Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्


यदपि ननु हन्तेर्यङ्लुक्याशीर्लिङि वधादेशो न स्यादत आह – 

प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ।१०१।

षाष्ठद्वित्वस्य द्विःप्रयोगत्वसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनेनेदं न्यायसिद्धम्। अत एव 'जुहुधी'त्यादौ द्वित्वे कृते धित्वसिद्धिरिति, तदपि न, भाष्येऽदर्शनात्। किञ्च तेन सिद्धान्तेन प्रत्येकं द्वयोस्तत्त्वबोधनेऽपि समुदायस्य तत्त्वबोधने मानाभावः। अत एव 'दयतेर्दिगि' इति सूत्रेऽस्तेः परत्वाद् द्वित्वे कृते परस्यास्तेर्भूभावे पूर्वस्य श्रवणं प्राप्नोतीत्याशङ्क्य विषयसप्तम्याश्रयणेन परिहृतं भाष्ये। अन्यथा त्वदुक्तरित्यैकाज्द्विर्वचनन्यायेन समुदायस्यैवादेशापत्तौ तदसङ्गतिः स्पष्टैव। तस्मादुत्तरखण्डमादायैव यथायोगं तत्तत्कार्यप्रवृत्तिर्बोध्या। 'भूसुवोः'  इत्यस्य तदन्ताङ्गस्येत्यर्थात् प्राप्तस्य गुणनिषेधस्य बोभूत्विति नियम इति न तद्विरोधः। तस्माद्धन्तेर्यङ्लुकि 'वध्यादि'त्यादि माधवाद्युदाहृतं चिन्त्यमेवेत्यन्यत्र विस्तरः॥१०१॥

 

कामाख्या

वधादेशो न स्यादिति। लिङ्प्रकृतेर्यङ्लुगन्तसमुदायस्य जंहन्नित्यस्य हन्त्वाभावादुत्तरखण्डस्यार्थवत्वाभावात् पूर्वखण्डस्योत्तरखण्डेन व्यवधानादिति भावः। प्रकृतिबोधकशब्दो यङ्लुगन्तस्यापि बोधक इति परिभाषाफलितार्थः। अस्या न्यायसिद्ध्वमाह षाष्ठेतिबोधनेनेति। जंहन्निति समुदाये हन्त्वारोपस्य परिभाषया बोधनेनेति भावः। अतएवेति। प्रयोगद्वयसमुदाये प्रकृतिरूपत्वस्वीकारादेव। धित्वसिद्धिः। जुह्वितिसमुदाये हुत्वारोपेणेति शेषः। अदर्शनात्। परिभाषाया इति शेषः। न्यायसिद्धत्वं खण्डयति किञ्चेतितत्त्वबोधने। प्रकृतिरूपत्वबोधने। नामाभावात्। वर्णचतुष्टयात्मकसमुदायस्य वर्णद्वयात्मकहन्रूपत्वे प्रत्यक्षविरोधादित्यपि बोध्य्म्। अतएव। तत्समुदायस्य तत्त्वाभावादेव प्रत्येकं प्रकृतिरूपत्वादेवेत्यर्थः। अन्यथा। समुदायस्य प्रकृतिरूपत्वस्वीकारे। ननु यथा समुदायस्य प्रकृतिरूपत्वन्तथा प्रत्येकमपीति कदाचित्तस्यापि स्यादिति विषयसप्तम्याश्रयणमावश्यकमेवेत्यत आह एकाजितितदसंगतिः। तादृशसमाधानासंगतिः। ननु जुहुधीत्यादौ का गतिरत आह तस्मादितिउत्तरखण्डमादायैवेति। पूर्वोक्तभाष्यात् नानार्थक इत्यत्रानभ्यासविकार इति पर्युदासाच्चोत्तरखण्डस्यैवार्थवत्वादिति भावः। उभयोर्थवत्वन्तु न बोधावृत्तिप्रसंगात्। न चैवं प्रणिजगादेत्यत्रोत्तरखण्डस्यैव धातुत्वात्तस्य चाभ्यासेन व्यवधानात् कथं णत्वमिति वाच्यम्। गदनदादिनिरूपितोपसर्गस्य नेर्णत्वमित्यर्थेन व्यवधानेऽपि तत्प्रवृत्तेः। अत एव प्रण्यगादित्यत्र व्यवधानेऽपि णत्वसिद्धिः। ननु 'भूसुवोस्तिङी'त्यत्र तिङः प्रत्ययत्वेन तदादेरुपस्थित्या भूसुरूपतदादेर्गुणो नेत्यर्थे बोभूत्वित्यत्रोत्तरखण्डस्यागन्तुकत्वेन तदादित्वाभावात् समुदायस्य परिभाषाभावे भूत्वाभावाद् गुणनिषेधाप्राप्तेः बोभूत्विति गुणाभावनिपातनस्य भाष्योक्तनियमार्थत्वानुपपत्तिरत आह भूसुवोरितिचिन्त्यमिति । एवं च जंवध्यादित्येवेति तत्त्वम्॥१०१॥

नास्ति।