्। क्वचिदनवकाशत्वाभावेऽपीति। यथास्वांपीत्यत्राप इत्यत्र चारितार्थ्येनापि 'अप्तृन्नि'त्यनेन झलन्तलक्षणनुमो बाधात् पूर्व्वं दीर्घः न तु परो नित्यश्च नुम् पूर्व्वम्। एवञ्चोक्तमेकरूपं न तु स्वांपीति बोध्यम्। एवं सेदुषीत्यादीन्युदाहरणानि ऊह्यानि॥६५॥
[1]कल्पना इति गे
[2]खण्डनमिति गे नास्ति
[3]पदशब्दमङ्गीकृत्य इति गे
[4]प्रतिपादनान्तः इति गे
[5]तद्बीजत्वाद् इति गे
[6]प्रतिरूपतया इति गे
[7]समर्थयो इति गे