सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य
ननु 'शतानी'त्यादौ नुमि कृते षट्संज्ञा प्राप्नोति, ततश्च लुक् स्यात्तथा 'उपादास्ते'त्यत्रात्त्वे कृते 'स्थाघ्वोरिच्च' इतीत्त्वं प्राप्नोतीत्यत आह -
सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य।८६।
सन्निपातः = द्वयोः सम्बन्धस्तन्निमित्तो विधिस्तं सन्निपातं यो विहन्ति तस्याऽनिमित्तम्। उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा। अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्यविशेषणसन्निपातोऽपि गृह्यते । अत एव 'ग्रामणि कुलमि'त्यादौ नपुंसकह्रस्वत्वेऽपि 'पिति कृति' इति तुग्न प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तद्विघातकत्वात्। तुक्यजन्तत्वविघातः स्पष्ट एव। न चार्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतयाऽसिद्धत्वम्, अर्थकृतबहिरङ्गत्वानाश्रयणस्योक्तत्वात्। किञ्च 'षत्वतुकोरसिद्धः' इत्येतद्बलात्कृतितुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभाषाया अप्रवृत्तेः। सर्वविधसन्निपातग्रहणादेव वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यादित्येतत्परिभाषादोषनिरूपणावसरे वार्त्तिककृतोक्तम्। न हि प्रत्ययः पूर्वपरसन्निपातनिमित्तकः स एव च सन्निपातशब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तक इति शङ्कायां तदभ्युपेत्यैवाङ्गसंज्ञा तर्ह्यनिमित्तं स्यादित्येकदेशिनोक्तमिति न तद्भाष्यविरोधः। किञ्चैवं 'शैवो गार्ग्यो वैनतेय' इत्यादावप्यङ्गसंज्ञाया लोपनिमित्तत्वानापत्त्या वर्णाश्रय इत्यस्य वैयर्थ्यम्। 'ग्रामणिकुलं, ग्रामणिपुत्र' इत्यादावुत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद्बहिरङ्गपरिभाषयापि वारणं सम्भवतीति 'कृन्मेजन्तः' इत्यत्र 'ह्रस्वस्य पिति' इति सूत्रे चैकदेशिना तया परिभाषया तुग्वारितो भाष्ये। अत एव परिभाषाफलत्वेनेदमुक्तं 'कृन्मेजन्तः' इति सूत्रे वार्त्तिककृतेति केचित्। सन्निपातलक्षणविधित्वमस्या लिङ्गम्। स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यः सन्निपातस्तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति। नन्वेवं 'रामाय' इत्यादौ 'सुपि च' इति दीर्घानापत्तिः। अदन्ताङ्गङेसन्निपातेन जातस्य यादेशस्य तदविघातकत्वात्। न च यञादित्वसापेक्षदीर्घस्य बहिरङ्गतयाऽसिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम्। आरोपितासिद्धत्वेऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः। किञ्चान्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वेऽपि तत्र कृते तस्यासिद्धत्वे मानाभावः। किञ्च, आतिदेशिकसन्निपातविघाताभावमादायैतत्प्रवृत्तौ 'गौरी'त्यादौ सम्बुद्धिलोपेऽपि स्थानिवत्त्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात् तत्रैतस्यातिव्याप्तिपर 'कृन्मेजन्तः' इति सूत्रस्थभाष्यासङ्गतिः। सन्निपातस्य अशास्त्रीयत्वान्नात्र स्थानिवत्त्वमिति चेत् तर्ह्यत्रासिद्धत्वमपि कथमिति विभावय, अशास्त्रीयेऽसिद्धत्वाप्रवृत्तेः 'ईदूदेदि'ति सूत्रे कैयटेन स्पष्टमुक्तत्वात्। एवं च पूर्वत्रासिद्धीयेऽपि कार्यं एतत्परिभाषाप्रवृत्तिर्भवत्येवेति चेत्, न। 'कष्टाय' इति निर्देशेनैतस्या अनित्यत्वात्। ययोः सन्निपातस्य विघातकं शास्त्रं तयोः सन्निपातनिमित्तकविधावुपादानमपेक्षितमिति तु नाऽऽग्रहः। अत एव 'दाक्षिरि'त्यत्राकारान्तप्रकृतीन्सन्निपातनिमित्ताङ्गसंज्ञाऽनया परिभाषयाऽल्लोपस्य निमित्तं न स्यादित्याशङ्क्यानित्यत्वेन समाहितं 'कृन्मेजन्तः' इति सूत्रे भाष्ये। 'न ह्यङ्गसंज्ञायामदन्तस्याङ्गसंज्ञे'त्युक्तमस्ति। न च 'कुम्भकारेभ्य आधय' इत्यादावव्ययसंज्ञाया अनया परिभाषया वारणपरभाष्यासङ्गतिः। अनया परिभाषया लुग् मा भूत्, अव्ययत्वं तु स्यादेव, लुका हि तदीयसन्निपातस्य विघातो नाव्ययसंज्ञया, संज्ञाफलं त्वकच् स्यादिति वाच्यम्। एतदुदाहरणपरभाष्यप्रामाण्येन साक्षात् परम्परया वा स्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्तमित्यर्थेनादोषात्। एतेनात्राकच् स्यादित्यपास्तम्। न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधेऽप्यकजेकवाक्यतापन्ना स्यादिति वाच्यम्, अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्गगुणादेरसिद्धत्वात्। लुगेकवाक्यतापन्ना तु न, गुणादितोऽन्तरङ्गोभयोरपि शब्दतः सुबाश्रयत्वात्। 'न यासयोः' इति निर्देशाच्चैषाऽनित्या तेन नातिप्रसङ्गः। स्पष्टा चेयं 'कृन्मेजन्तः' इति सूत्रे भाष्ये। अस्या अनित्यत्वे फलानि भाष्ये परिगणितानि। वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तम् 'दाक्षिः'। आत्त्वं पुग्विधे: 'क्रापयति'। पुग् ह्रस्वस्य 'अदीदपत्'। त्यदाद्यकारष्टाब्विधेः 'यासे'ति। इड्विधिराकारलोपस्य 'पपिवान्'। 'ह्रस्वनुड्भ्यां मतुप्' 'अन्तोदात्तादुत्तरपदात्' इति मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य 'अग्निमान्, परमवाचा'। नदीह्रस्वत्वं सम्बुद्धिलोपस्य 'नदि, कुमारी'त्यादि। यादेशो दीर्घत्वस्य 'कष्टाय'। इतोऽन्यत्र प्रवृत्तिरेव, 'दोषाः खल्वपि साकल्येन परिगणिता' इति भाष्योक्तेरित्यन्यत्र विस्तरः॥८६॥
कामाख्या
समाससंज्ञाप्रसङ्गेन षट्संज्ञाया अपि स्मरणादाह नन्वितिशतानीति। न च विभक्तिसापेक्षनुमो बहिरङ्गत्वेनासिद्धत्वान्न षट्संज्ञेति वाच्यम्। संज्ञाशास्त्रस्य विधिनिमित्तनिमित्तकत्वेनोभयोः समत्वात्। न च षान्तसाहचर्येणौपदेशिकनान्तस्यैव ग्रहणे न दोष इति वाच्यम्। 'उद्देशश्च प्रातिपदिकानां नोपदेश' इति भाष्येणोक्तार्थासंभवादिति केचित्। इत एवारुचेराह उपादास्तेतिकेचित्।द्वयोः। पूर्वपरयोर्विशेषणविशेष्ययोर्वा। उपजाव्येति। उपजीव्यते = आश्रीयते कार्याय यदिति व्युत्पत्त्या उपजीव्यशब्दः कारणपरः। उपजीवत्युत्पद्यते यदिति व्युत्पत्त्या उपजीवकशब्दः कार्यपरः। तथा च उपजीव्यस्य यो विरोधो = नाशानुकूलो व्यापारः स उपजीवकेन कर्तुमयोग्य इत्यर्थः। यथा शतानीत्यत्र नुम्प्रत्युपजीव्या विभक्तिस्तन्नाशको लुक्, तज्जनको व्यापारः षट्संज्ञाप्राप्तिरूपः, स उपजीवकेन नुमा न कर्तव्य इति न षट् संज्ञा। एवं सर्वत्र बोध्यम्। अतएवेति। अस्या उक्तन्यायमूलत्वादेव। विशेष्यविशेषणसन्निपातोऽपि। अभेदसम्बन्धरूप इत्यर्थः। सन्निपातशब्दस्य निमित्तमात्रपरत्वात्। सर्वविधसन्निपातेति। निमित्तमात्रग्रहणादेवेत्यर्थः। वर्णाश्रयो = वर्णनिमित्तकः। वर्णविचालस्य = वर्णनाशस्य। एवञ्च दाक्षिरित्यत्राकारनिमित्तके 'अत इञि'ति प्रत्यये परे 'यस्येति' लोपो न स्यादिति भावः। एकदेशिमतमाह नहीति। हि शब्दश्चार्थे। इति मत्वेति कथनेनास्यैकदेश्युक्तित्वं ध्वनितम्। अङ्गसंज्ञेति। अकारान्तप्रकृतीन् प्रत्ययसन्निपातनिमित्ताङ्गसंज्ञा पौर्वापर्यभावात्मकसम्बन्धनिमित्तैव साऽल्लोपनिमित्तं न स्यादिति भावः। तदेव स्पष्टयति किञ्चैवमिति। वैयर्थ्यमिति। एवं च वर्णाश्रय इत्युपादानसामर्थ्याद्विशेषणविशेष्यसन्निपातोऽपि गृह्यत इति भावः। नन्वेवं ग्रामणिकुलमित्यादौ बहिरङ्गपरिभाषया तुको व्यावृत्तिः कृता न त्वनया, तेन पूर्वपरसन्निपात एवाश्रियत इत्यत आह ग्रामणीत्यादि। अत एवेति। विशेष्यविशेषणसन्निपातस्यापि निमित्तत्वादेव। बहिरङ्गपरिभाषाया अप्रवृत्तेरेव वा। परिभाषाफलत्वेन। सन्निपातपरिभाषाफलत्वेन। इदमुक्तम्। ग्रामणिकुलमित्याद्युक्तम्। केचित्। भाष्यतत्त्वविद इत्यर्थः। ई गतावित्यस्मात् क्विपि, नपुंसकह्रस्वत्वे, इकुलमित्यादौ तुको वारणायैतद्विषये सन्निपातपरिभाषाश्रयणस्यावश्यकत्वेन क्वचिल्लक्ष्ये बहिरङ्गपरिभाषा संचारस्ते वृथेति भावः। सन्निपातलक्षणविधित्वमिति। सन्निपातनिमित्तकशास्त्रत्वमित्यर्थः। तेन 'नपुंसकस्य झलच' इत्यत्र परिभाषोपस्थितिस्तथा च सर्वनामस्थानं निमित्तीकृत्य जायमानो नुम् लुग्द्वारा सर्वनामस्थानविघातकषट्संज्ञां प्रत्यनिमित्तमिति न षट्संज्ञा। एवं च यं सन्निपातं निमित्तं कृत्वा स्वस्य प्रवृत्तिस्तस्य सर्वथा विघटकं यच्छास्त्रं तस्य स्वप्रयोज्या प्रवृत्तिर्न्नेति फलितम्। तदाह स्वप्रवृत्तेःप्रागिति। स्वातिरिक्तशास्त्रस्येति। यस्य स्वनिमित्तविनाशं विना न प्रवृत्तिस्तदतिरिक्तशास्त्रस्येत्यर्थः। यथा 'सुपि चे'ति शास्त्रं स्वनिमित्तादन्तत्वस्य विनाशं प्रति निमित्तमेव। तद्विनाशम्विना तस्य चारितार्थ्यासंभावत्। नन्वेवमिति। सन्निपातपरिभाषाङ्गीकारे। तदविघातकत्वादिति। अदन्तत्वविघातकदीर्घं प्रत्यनिमित्तत्वादित्यर्थः। यः स्वनिमित्तविघातकत्वेन यं जानाति स तम्प्रत्येव निमित्तं न भवति। दीर्घत्वस्य यादेशं प्रति बहिरङ्गतयाऽसिद्धत्वेन तज्ज्ञानाभावात् तं प्रति यादेशो निमित्तं स्यादेवेत्याशयेन शङ्कते।न चेति। वस्तुतस्तु बहिरङ्गपरिभाषाविषय एव नेत्याशयेनाह किञ्चेति। वास्तविकसन्निपातविघाताभावे एवैतत्परिभाषाया अप्रवृत्तिरित्याशयेनाह किञ्चेति। पूर्वत्रासिद्धीयेऽपि। तत्र प्रवृत्तौ बाधकाभावमात्रप्रतिपादनपरोऽयं ग्रन्थो न तु फलविशेषः। दुग्धं दोग्धेत्यादौ धनिमित्तकस्य भष्भावस्य जश्त्वं प्रति निमित्तत्वानापत्त्या प्रयोगासिद्धिप्रसङ्गाच्चेति केचित्। परम्परयेति। एत्वं स्वनिमित्तविभक्तेर्लुग्द्वारा परम्परया विघातकाव्ययसंज्ञाया निमित्तन्नेति बोध्यम्। एतेनेति। अव्ययत्वाभावेनेत्यर्थः। लुगेकवाक्यतापन्नेति। कार्यकालपक्षे यावन्ति विधिशास्त्राणि तावन्ति संज्ञासूत्राणि भवन्तीति भावः। इड्विधिराकारलोपस्येति। 'वस्वैकाजाद्घसा'मिति सूत्रेणात्वं निमित्तीकृत्य जायमानस्येट आकारविनाशकत्वायोगात्। अग्निमानिति। अन्तोदात्तत्वं निमित्तीकृत्य जायमानं मतुब्विभक्त्युदात्तत्वम् 'अनुदात्तं पदमेकवर्ज'मिति सूत्रप्रवर्तनद्वाराऽन्तोदात्तत्वविनाशकत्वन्न स्यादित्यन्यत् सुगमम्।
इदमत्र बोध्यम् -सर्वत्रविधिशास्त्रे यत्किञ्चिद्बोधितसाधुत्वमुद्देश्यतावच्छेदकं स्वप्रवृत्युत्तरकालिकप्रवृत्तिमता सन्निपातपरिभाषाप्रयोज्य स्वोपजीव्यविघातकातिरिक्तत्वेनेति संकोचवता शास्त्रेण यस्य साधुत्वं बोध्यते तदपि साध्विति। अभ्यनुज्ञावाक्यं कल्पनीयम्। अत एव गगरी आनयेत्यादौ यणादिकं च न। गगरी इति प्राकृतशब्दे यत्किञ्चिच्छास्त्रबोधितसाधुत्वस्याभावेन यत्किञ्चिद्बोधितसाधुत्ववद्घटकस्यैवेको यण्विधानेन तदप्रवृत्तेः। संज्ञाशास्त्राणान्तु साधुत्वविधायकत्वाभावेनाभ्यनुज्ञावाक्याभाव एवेति। एतेन सन्निपातपरिभाषया सन्निपातलक्षणस्तद्विघातकं प्रत्यनिमित्तकत्वबोधनेऽपि तद्विघातकशास्त्रस्य स्वीयोद्देश्यतावच्छेदकज्ञानात् प्रवृत्तिरव्याहतैव। तया तत्प्रति किमप्यबोधनादिति वतन्तः परास्ताः। अत्रत्यविशेषविचारोऽन्यत्रविस्तरेण प्रपञ्चित इति दिक्॥८६॥
परिभाषार्थमञ्जरी
अनाश्रयणस्योक्तत्वादिति। अन्यैरितिशेषः[1]। अत एवारुचेराह किञ्च षत्वतुकोरिति। साकल्येन परिगणिता इतीति। ननु 'अवङ स्फोटायनस्ये'ति सूत्रे गवाग्रमिति प्रतीकमुपादाय सन्निपातपरिभाषाया अनित्यत्वाद्दीर्घ इति बोध्यमिति शेखरस्थसमाधिः, अजन्तस्त्रीलिङ्गे मत्यामिति प्रतीकमुपादाय सन्निपातपरिभाषायाः अनित्यत्वाद्यणिति। तत्रत्य समाधिश्च भाष्यविरुद्ध इति चेन्न। 'शाच्छोरि'ति सूत्रस्थगवाक्षः संशितव्रत इति भाष्यप्रयोगान् 'नद्यां मतुबि'ति सूत्रनिर्द्देशाच्चानित्यत्वेन तदप्रवृत्तिरित्याशयात्॥८६॥
[1]अन्यैरिति गे नास्ति