ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति
ननु तच्छीलादितृन्विषये ण्वुलपि स्यात्। न च तृन्नपवादः, असरूपापवादस्य विकल्पेन बाधकत्वात्। अत आह -
ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति।६८।
ण्वुलि सिद्धे 'निन्दहिंस' आदिसूत्रेणैकाज्भ्यो वुञ्विधानमत्र ज्ञापकम्, तत्र ण्वुल्वुञोः स्वरे विशेषाभावात्। ताच्छीलिकेष्विति विषयसप्तमी। तेन ताच्छीलिकैरताच्छीलिकैश्च वासरूपविधिर्नेति बोध्यम्। नन्वेवं कम्रा कमनेत्याद्यसिद्धिः 'नमिकम्पि' इति रेण 'अनुदात्तेतश्च हलादेः' इति युचो बाधादिति चेत्, न। 'सूददीपदीक्षश्च' इत्यनेन दीपेर्युज्निषेधेनोक्तार्थस्यानित्यत्वात्॥ ६८॥
कामाख्या
अपवादप्रसङ्गादाह तच्छीलादीति। ण्वुलपीति। कर्तृसामान्ये विहितस्य ण्वुलस्ताच्छील्यविशिष्टकर्तरि विधाने बाधकाभावात्। ननु अर्थविशेषे तृनो विधानादस्यापवादत्वं सुवचमिति शङ्कते। न चेति। विकल्पेनेति। 'वाऽसरूपोऽस्त्रियामि'त्यनेनेति भावः। एकाज्भ्यइति। एकाचि हि ञिन्निमित्तकाद्युदातत्वे लिन्निमित्तकान्तोदात्तत्वे वा विशेषाभावादिति भावः। विषयसप्तमीति। तेनैकस्यापि ताच्छीलिकत्वे इयं प्रवर्तते। एतत्फलितमाह तेनेति। ननु ताच्छीलिकेषु वासरूपविध्यभावे कम्रा, कम्पने, गन्ता, गामुकः, विकत्थी, विकत्थन इत्यादि न सिध्येदित्याशङ्कते नन्वेवमिति। दीपेर्युज्निषेधेनेति। नमिकंपीति। रेण बाधादेव युचोऽभावासिद्धेरिति भावः॥६८॥
नास्ति।