अनेकान्ता अनुबन्धा इति
इत्संज्ञका अनुबन्धास्तेष्ववयवानवयवत्वसन्देह आह -
अनेकान्ता अनुबन्धा इति॥४॥
अनेकान्ता अनवयवा इत्यर्थः। यो ह्यवयवः स कदाचित् तत्रोपलभ्यत एव। अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात्। शित्किदित्यादौ समीपेऽवयवत्वरोपेण समासो बोध्यः। 'वुञ्छण्कठे'त्यादौ णित्त्वप्रयुक्तं कार्यं पूर्वस्यैवेत्यादि तु व्याख्यानतो निर्णेयम्। 'हलन्त्यम्' इत्यत्रान्त्यशब्दः परसमीपबोधकः॥४॥
कामाख्या
स्मृतिविषयकत्वे सति उपेक्षानर्हत्वरूपप्रसङ्गसंगत्याऽनेकान्तपरिभाषामवतारयितुकामोऽवतरणमाह - इत्संज्ञका इति। अनुबन्धानामित्संज्ञालोपाभ्यामपहारेण विधेये कदाप्यदर्शनात्; स्वं रूपशास्त्रेण बोध्यबोधकयोः समानानुपूर्वीकत्वनियमात् 'उदीचामाङ' इत्यादिनिर्देशाच्च। बोधकताया अनुबन्धरहिते पर्याप्तेरवगमात्। अनुबध्यन्ते परस्मिन्सम्बध्यन्तेऽनुबन्धाः। तत्र वृक्षकाकयोः संयोगसम्बन्धवदत्रापि तथस्वीकारेऽनवयवत्वम्। वृक्षशाखयोः समवायवदत्रापि तथास्वीकारेऽवयवत्वमिति सन्देहबीजम्। एवं 'हलन्त्यमि'त्यत्राव्यवबोधकान्त्यशब्देन शित्किदित्यादौ षष्ठ्यर्थावयवे बहुव्रीहिनिर्देशेन 'आटश्चे'त्यादौ सानुबन्धाद्विभक्तिदर्शनेन च अनुबन्धविशिष्टेऽपि बोधकतायाः पर्याप्तत्वमिति च सन्देहबीजम्। तथा चानुबन्धाः बोधकावयवास्तदनवयवा वेति सन्देहः। अनुबन्धत्वस्य उच्चारणार्थकवर्णेऽपि विद्यमानत्वेनानुगतरूपेण पक्षतात्वज्ञानाय मूले इत्संज्ञका इत्युक्तम्। न च सन्देहशब्दमहिम्नैव भावाभावयोरुभयोरुल्लेखसंभवादन्यतरेणान्यतरस्याक्षेपसंभवाच्च उभयोरुपादानं व्यर्थमिति वाच्यम्। यद्धर्मिकयत्सम्बन्धावच्छिन्नयत्प्रकारकनिश्चयत्वेन साध्याभावत्वावच्छिन्नप्रकारित्व साध्यविशेष्यकत्वान्यतरावच्छिन्नं यत्संशयं प्रति निवर्तकत्वं तस्य सन्देहस्य तत्पक्षक तत्साध्यकानुमितावेव पक्षतात्वमिति स्वीकारेणोभयोरुपादानस्यावश्यकत्वात्। तथा चानुबन्धा बोधकानवयवा विधेये कदाप्यदर्शनादित्यनुमानप्रयोगः सिद्धः। ननु हेतुमप्रदर्श्य उपनयनादेः प्रदर्शनमयुक्तमिति चेन्न, अनुबन्धाः बोधकानवयवाः बोधकघटकत्वेनोपलब्धिविषयताशून्यत्वादिति। प्रथमानुमानप्रयोगे बोध्यबोधकयोर्न्निश्चयाभावेन हेतुतावच्छेदकरूपेण हेतोरसिद्धया पर्वतो वह्निमान् वह्निमत्वादितिवदुक्तानुमानासंभवात्, अतः अनुबन्धाः बोधकघटकत्वेनोपलब्धिविषयता शून्याः तदर्थभूतेविधेये कदाप्यदर्शनादित्यनुमानान्तरप्रयोग इत्यदोषात्। नन्वेवं साध्याभाववति गुणघटकगकारे हेतोः सत्वाद्व्यभिचारः। न च स्वरूपबोधकानवयत्वस्यैव साध्यतया गुणशब्दस्य स्वरूपबोधकत्वाभावेन न व्यभिचार इति वाच्यम्, निरूपकभेदेन धर्मद्वयस्यैकत्रसमावेशदर्शनाद्विरोधाभावेन संशयाभावादनुमानस्यैवानुत्थानापत्तेरिति चेन्न। स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मेणसाक्षादवच्छिन्नविधेयताप्रयोजकपदानवयवा इत्यर्थेनादोषात्। गकारघटितगुणघटकगकारवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकगत्वधर्मेण साक्षादवच्छिन्नविधेयताया अभावान्न व्यभिचारः। न चैवमपि अकारघटितगुणघटकाकार वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकात्वधर्मेण साक्षादवच्छिन्नविधेयताया अकारे सत्त्वेन तत्प्र योजकगुणशब्दानवयवत्वस्य गुणघटकाऽकारेऽसत्वेन हेतोश्च सत्वाद्व्यभिचार इति वाच्यम्। स्वघटितघटकयावद्वृतीत्यादिस्वीकारेणादोषात्। यावत्वस्य समुदाये गुणे पर्याप्तत्वेनाकारे तदभावान्न दोषः। न चैवं सनो नकारे नकारघटितसन्घटकं यावत् स्कार-अकार-न्कारस्तद्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकसन्त्वधर्मेण साक्षादवच्छिन्नविधेयताया अप्रसिद्ध्या व्यभिचारः। एवमनुवादे 'सन्यत' इत्यादौ नकारघटित सनीतिपदघटकं यावत् स्-अ-न्-इ इति तद्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक सत्व-अत्व-नत्व-इत्व-धर्मेण साक्षादवच्छिन्नविधेयताया अभावेन व्यभिचारः। एवं 'वुञ्छणि'त्यत्र ञकारघटितद्वन्द्वात्मकपदघटकयावद्वृत्तिश्रावणप्रत्यक्ष विषयतावच्छेदकधर्मेण साक्षादवच्छिन्नविधेयताया अभावेन व्यभिचार इति वाच्यम्। स्वघटितपदाघटितपदघटकानुबन्धेतरविभक्तीतरयावद्वृतीत्यादिस्वीकारेणादोषात्। ननु प्रत्युच्चारणं शब्दो भिद्यते चेत्सनः सकारे हेतो सत्वेन व्यभिचारः, न भिद्यते चेत्तर्हि मनिनोऽन्त्यनकारे भागासिद्ध्या पक्षतावच्छेदकावच्छेदेनानुमितौ हेतोर्व्यापकत्वस्य चापेक्षितत्वेन तदभावादनुमित्यनापत्तिरिति चेन्न स्वघटितघटकप्रयोज्य विधेयतावच्छेदकविशेष्यविशेषणशृंखलोपनिबद्धयावत्पदार्थसंकुचितधर्माभावादिति हेतोः स्वीकारेणादोषात्। मनिनोऽन्त्यनकारे विशेष्यविशेषणशृंखलोपनिबद्ध यावत्पदार्थसंकुचितधर्मो मकाराव्यवहितोत्तरत्वविशिष्टाकाराव्यवहितोत्तरत्वविशिष्टनत्व, नकाराव्यवहितपूर्वत्व विशिष्टाकाराव्यवहितपूर्वत्वविशिष्टमत्वरूपस्तदभावस्य सत्वेनादोषः । नन्वेवमपि कुक्मुम् घटकाद्यककारमकारे तादृशधर्मस्याभावेन तयोरन्त्ये भागासिद्धिस्तदवस्थेति चेन्न, विधेयतावच्छेदकधर्मवदनुबन्धाः स्वघटितघटकबोधकानवयवाः स्वघटितघटकबोधकावयवोत्तरत्वविशिष्टबोधकानवयवोत्तरत्वात्।1। विधेयतावच्छेदक धर्मवदनुबन्धेतरानुबन्धाः स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मावच्छिन्नविधेयता प्रयोजकपदानवयवाः स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्माभावादित्यनुमानद्वय स्वीकारेण सर्वदोषपरिहारात्। अथवा स्वविशिष्टविधेयतावच्छेदकधर्माभावात्। वै० स्वघटितघटक वृत्तित्व स्वघटितपदपर्याप्तानुपूर्व्यवच्छिन्नत्वोभयसम्बन्धेन। साध्यस्तु पूर्वोक्त एव। एवं चोभय सम्बन्धेन स्वविशिष्टविधेयताया अभावेन विधेयतावच्छेदकधर्मस्याप्यभावेन च तदभावस्य सर्वानुबन्धेषु सुलभमिति। केचित्तु पूवोक्तस्वघटितेत्यादिसाध्येन स्वाभावादिति हेतुनाऽनुमितिः कार्या, अभावीयप्रतियोगितावच्छेदकसम्बन्धस्तु स्वघटितघटकबोध्यतावच्छेदकधर्मवत्व स्वघटितघटक-बोधकावयवोत्तरत्वविशिष्टबोधकानवयवानुत्तरत्वोभयरूपः। अत्राव्यवत्वानवयवत्वे निश्चितानिश्चितस्वरूपे विवक्षिते इति न कोऽपि दोष इति प्राहुः। उपदेशेऽजिति सूत्रे उपदेशे किं अभ्र आँ अटित इति भाष्यसंगोपनाय अनेकान्तपक्षे स्वसमीपेऽनुबन्धे स्वनिरूपिताव्यवत्वारोपः इति कल्पनाया आवश्यकत्वे वुञ्छणादौ दोषवारणाय दघ्नचश्चकारेण स्वविशिष्टेऽनुबन्धे एव स्वनिरूपितावयवत्वारोपः। वै० स्वघटितपदाघटितपदघटकत्वसम्बन्धेनेति कल्पने 'घ्वसोरेद्धावभ्यासे'तिसूत्रस्थभाष्यविरोध परिहाराय स्वविशिष्टेऽनुबन्धे स्वनिरूपितावयवत्वारोपः। वै० स्वसामीप्य स्वाघटितपदाघटितेऽनूबन्धेतरघटितपदाघटकत्वोभयसम्बन्धेनेति स्वीकार्य इति दिक्॥४॥
एतत्परिभाषायाः व्याख्या नोपलभ्यते।