Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्

क्वचित्तु बाधकाबाधितफलोपहितप्रसङ्ग एव गृह्यते, तदाह

यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम्।४८।

सप्तमे कैयटेनैतदुपष्टम्भकं लोकव्यवहारद्वयमुदाहृतम्। वालिसुग्रीवयोर्युध्यमानयोर्भगवता बालिनि हतेऽपि सुग्रीवस्य बालितः प्राबल्यं न व्यवहरन्ति, भगवत्सहायैः पाण्डवैर्जये लब्धेपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति। सर्वं चेदं लक्ष्यानुरोधाद् व्यवस्थितम्॥४८॥

 

कामाख्या

एतदुपष्टम्भकम् एतत्परिभाषाद्वयज्ञापकम्।यथा भगवत्प्रयत्नेनैव सुग्रीवस्य पाण्डवानां च जयेऽविशिष्टेऽपि लोकाः वालिनं प्रति सुग्रीवस्य प्राबल्यं न व्यवहरन्ति। कौरवान् प्रति पाण्डवानां प्राबल्यं व्यवहरन्ति। तथा प्रकृतेऽपि लक्षान्तरेण निमित्तविघातस्थले प्रसङ्गस्य बाधकाबाधितफलोपहितप्रसङ्गत्वाभावेऽविशिष्टेऽपि क्वचिन्नित्यत्वं क्वचिदनित्यत्वमिति भावः। अस्योदाहरणं स्योन इति। तत्र हि गुणात्पूर्वं नित्यत्वादूङ्, गुणस्तु ऊङि यणा बाधितत्वादनित्यः। एवमस्मै इत्यत्रानादेशात्पूर्वं नित्यत्वात् स्मायादेशस्ततो हलिलोपेन बाधादनित्य अनादेश इति दिक्॥४८॥

परिभाषार्थमञ्जरी

सप्तमे इति। तत्कुलमित्यत्र अत्वलुकोः संप्रधारणायां परत्वादत्वम्। नित्यो लुक्। कृतेऽप्यत्वे प्राप्नोत्यकृतेऽपि। अनित्यो लुक्। नहि कृतेऽत्वे प्राप्नोति। अतोऽमित्यमभावेन भवितव्यमिति भाष्यमादाय तेनोक्तम्। एवञ्च पूर्व्वा क्वचिदित्यस्याः प्रपञ्चः। अपरा तु यद्व्यक्तीत्याद्यर्थक कृताकृतेत्यस्या इति तत्वम्। तत्र प्रथमस्योदाहरणं तु तुदतीत्येव। द्वितीयस्य स्योन इति मूले एवाग्रिमपरिभाषाव्याख्यायां स्पष्टम्। क्रमेणोपष्टम्भकमाह बालीत्यादिना॥४८॥