Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

विधौ परिभाषोपतिष्ठते नानुवादे


यदपि ननु 'वृद्धिर्यस्याचामादिः' इत्यत्रेक्परिभाषोपस्थितौ शालीयाद्यसिद्धिरत आह -

विधौ परिभाषोपतिष्ठते नानुवादे।१०२।

अनुद्यमानविशेषणेषु तन्नियामिका परिभाषा नोपतिष्ठत इति तदर्थः। विध्यङ्गभूतानां परिभाषाणां विधेयेनासिद्धतया सम्बन्धासम्भवेऽपि तद्विशेषणव्यवस्थापकत्वेन चरितार्थानां तद्विशेषणव्यवस्थापकत्वे मानाभाव इति तर्कमूलेयम्। किञ्च 'उदीचामातः स्थाने' इति सूत्रे स्थानेग्रहणमस्या लिङ्गम्। अन्यथा 'षष्ठी स्थाने' इति परिभाषयैव तल्लाभे तद्वैयर्थ्यं स्पष्टमेवेति। तन्न, 'उदात्तस्वरितयोर्यणः' इत्यादौ 'ष्यङः सम्प्रसारणम्' इति सूत्रभाष्योक्तरीत्या 'अल्लोपोऽनः' इत्यादौ चैतस्या व्यभिचरितत्वात्, भाष्यानुक्तत्वाच्च। स्थानसम्बन्धो न परिभाषालभ्य इत्यर्थस्य 'षष्ठी स्थाने' इति सूत्रे भाष्ये स्पष्टमुक्तत्वेन त्वदुक्तज्ञापकासम्भवाच्च। तत्र स्थानेग्रहणन्तु स्पष्टार्थमेव। किञ्च विधौ परिभाषेति प्रवादः 'इको गुणवृद्धी' 'अचश्च' इत्यनयोर्विधीयत इत्यध्याहारमूलकः। अन्यत्र तु नास्याः फलमित्यन्यत्र विस्तरः॥१०२॥

 


कामाख्या

शालीयाद्यसिद्धिरितिअयम्भावः - 'इको गुणवृद्धी' इत्यस्य यत्र गुणवृद्धीपदे तत्रेक इतिषष्ठ्यन्तं पदमुपतिष्ठत इत्यर्थाद् 'वृद्धिर्यस्याचामादिस्तद्वृद्धमि'त्यत्रास्योपस्थित्या इकः स्थानिका वृद्धिर्यस्याचामदिस्तद्वृद्धमित्यर्थे लैगवायन इत्यत्रैव स्यान्नतु शालीय इत्यत्रेति। विधौपरिभाषेति।अयं भावः - प्रधानाप्रधानन्यायेन परिभाषोपस्थापकं लिङ्गं प्रधानमपेक्षते। तथा च परिभाषया प्रधानविधेयसंस्कारे कर्तव्ये यावती परम्परा नाप्राप्ता ततोऽधिकपरम्परा परिभाषाप्रवृत्तिं न प्रयोजयति। तथा च 'षष्ठीस्थान' इति परिभाषया विधिसंस्कारे कर्तव्ये स्वोपस्थाप्यार्थस्य 'इको यणची'त्यादौ चारितार्थ्याद् 'उदीचामात' इत्यादौ तदधिकपरम्परोपकारकत्वेऽप्रवृत्तौ स्थाने ग्रहणं सार्थकम्। 'तस्मिन्निति' परिभाषोपस्थाप्यस्य विधिसंस्कारे कर्तव्ये उद्देश्यमात्रघटिता परम्परा नाप्राप्नोति। 'अल्लोपोऽन' इत्यादौ एतदुपस्थितौ उद्देश्योद्देश्यतावच्छेदकोभयघटिता परम्परा प्रयोजिका भवतीति। अनया परिभाषया तदनुपस्थितौ 'ष्यङः संप्रसारण'मिति सूत्रस्थभाष्यविरोध इति दिक्। विधौ। विधेयविशेषणे परिभाषा उपतिष्ठते लक्ष्यसंस्कारकबोधनियामिका भवति। नानुवादे। अनूद्यमानविशेषणे विधेयविशेषणविशेषणे नोपतिष्ठत इत्यर्थः फलितः। परिभाषाया युक्तिसिद्धत्वन्दर्शयति विध्यङ्गेति। अङ्गत्वमुकारकत्वम्। तद्विशेषणे। साक्षाद्विधेयविशेषणे परम्परया विधेयविशेषणविशेषणे नेति। अत्र ज्ञापकमाप्याह किञ्चेतिउदात्तस्वरितयोरिति। अत्र परम्परया विधेयविशेषणे 'षष्ठी स्थाने' इत्यस्य 'अल्लोपोऽन' इत्यत्र विधेये लोपे परम्पराविशेषणेऽङ्गभसंज्ञाक्षिप्तेऽसर्वनामस्थाने तस्मिन्नित्यस्य भाष्ये प्रवृत्तिदर्शनादस्या व्याभिचार इति भावः। स्थानसम्बन्धः। स्थानपदार्थनिरूपितसम्बन्धः। परिभाषालभ्यः। न 'षष्ठीस्थाने' इति परिभाषा लभ्यः किन्तु अन्तरङ्गत्वादेव लभ्य इति भाष्ये उक्तम्। ननु यदि परिभाषा नाङ्गीक्रियते तदा वृद्धिर्यस्येत्यादावुक्तदोषः स्यादत आह किञ्चेति।अध्याहारमूलकइति। एवञ्च गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इत्युपतिष्ठत इति सूत्रार्थः। प्रकृते तद्विरहान्नोपस्थितिरित्यन्यत् सुगमम्॥१०२॥


परिभाषार्थमञ्जरी

अनूद्यमानविशेषणेष्विति। समुदायविशेषणम् अचामिति। तद्विशेषणमादिरिति। ततश्चेक्स्थानिकादिवृद्ध्यवयवकाच्समुदायावयवकसमुदायस्य वृद्धसंज्ञेत्यर्थस्य पर्य्यवसन्नतया अनूद्यमानविशेषणेत्यस्य यथाश्रुतार्थकत्वे आदौ अनूद्यमानविशेषणविशेषणत्वेन तदंशे इक्परिभाषाऽप्रवृत्तेरनया वक्तुमशक्यत्वेनानूद्यमानविशेषणेत्यस्य अनूद्यमानविशेषणविशेषणेष्वित्यर्थः। विधेयेनासिद्धतयेति। विधेयस्यानभिनिर्वृत्तत्वेन तदंशे परिभाषासंबन्धः कर्तुमशक्य इति भावः। तद्विशेषणे इति। साक्षाद्विधिविशेषणे इत्यर्थः। यथाश्रुते आदेरपि परंपरयाविधेयविशेषणत्वेन तदंशे परिभाषाया अप्रवृत्तिकथनमसङ्गतं स्यादिति बोध्यम्। तद्विशेषणेति। विधेयविशेषणविशेषणे इत्यर्थ:। न्यायसिद्धेऽर्थे ज्ञापकमप्याह[1]किञ्चेति। भाष्योक्तरीत्येति। तत्र हि वाराहीपुत्रे ष्यङन्तस्य सम्प्रसारणं भवति। पुत्ररूपे उत्तरपदे इत्यर्थे। वकारस्य संप्रसारणं कस्मान्न भवतीत्याशङ्कायाम्[2] अनन्त्यविकारपरिभाषया निराकृत्य अनन्त्येत्यस्याः परिभाषाया: प्रयोजनजिज्ञासायाम् 'अल्लोपोऽन' इति सूत्रमुदाहृतम्। अन्यथाङ्गावयवस्यानोऽकारस्य लोप इत्यर्थे अनस्त क्ष्णेत्यादावाद्याकारस्य लोप: स्यात्। ततोऽग्रे भसंज्ञाक्षिप्तासर्वनामेत्यस्याकारांशे विशेषणतामङ्गीकृत्य तस्मिन्निति परिभाषया अव्यवहिताकारस्यैव लोपेनाद्याकार लोपवारणेने तत्परिभाषाप्रयोजनमित्युक्तम्। एवञ्चानूद्यमानविशेषणविशेषणेऽपि परिभाषाप्रवृतिरुक्तैवेति भावः। येन नेतिन्यायेन नकारव्यवधानं सह्यत इति तात्पर्यम्। स्थाने ग्रहणेन[3] परिभाषाज्ञापनेऽपि नानुवादेत्यस्य यथाश्रुतार्थकत्वेन इत्यस्यानुवाद्यत्वेन अत इत्यस्य तत्त्वाभावेन तदंशे निषेधाऽप्रवृत्त्या 'षष्ठीस्थाने' इति परिभाषालभ्यस्थानसम्बन्धस्य निर्व्विघ्नत्वेन स्थानेग्रहणवैयर्थ्यापत्त्या नानुवादे इत्यस्यानूद्यमानविशेषणे तदप्रवृत्तिरित्यर्थस्यावश्यकत्वे 'वृद्धिर्यस्याचामादि'रित्याद्यंशे 'इको यणची'त्यत्र अचीत्यंशे इक्परिभाषा'तस्मिन्निति'परिभाषयोः क्रमेण प्रवृत्त्यप्रवृत्तिभ्यामव्याप्त्यतिव्याप्तिभिया विशेषणविशेषणेऽप्रवृत्तिरित्यर्थस्वीकारेण उक्ताव्याप्त्यतिव्याप्त्योर्वारणेऽपि आत इत्यस्य तत्त्वाभावेन निषेधाप्रवृत्या पुन: स्थानग्रहणस्य सम्बन्धः 'षष्ठी स्थाने' इति परिभाषया कर्तुमशक्य[4] एव इति विद्यमानस्थानग्रहणं व्यर्थमेवेति त्वदुक्तज्ञापकासंभव इत्यपि दोषो बोध्यः। 'इको यणची'त्यादौ दोषध्रौव्यादनूद्यमानविशेषणेन इत्येवार्थो ज्ञाप्यते। विशेषणता च साक्षात्परंपरासाधारणी गृह्यते। एवं च 'वृद्धिर्य्यस्ये'त्यादौ न दोष इति तु न शङ्कनीयम्। ननु साक्षादनूद्यमानविशेषणे अनूद्यमानविशेषणविशेषणे इत्युभयविधोप्यर्थोऽङ्गीक्रियते। लक्ष्यानुरोधाच्च क्वचित्पूर्वांशस्य प्रवृत्तिरिति क्वचिदुत्तरांशस्य प्रवृत्तिरिति न क्वापि 'अचो रहाभ्यं द्वे' 'उदात्त यणि'त्यादौ दोषलेश इति चेन्न। अन्ततो गत्वा लक्ष्यानुरोधस्वीकारस्यावश्यकत्वे 'अन्ते रण्डा विवाह' इति न्यायेन पूर्वमेव लक्ष्यानुरोधेन 'वृद्धियस्ये'त्यादाविक्परिभाषाप्रवृत्तिस्वीकारेणेष्टसिद्धौ भाष्यविरुद्धा [5]सरण्यवरोहस्यानुचितत्वादिति दिक्। ननु स्थाने ग्रहणेन परिभाषाणामनित्यत्वज्ञानेन[6] क्वचित्परिभाषाणामप्रवृत्तिः। एवञ्च ज्ञापकस्य सजातीयापेक्षयाऽनुवाद एवाप्रवृत्तिः। ततश्च परिभाषाणामनित्यत्वेन क्वचित्सिद्धायाः अप्रवृत्तेरनुवादिका परिभाषेयमिति त्वदुक्तप्रथमद्वितीयदूषणयोर्गर्भस्रावेणैव गतत्वात्। अङ्गांशे उत्थिताकङ्क्षत्वेनाक्षिप्तप्रत्ययस्यांशे[7]एव विशेषणत्वमित्यादिदूषणैः विवरणे शेखरे शब्दरत्नादौ अत्रैव मूलेऽन्त्यविकार इति परिभाषाया व्याख्याने च 'ष्यङ: संप्रसारणमि'ति सूत्रस्थभाष्यस्य त्वयैवैकदेश्युक्तिताया उक्तत्वाच्च। 'षष्ठी स्थाने योगे'ति परिभाषायाः प्रसिद्वार्थकत्वे फलाभावेन निर्दिश्यमानपरिभाषार्थसंग्राहकत्वं भगवतोक्तमानादृत्य आवृत्त्या तदर्थकसंग्राहकत्वकथनेन 'धिन्वि कृण्व्यो रचे'त्यनेन लोपविधाने कर्त्तव्ये अकारविधानेन 'यथोत्तरं मुनीनां प्रमाण्यमि'त्यर्थो ज्ञाप्यत इति कथनेन च भाष्यानुक्तज्ञापकानां त्वयापि स्वीकृतत्वात्। नापि तृतीयः। भाष्यकृतान्तरङ्गत्वेन स्थानसम्बन्धस्य कथनेऽपि सूत्रकाररीत्या ज्ञापकत्वस्वीकारे बाधकाभावेन परिभाषाणामनित्यत्वानुवादकपरिभाषास्वीकारे लक्ष्यविसंवादाभावेनैतादृशभाष्यविरोधस्य दोषासंपादकत्वेन च। नापि चतुर्थोऽत आह किञ्च विधाविति। एवं परिभाषाफलस्य विधीयत इति क्रियाध्याहारेणैव लाघवात्सिद्धे तदंशे गुरुतरयत्नस्वीकारस्य अनुचितत्वादिति भाव:। 'वृद्धिरादैचि'ति सूत्रे तद्भावितानां संज्ञेति पक्षे शालीयादौ वृद्धलक्षण: छो न स्यादिति दूषणदानेन मालादीनाञ्चेत्यादिज्ञापकाच्च इक्परिभाषायां विधीयत इत्याध्याहारबोधनात् इत्यध्याहारे मानाभावेन मदुक्तार्थस्वीकारस्यैवौचित्यमित्य[8]वक्तुमशक्यत्वात्। अन्यथा शालादीनां वृद्धत्वाभावेन तदुदाहरणभाष्यासङ्गतेरिति दिक्॥१०२॥

[1]अपि गे नास्ति

[2]आशङ्क्य इति गे

[3]ग्रहणे इति गे

[4]अशक्यमिति गे

[5]अनुसरणी इति गे

[6]ज्ञापनेन इति गे

[7]प्रत्ययस्याङ्गांशे इति गे

[8]इत्यस्य वक्तुमशक्यत्वात् इति गे