यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्
तदाह -
यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम्॥४७॥
कामाख्या
यस्य च लक्षणान्तरेणेति। अत एव त्वापयति मापयतीत्यत्र मपर्यन्तस्य त्वमौ पररूपात्पूर्वं नित्यत्वाट्टिलोपः वृद्धिः, पुक्। अत्र पररूपे सति प्रकृत्यैकाजिति प्रकृतिभावेन यद्यपि निमित्तं विहन्यते तथापि अनया टिलोपस्य नित्यत्वम्।न च वार्णपरिभाषया टिलोप इति वाच्यम्। धर्मिग्राहकमानेन भावकार्ये एव तस्याः प्रवृत्तेरिति दिक्॥४७॥
नास्ति।