Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्


ननु 'प्रजिघायिषती'त्यादौ 'हेरचङी'ति विधीयमानं कुत्वं न स्यादत आह – 

प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्।९२।

'अचङी'ति प्रतिषेध एवास्या ज्ञापकः। इयं च कुत्वविषयैव। 'हेरचङि' इति सूत्रे भाष्ये स्पष्टेयम्॥९२॥

 


कामाख्या

कुत्वं न स्यादिति। संज्ञोद्देश्यककार्याणां संज्ञानिमित्तप्रत्ययाव्यवहितपूर्वत्वं निमित्तमिति नियमात्प्रकृते णिचा व्यवधानेन हिनोतेः सन्प्रत्ययाव्यवहितपूर्वत्वाभावात्। 'प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणे' तु णिजन्तमपि हिनोतिग्रहणेन गृह्यत इति कुत्वं प्राप्तमतश्चङि प्रतिषेधः सार्थकः। कुत्वविषयैवेति। अत एव शाययतीत्यत्र शपो लुग्न। भाष्येस्पष्टमिति। तत्र हि हेश्चङि प्रतिषेधानर्थक्यमङ्गान्यत्वात्। ज्ञापकन्तु चङोऽन्यत्र ण्यन्तेऽपि कुत्वभावस्येति॥९२॥

नास्ति।