Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

वार्णादाङ्गं बलीयो भवति

नन्वेवमपीयायेत्यादौ द्वित्वे कृतेऽन्तरङ्गत्वात् सवर्णदीर्घत्वेन तदसिद्धिरत आह –

वार्णादाङ्गं बलीयो भवति।५५।

तेनान्तरङ्गमपि सवर्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः। 'अभ्यासस्यासवर्णे' इतीयङ्विधायकसूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम्। तद्धि 'ईषतुः' इत्यादावियङादिव्यावृत्यर्थम्। एतत्परिभाषाभावे तु 'ईषतुः' इत्यादावन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम्। इयङुवङौ ह्यभ्याससम्बन्धनिमित्तकत्वाद् बहिरङ्गौ। न चेयङादिरपवादः, 'येन नाप्राप्ति' न्यायेन 'इयर्ति' इत्यादिसकललक्ष्यप्राप्तयणपवादत्वस्यैव निर्णयादिति प्राञ्चः।
परे तु एतत्परिभाषाभावे 'अभ्यासस्य' इति सूत्रमेव व्यर्थम्। न च 'इयाय' 'इयेषे'त्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवृद्धेश्च 'द्विर्वचनेऽची'ति रूपातिदेशेनापहारे द्वित्वे कृते पुनः प्राप्ते गुणवृद्धीबाधित्वाऽन्तरङ्गत्वात्सवर्णदीर्घापत्तेः। न च 'इयर्तीत्यादौ तच्चरितार्थम्, तावन्मात्रप्रयोजनकत्वे उरित्येव ब्रूयात्। य्वोरित्यनुर्वत्तते। इणो यणि' ति साहचर्याद् व्याख्यानाच्च ऋधातोरेव ग्रहणम्। अर्तेरिवर्णस्येयडित्यर्थः। अभ्यासस्यार्ताविति अभ्यासस्यार्तेरिति वा गुरुत्वान्न युक्तम्। न च 'ए ऐ ओ औ' शब्देभ्य आचारक्विबन्तेभ्यो लिटीयङाद्यर्थं तत्सूत्रमावश्यकम्, तथा ओणृधातोर्ण्वुलन्तादिच्छाक्यजन्तात्सनि 'उवोणकीयिषती'त्याद्यर्थमावश्यकमिति वाच्यम्, षाष्ठप्रथमाह्निकान्तस्थभाष्यप्रामाण्येन तेषामनभिधानात्। अन्त्ये द्वितीयद्विर्वचनस्यैव सत्त्वेन त्वदुक्तप्रयोगस्यैव दुर्लभत्वात्। एवञ्च सम्पूर्णसूत्रस्य ज्ञापकता युक्ता।यद्यपि भाष्ये 'यदयमभ्यासस्यासवर्ण इत्यसवर्णग्रहणं करोति' इति ग्रन्थेन असवर्णग्रहणस्यैव ज्ञापकता लभ्यते, तथापि 'न ह्यन्तरेण गुणवृद्धी असवर्णपराभ्यासो भवति' इति तदूपपादनग्रन्थेन सम्पूर्णसूत्रस्यैव ज्ञापकता लभ्यते। अग्रेऽपि नैतदस्ति ज्ञापकमर्त्यर्थमेतत्स्यादित्यनेन सूत्रसार्थक्यमेव दर्शितम्। असवर्णग्रहणस्यैव ज्ञापकत्वे तु तद्व्यावर्त्यप्रदर्शनेन तत्सार्थक्यमेव दर्शितं स्यात्। न च 'अकृतव्यूह'परिभाषया 'इयेषे'त्यादौ सवर्णदीर्घाप्राप्तिर्यदि दीर्घो न स्यात्तर्हि गुणः स्यादिति सम्भावनायाः सत्त्वेन परिभाषाप्रवृत्तेः सूपपादत्वादिति कथं सम्पूर्णसूत्रस्य ज्ञापकतेति वाच्यम्, तस्या असत्त्वात्। सत्त्वे वैतद्भाष्यप्रामाण्येन यत्रान्तरङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशकबहिरङ्गविधेः प्राप्तिस्तत्रैव तत्परिभाषाप्रवृत्तिस्वीकाराच्च। न चान्तरङ्गत्वाद्दीर्घेऽपि 'इयाये'त्यादौ पूर्वान्तवत्त्वेनाभ्यासत्वादिवर्णत्वाच्च णल्यसवर्ण इयङ्विधानेन सूत्रं चरितार्थम्। न च 'अचि श्नु' इत्यनेन सिद्धिः, वृद्धिबाधनार्थत्वादिति वाच्यम्, प्रत्यासत्त्याऽसवर्णपदेन अभ्यासोत्तरखण्डसम्बन्ध्यसवर्णाच एव ग्रहणाच्छास्त्रबाधकल्पनापेक्षया परिभाषाज्ञापकत्वस्यैवौचित्याच्चेत्याहुः। सा चेयं धर्मिग्राहकमानादाङ्गवार्णयोः समानकार्यित्व एव। यत्तु समाननिमित्तकत्वरूपसमानाश्रयत्व एवैषेति। तन्न, ज्ञापितेऽपि 'इयायेयेषे'त्याद्यसिद्धेः, सूत्रवैयर्थ्यस्य तदवस्थत्वाच्च। 'स्योन' इत्यत्र त वक्ष्यमाणरीत्याऽस्या अनित्यत्वादप्रवृत्तौ गुणादन्तरङ्गत्वाद्यणादेशः। न चैवमपि 'इयाये'त्यादावियङ् दुर्लभः, तत्र कर्तव्ये वृद्ध्यादेः स्थानिवत्त्वेन असवर्ण इति प्रतिषेधादिति वाच्यम्, सूत्रारम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तेः। तच्च सामान्यापेक्षमभ्यासकार्ये तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्धकीभूतस्थानिवत्त्वं नेति। अत एव 'आरती'त्यादौ यणादेशस्य स्थानिवत्त्वादभ्यासस्य 'ढ्रलोप' इति दीर्घो दुर्लभ इत्यपास्तम्। दीर्घविधौ तन्निषेधाच्च। अरियरियादित्यत्र तु स्थानिवत्वेनेयङ् भवत्येव, तस्य स्थानिवत्त्वस्याभ्यासकार्यप्रतिबन्धकत्वाभावात्। इयं चाङ्गसम्बन्धिन्याङ्ग एवेति 'स्वरितो वा' इति सूत्रे भाष्ये। तत्र हि कुमार्यै इत्यादौ यणुत्तरमाडुक्तः। इयं चानित्या 'च्छ्वोः' इति सतुङ्निर्देशात्। अन्यथा अन्तरङ्गत्वात् पूर्वं तुकः शादेशे तुकोऽप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्यन्यत्र विस्तरः॥५५॥

 

कामाख्या

अन्तरङ्गपरिभाषाबाधिकामवतारयतिनन्वेवमिति। 'द्विर्वचने ची'ति पूर्वन्द्वित्वे इ इ अ इति स्थिते वृद्धिदीर्घयोः प्राप्तयोरन्तरङ्गत्वाद्दीर्घे पश्चाद्वृद्धावपि इयायेति न स्यादिति भावः। आदिना इयेषेत्यादेः संग्रहः। दीर्घे कर्तव्ये द्वित्वस्य बहिरङ्गासिद्धत्वन्तु न 'नाजानन्तर्य' इति निषेधात्। वार्णात्। वर्णत्वव्याप्यधर्मावच्छिन्नोद्देश्ककार्यात्। आङ्गम्। अङ्गत्वावच्छिन्नोद्देश्ककार्यं बलीय इति परिभाषार्थः। तेनेति। वार्णादाङ्गमिति वचनेन। दीर्घापेक्षया इयङुवङोर्बहिरङ्गत्वमुपपादयति। इयङुवङौहीति। अभ्याससम्बन्धिभूताङ्गनिमित्तकत्वादिति भावः। न च ईयतुरित्यत्र अनवकाशत्वाद्दीर्घ इणः कितीति दीर्घे उत्तरखण्डस्य इणो यणिति यणि। 'अचः परस्मिन्निति' स्थानिवत्वेन इयङ्वारणार्थमसवर्णग्रहणमावश्यकमिति वाच्यम्। 'ओः पुयण्जी'ति सूत्रारम्भसामर्थ्येन अभ्यासकार्ये कर्तव्येऽचः परस्मिन्नित्यस्याप्रवृत्तिरिति सामान्येन ज्ञापनात्। न च नवीनमतेऽर्थकृतबहिरङ्गत्वस्यानाश्रयणे न अभ्याससंज्ञानिमित्तत्वेन कथं बहिरङ्गत्वमिति वाच्यम्। 'ह्वः संप्रसारणमि'ति सूत्रारम्भसामर्थ्यादभ्यासोद्देश्ककार्याणामभ्याससंज्ञाप्रयोजकद्वित्वप्रयोजकप्रत्ययनिमित्तकत्वकल्पनात्। अन्यथाऽजूहवदित्यत्र 'अभ्यस्तस्य चे'त्यनेनैव सिद्धे तद्वैयर्थ्यं स्पष्टमेव। अथवा। द्वित्वप्रयोज्यसंज्ञानिमित्तककार्याणां द्वित्वनिमित्तप्रत्ययाव्यवहितपूर्वत्वनिमित्तकत्वमिति। उक्तज्ञापकेन ज्ञापनात् ज्ञापिते त्वस्मिन् 'अभ्यस्तस्य चे'त्यस्य द्वित्वप्रयोज्याभ्यस्तसंज्ञानिमित्तकत्वेन द्वित्वनिमित्तभूतप्रत्ययाव्यवहितपूर्वत्वनिमित्तकत्वात् णिचा व्यवधानेनाप्राप्तेः। अत एव ण्वुलन्तह्वायकशब्दप्रकृतिकक्यजन्तात् सनि जिह्वायकीययिषतीत्यत्राभ्यस्तस्य चेति संप्रसारणन्न। केचित्तु प्रचीनमतेऽसवर्णग्रहणस्य ज्ञापकत्वेन तन्मते संज्ञाकृतबहिरङ्गत्वस्याश्रयणान्न दोष इत्याहुः। न चेयङादिरिति। क्वचि 'अकः सवर्णे' इति क्वचिद् 'इको यणची'ति शास्त्रद्वयस्य प्राप्तिरित्यन्यतरत्वेन व्यापकत्वमादाय बाध इति भावः। यणपवादत्वस्यैवेति। यथा 'कुप्वो'रिति शास्त्रं 'विसर्जनीयस्य स' इति सकललक्ष्यप्राप्तस्यैव बाधकं न तु 'शर्परे विसर्जनीय' इत्यस्य तद्वदिति भावः। न च ऋ ऋतीति दशायाम् 'अर्तिपिपर्त्ये'रितित्वेन यण्सवर्णदीर्घयोस्तक्रन्यायेन बाधादित्वप्रवृत्त्युत्तरं न यण् विषयतेति कथं यणपवादत्वमिति वाच्यम्। ऋति इति स्थिते शप्गुणयोः प्राप्तौ परत्वाद्गुणे ततः शपि श्लौ, अरशब्दस्य द्वित्वे 'अर्तिपिपर्त्यो'श्चेतीत्वे ततो यणः प्राप्तिरिति तक्रन्यायविषयाभावेन इयङो यणपवादत्वस्य सौलभ्यात्। स्वमतमाह परेत्वित्यादिचरितार्थमिति। सवर्णाच्परत्वाभावाद्दीर्घस्य अनवकाशत्वेन बाधाद्यणश्चाप्राप्तेरिति भावः। रूपातिदेशादिति। रूपातिदेशे हि पूर्वरूपापहारं विना ऊर्णुनविषतीत्यादौ गत्यन्तराभावात् पूर्वजातगुणवृद्ध्योरपहारे, धातुस्वरूपे द्वित्वे जाते, पुनः प्राप्ते गुणवृद्धी बाधित्वा सवर्णदीर्घापत्त्या सूत्रवैयर्थ्यस्य सूपपादत्वादिति भावः। उरित्येवेति। नन्वेवं न्यासे 'अङ्गस्य अची'त्यस्य चानुवृत्तौ ऋवर्णान्ताङ्गस्याचि परे इयङित्यर्थे कर्तारावित्यादावपि स्यादत आह य्वोरिति। ऋकारस्थानिकेकारस्येत्यर्थः। न चैतादृशार्थे अरियर्तीत्यादौ रिगागमस्य इयङ् न स्यादिति वाच्यम्। ऋकारसम्बन्धीकारस्येयङित्यर्थेनादोषात्। सम्बन्धश्च, उद्देश्यतानिरूपितविधेयताश्रयत्वरूपः। नन्वेवमपि श्यर्तीत्यत्रोक्तरीत्या ऋकारसम्बन्धीकारस्याभावेनेयङ् न स्यादत आह इणोयणिति। ननु सूत्रान्तरसाहचर्यस्यादर्शनादाह व्याख्यानादिति। शिष्टकृतादिति भावः। न ह्येकमुदाहरणं योगारम्भं प्रयोजयतीति न्यायेन सूत्रस्य ज्ञापकताप्रदर्शकभाष्यादिति यावत्। 'अभ्यासस्यासवर्णे' इति सूत्रस्य चारितार्थ्येन कथं ज्ञापकत्वमित्याशयेन शङ्कतेचेत्यादिना।तत्सूत्रमावश्यकमिति। न चात्र 'इजादेश्चे'त्याम् स्यादिति वाच्यम्। अनृच्छ इति पर्युदासेन औपदेशिकेऽजादिर्धातोरेव तद्विधानात्। अनभिधानात्। सूत्रस्य ज्ञापकप्रदर्शने इयर्तीत्यादावेव चारितार्थ्यमाशंक्य उरिति न्यासेन समाधानपरभाष्येण एषामनभिधानत्वम्। किञ्च प्रत्ययग्रहणमपनीय तत्स्थाने अनेकाच इति वक्तव्यमित्यारम्भप्रत्याख्यानपक्षयोः फलैक्यायानभिधानत्वम्। अन्त्ये। उवोणकीयिषतीत्यत्र। न च इण् धातोर्लिटि सिप्थलि भारद्वाजनियमेनेटो वैकल्पिकत्वात्तदभावे 'द्विर्वचनेऽची'त्यस्याप्राप्त्या पूर्वं गुणे ततो द्वित्वेऽभ्यासह्रस्वे इ एथ इति स्थिते इयङर्थं सूत्रमावश्यकमिति वाच्यम्। ह्रस्वं बाधित्वाऽन्तरङ्गत्वादयादेशस्यैव प्रवृत्तेः। प्राचीनरीत्या शंकते चाकृतेतिइयेषेत्यादाविति। आदिना इयायेत्यस्य संग्रहः। दीर्घो नस्यादिति। न च यदि गुणो न स्यात्तर्हि दीर्घः स्यादिति संभावनया गुणस्याप्यप्रवृत्यापत्तिरिति वाच्यम्। गुणस्यान्तरङ्गत्वाभावेन तत्रैतदप्रवृत्तेः। यत्र बहिरङ्गेणान्तरङ्गनिमित्तविनाशसंभावना तत्रैव तत्प्रवृत्तेः। तस्याः। अकृतव्यूहपरिभाषायाः। असत्वात्। सिद्धान्ते इति शेषः। सत्वेवेति। प्राचीनमत इति शेषः। एतद्भाष्येति। ज्ञापकतापरभाष्येत्यर्थः। यत्रेति। प्रकृते न तथा द्वित्वात् पूर्वमपि गुणस्य प्राप्तेः। प्रत्यासत्येति। उत्तरखण्डपूर्वस्यैव अभ्यासत्वेन अभ्यासकार्यसान्निध्यस्योत्तरखण्डे सत्वादिति भावः। ननु प्रत्यासत्त्या 'अभ्यासस्ये'ति सूत्रस्य विलक्षणार्थकत्वमाश्रित्य परिभाषाज्ञापकतया चारितार्थ्यकल्पनापेक्षया 'अचिश्न्वि'तिसूत्राबाधकाचोऽञ्णितीतिसूत्रस्य बाधकतया सार्थकत्वमस्त्वित्यत आह शास्त्रबाधेतिधर्मिग्राहकेति। वार्णकार्यापेक्षयाङ्गस्य बलवत्वबोधकत्वं धर्मः, तदाश्रयः परिभाषारूपः, तद्ग्राहकं मानम् 'अभ्यासस्ये'ति सूत्रम्, तस्मात् ज्ञापकसाजात्यादिति यावत्। समानकार्यित्वेएव। समानस्थानिताकत्वे एव। ननु समाननिमित्तकत्वे समानोद्देश्यकत्वेनेति भावः। तत्त्वं च वार्णशास्त्रीयस्थानितासमानाधिकरणस्थानिताकत्वम्। यथा इयायेत्यादौ 'अकः सवर्ण' इति शास्त्रीयस्थानिता परेकारनिष्ठा, तत्समानाधिकरणा वृद्धिशास्त्रीया स्थानितास्तीति लक्षणसमन्वयः। अत एव गाते इत्यत्र गा अ आते इति स्थिते 'आतो ङित' इत्यनेनेयादेशे प्राप्ते सवर्णदीर्घे च प्राप्ते, अन्तरङ्गत्वादीर्घ एव समानस्थानिताकत्वाभावेन अस्या अप्रवृत्तेः। यत्तु वार्णशास्त्रीयोद्देश्यता समानाधिकरणोद्देश्यताकत्वन्तत्वमिति। तन्न, गान इत्यत्र 'अकः सवर्ण' इति शास्त्रीयोद्देश्यताधिकरणे औकारे 'आने मुगि'ति शास्त्रीयोद्देश्यतायाः सत्वेन परिभाषया मुगागमापत्तेः। चछावित्यत्र छाछा अ इति स्थिते अन्तरङ्गत्वादभ्यासाकारस्य तुकि अजन्ताभ्यासत्वाभावेन ह्रस्वो न स्यादित्याशंक्य अभ्यासावयवस्याचो ह्रस्व इति भाष्योक्तवैयधिकरण्यान्वयोऽपि विरूद्धः स्यात्। त्वन्मते ह्रस्वे समानकार्यित्वसत्वेन पूर्वमेव ह्रस्वसंभवात्। न च त्वं स्त्रीत्यत्र त्व अद् अमिति स्थिते अन्तरङ्गत्वाद् 'अतो गुणे' इति कृते, टिलोप इत्यदन्तत्वाभावान्नटाविति कौमुदीग्रन्थासंगतिः। लोपीयस्थानिता पररूपीयस्थानितयोरपर्याप्त्याऽकारनिष्ठत्वेन समानस्थानिकत्वेन अनया पूर्वं टिलोपे, टापो दुर्वार इति वाच्यम्। वार्णशास्त्रीयस्थानितावच्छेदकपर्याप्त्यधिकरणपर्याप्तस्थानिताकत्वस्यैव समानस्थानिताकत्वपदार्थतयाऽदोषात्। इयायेत्यादौ दीर्घीयस्थानितावच्छेदकपरत्वपर्याप्तिः परेकारे, तत्रैव वृद्धिस्थानितापर्यप्तेः सत्वात्। त्वमित्यत्र पररूपीयस्थानितावच्छेदकपरत्वपर्याप्त्यधिकरणे परेऽकारे लोपीयस्थानितापर्याप्तेरभावात्। हलन्ता एवादेश इति भाष्यसंमतत्वाच्च। अत्र स्थानिताया निवेशादागमस्थलेऽस्या अप्रवृत्तिः। समानकार्यित्वनिवेशे तु आगमस्थलेऽपि प्रवृत्यापत्तौ गानः, चछौ, उछति इत्यादौ दोषापत्तेरिति दिक्।

न च अतिप्रसङ्गवारणाय अस्या अनित्यत्वाश्रयणस्यावश्यकत्वेन समानकार्यित्वविषयकत्वकल्पनाया नोपयोग इति वाच्यम्। असमानस्थानिकत्वेनाप्रवृत्तिस्थलानामननुगमात्। यथा कथञ्चिदनुगमेऽपि लाघवाभावाच्च। प्राचीनमतं निरसितुमाह यत्विति।समाननिमित्तकत्वे। आङ्गवार्णयोरेकनिमित्तकत्वे। ज्ञापितेऽपीति। इयायेत्यादौ परेकारनिमित्तकत्वं दीर्घस्य, प्रत्ययनिमित्तकत्वं वृद्धेरिति समाननिमित्तकत्वाभावः। ऊषतुरित्यत्र ह्रस्वत्वस्याभ्यासोद्देश्यकत्वेन प्रत्ययनिमित्तकत्वात्। सवर्णदीर्घस्य तथात्वाभावेन समाननिमित्तकत्वाभावादस्या अप्रवृत्तौ पूर्वं सवर्णदीर्घे ह्रस्वत्वापत्तेश्च। कारक इत्यत्र यण्वृद्ध्योः समाननिमित्तकत्वाभावेन अन्तरङ्गत्वाद्यणापत्तेश्च। न च वार्णशास्त्रीयसप्तम्यन्तपदप्रयोज्यविषयतासमानाधिकरण यत्किञ्चित्पदप्रयोज्यविषयताप्रयोजकपदघटितत्वं समाननिमित्तकत्वमिति न दोष इति वाच्यम्। गाते गान इत्यादौ दोषापत्तेर्दुर्वारत्वात्। न च वार्णशास्त्रीययत्किञ्चित्पदप्रयोज्यविषयतासमानाधिकरणस्थानिताकत्वं तत्त्वमिति वाच्यम्। स्योन इत्यत्र गुणस्य तथात्वेन परिभाषाप्रवृत्तेर्दुर्वारतया प्राचीनानां समाननिमित्तकत्वे एवैषेत्युक्तेः फलस्य दौर्लभ्यात्।

श्रीमद्गुरुचरणास्तु आङ्गशास्त्रविशिष्टविषयताप्रयोजकसप्तम्यन्तपदघटितत्वं वार्णशास्त्रीयसमाननिमित्तकत्वमभिप्रेतम्। वै. स्वीयस्थानितापर्याप्त्यधिकरणवृत्तित्व स्वघटकसप्तम्यन्तपदप्रयोज्यविषयताश्रयघटकवृत्तित्वान्यतरसम्बन्धेन। यथा स्योन इत्यत्र यण्शास्त्रीयसप्तम्यन्ताच् पदप्रयोज्योकारनिष्टविषयताया गुणशास्त्रवैशिष्ट्याभावेन समाननिमित्तकत्वाभावात् परिभाषाया अप्रवृत्तिः। कारक इत्यत्र यण्शास्त्रीयसप्तम्यन्ताच्पदप्रयोज्यविषयतायाः वृद्धिशास्त्रीयसप्तम्यन्तणित्पदप्रयोज्यविषयताश्रयाकघटकाकारवृत्तित्वेन समाननिमित्तकत्वसत्वात् परिभाषाप्रवृत्तिः सुलभा। इयायेत्यत्र दीर्घीयसप्तम्यन्ताच्पदप्रयोज्यविषयताया वृद्धिशास्त्रीयस्थानितापर्याप्त्यधिकरणपरेकारवृत्तित्वात् समाननिमित्तकत्वेन परिभाषाप्रवृत्तिः सुलभा। एवं रीत्या सर्वत्र दोष गुणौ स्वबुद्ध्या विवेचनीयावित्याहुरिति दिक्।

ननु सिवेर्न्नप्रत्यये, नित्यत्वाद्गुणात् पूर्वमुठि, सि ऊन इति स्थिते अन्तरङ्गत्वद्यणि स्योन इति। इदानीमाङ्गत्वाद्गुण एव स्यादत आहस्योनइतिइयङ्दुर्लभइति। न च इ इ अ इति स्थिते वार्णपरिभाषया पूर्वं वृद्धौ ऐकारे, स्थानिवद्भावेन सवर्णाच्त्वेऽपि आयादेशे कृते, आय्शब्दे सवर्णाच्त्वं दुर्लभम्। पुनः स्थानिवद्भावेन सवर्णाच्त्वन्तु न लक्ष्ये लक्षणन्यायात् इति वाच्यम्। स्थानिवदित्यत्र स्थानिस्थान्यपि गृह्यते। तथा च आयादेशः स्वस्थानिस्थानी इकारस्तद्वृत्तिसवर्णाच्त्ववान् स्यादितीयङादेशाप्राप्तेरित्याशयात्। अत एव सुनयिकेत्यत्र यकारस्य धात्वन्तत्वाद्धात्वन्तयकोस्तु नित्यमितीत्वसिद्धिः। सूत्रारम्भसामर्थ्यादिति। न च इयेथेत्यत्र पूर्वं गुणे, ततो द्वित्वे, ह्रस्वे च तस्य स्थानिभूतादचः पूर्वत्वेन दृष्टत्वाभावात् स्थानिवद्भावाप्राप्त्या चारितार्थ्यमिति वाच्यम्। अभ्यासस्यानणीत्येव सिद्धे सामान्यसूत्रस्य असवर्ण इत्यस्य वा वैयर्थ्यात्। ज्ञापिते तु इयर्तीत्यत्रोत्तरखण्डस्य स्थानिवद्भावाप्राप्त्याऽकारेऽनणीति निषेधापत्तेस्तथान्यासस्य दुष्टत्वात्। वस्तुतस्तु पूर्वोपस्थितनिमित्तकत्वेनान्तरङ्गत्वात् प्रतिपदोक्तत्वाद्वा। पूर्वं द्वित्वे, ततः प्रतिपदोक्तत्वाद'र्त्तिपिपर्त्योश्चे'तीत्वे हलादिः शेषे, ऋकारे एव अभ्यासस्यानणीति सिद्धे, सूत्रस्य अवर्णग्रहणस्य वा वैयर्थ्यं स्पष्टमेवेति ज्ञापकत्वं सम्यगेव। अभ्यासस्येयङुवङादेशे कर्तव्ये तदुत्तरखण्डादेशस्य स्थानिवत्वं नेति। विशेषापेक्षज्ञापने बहुलक्ष्यासिद्धिरतः सामान्यापेक्षं ज्ञापकमाह। तच्चेति। तत्स्वरूपमाह अभ्यासकार्येति। तेन निन्यतुरित्यादौ नलोपे कर्त्तव्य 'अचः परस्मिन्नि'ति स्थानिवद्भावो भवत्येव 'अनिदितामि'ति न लोपस्याभ्यासकार्यत्वाभावात्। उत्तरखण्डादेशस्येति। तेन वव्रश्चेत्यत्र 'न संप्रासरण' इति निषेधे कर्तव्ये उरदत्वस्य स्थानिवत्वप्रतिषैधो न तस्योत्तरखण्डादेशत्वाभावात्। अत एवेति। सामान्यपेक्षज्ञापकाश्च यणादेव। आरतीति। ऋधातोः 'सूचिसूत्री'त्यादिना यङि, तस्य लुकि, लटो झेरादादेशे, प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वे, अभ्यासस्योरदत्वे, रुकि च कृते उत्तरखण्डस्य यणि. 'रो री'ति लोपे, ढ्रलोप इति दीर्घे कर्त्तव्ये यणः स्थानिवत्वान्नेति भावः। दीर्घविधौतन्निषेधाच्चेति। न च 'न पदान्ते'ति सूत्रे दीर्घपदेन त्रैपादिकस्यैव ग्रहणम्, अत एव पूर्वत्रासिद्धे न स्थानिवदित्याश्रित्य वरे यलोप स्वरवर्जं द्विर्वचनादीनां ग्रहणं प्रत्याख्यातं भाष्ये इति वाच्यम्। चिण्णमुलो दीर्घोऽन्यतरस्यामिति विहितदीर्घस्याप्यत्र ग्रहणावश्यकत्वेन वर्जकोटौ दीर्घस्याप्युपलक्षणत्वेनादोषात्। स्पष्टञ्चेदं चिण्णमुलोरिति सूत्रे शब्देन्दुशेखरे। न चैवमपि स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवदित्युक्तेरिदमयुक्तमिति वाच्यम्। तत्र दीर्घग्रहणस्य फलाभावात्। विव्यतुरित्यत्र 'उपधायाश्चे'ति दीर्घो न। प्रत्यासत्त्या धात्ववयवस्यैवेको दीर्घविधानेन उत्तरखण्डस्यैव धातुत्वमिति सिद्धान्तेनादोषात्। प्रतिबन्धकीभूतेति विशेषणस्य फलमाह अरिय्रियादिति। तस्यैव लिङि, रिगागमे, उत्तरखण्डस्य रिङादेशेऽपि तस्य स्थानिवद्भावादियङादेशः सिध्यति। तस्य स्थानिवद्भावस्याभ्यासकार्यसाधकत्वात्। यदि त्वत्रान्तरङ्गत्वाद्रिङादेशात्पूर्वमेवेयङ्। अत एव रिङादेशस्य स्थानिवद्भावद्यलोपो न। पूर्वं रिङादेशे तु यकारस्य स्थानिभूतादचः पूर्वत्वाभावेन तत्वाप्राप्तौ यलोपापत्तेर्दुर्वारत्वादित्युच्यते तदा प्रतिबन्धकीभूतेति विशेषणं व्यर्थम्। किञ्च तन्निवेशे इयतुरित्यत्र यणापत्तिः स्थानिवद्भावस्य यण्साधकत्वेन प्रतिबन्धकत्वाभावात्। इयायेत्यत्र परखण्डादेशस्य स्थानिवत्वेन अभ्यसस्य लघूपधगुणः स्यात्। अचकारादित्यत्र वृद्ध्यादेशस्य स्थानिवद्भावेन लघुपरत्वामादाय दीर्घसन्वद्भावौ स्याताम्। एवमनूनवत् अववर्तत् इत्यादि दोषो बोध्यः । न च अभ्यासकार्ये इत्यस्य अभ्यासत्वावच्छिन्नोद्देश्यताके कार्ये इत्यर्थ इति वाच्यम्। अथापि अचकारादित्यादिदोषस्य तादवस्थ्यादितिदिक्। इयञ्चाङ्गेति। अङ्गनिष्ठोद्देश्यताके अङ्गाधिकारस्थे कार्ये एवेयं प्रवर्तते। धर्मिग्राहकमानादिति भावः। चिन्त्यमिदम्। ज्ञाने इत्यत्र श्यादेशस्य अङ्गसम्बन्धित्वाभावेन अन्तरङ्गत्वाद्वृद्धौ ततः श्यादेशे रूपासिद्धेः। कुमार्यै इत्यत्राङ्गत्वेऽपि अङ्गनिष्ठोद्देश्यताकत्वविरहान्न पूर्वमाडिति भावः। सतुङ्निर्देशादिति। छ्वोरिति सूत्रे छकारात्पूर्वं तकारः प्रश्लिष्यते तेन प्रष्टेत्यादौ तुग्विशिष्टस्य शकारः प्रश्लेषाभावेऽन्तरङ्गत्वाच्छेचेति तुकि छकास्य शकारेऽपि तकारश्रवणापत्तिः। अस्या अनित्त्वाभावे तु अनयैव तुकः पूर्वमेव शकारे सतुग्निर्देशस्य वैयर्थ्यं स्पष्टमेव। न च समानस्थानिकत्वाभावात् कथं प्रवृत्तिः परिभाषाया इति वाच्यम्। तस्यापि अनित्यत्वमूलकत्वात्। वस्तुतः सतुङ्निर्देशेन समानस्थानिकत्वे एवेयमित्येव ज्ञाप्यते इति केचित्तन्न स्योन इत्यादौ अनया गुणापत्तेः। चञ्च्छम्यते इत्यादावनया तुकः पूर्वं नुमः प्रवृत्तेरभावापत्तेश्चेति दिक्॥५५॥

परिभाषार्थमञ्जरी

पूर्वप्रवृत्तगुणस्येति। पूर्वप्रसक्तगुणस्येत्यर्थ:। रूपातिदेशेऽनपहार इति। अनपहारे इति छेदः। 'द्विर्वचनेऽची'तिरूपातिदेशे सति योऽपहारस्तस्मिन्नसतीत्यर्थः। 'द्विर्वचनेऽची'ति निषेधे सतीति यावत्। अत एव 'द्विर्वचनेऽची'ति गुणवृद्ध्योर्निषेध इत्युपपादकविवरणशेखरादिग्रन्था: संगच्छन्ते। किञ्चातिदेशपक्षे स्थानिवत्पदादेशपदानुवृत्तिशब्दाधिकारेण 'न पदान्त'सूत्रोत्तरसूत्राकरणदोषसहनापेक्षयादेशपदेनञ्ग्रहणमात्रमनुवर्त्य [1]निषेधकत्वस्वीकारस्यैव युक्तत्वादिति दिक्। कस्यचिन्मतेनाह समानकार्य्यित्व एवेति। यद्वा। एवस्त्वर्थो धर्म्मिग्राहकमानादित्यस्याग्रे योज्यः। धर्मिग्राहकमानात्तु समानकार्य्यित्वे एव प्रवृत्तिः। तत्र तत्राकररीत्या तु तदभावेऽपीत्याशयः। एवञ्च[2] न समानकार्य्यित्वे न वा समाननिमित्तकत्वे आग्रहः। किन्तु परिभाषामात्रं ज्ञाप्यते। सा चेयमित्याद्युक्तिस्तु समाननिमित्तकत्ववादिनाम्मते तदलाभबोधनाय। ननु विषयविशेषमनादृत्य परिभाषायाः प्रवृत्ति स्वीकारे स्योनो न सिद्धेत्। अत आह स्योन इत्यत्र त्विति। समानकार्य्यित्व एव परिभाषाप्रवृत्तिवादिनो मते विश्न इति लक्ष्ये तुक्-शादेशयोरेकस्थानिकत्वाभावेन परिभाषाया अप्रवृत्तौ तुग्ग्रहणात्तद‌नित्यत्वस्य ज्ञापयितुं अशक्यत्वेन स्योन इत्यत्र दोषध्रौव्याद‌‌नित्यत्वप्रतिपादनेन पूर्व्वोक्तलक्ष्ये[3] दोषोद्धारकग्रन्थासंगत्या यथाश्रुतन्तु न साध्विति विभावयामः। एतत्परिभाषाप्रवृत्तिसमानकार्य्यित्वे एवेति न नियम इति वृद्धोक्तेरवसेयम्। किञ्च पूर्व्वोक्ताग्रहे तु कुमार्य्यै इत्यत्रापि आङ्गवर्णयो: समानकार्य्यित्वस्याभावे परिभाषाया अप्राप्त्यैव दोष‌वारणेऽङ्गसम्बन्धिन्याङ्ग एवेयमित्यस्य वैयर्थ्यं[4] स्यादिति दिक्। नन्वसवर्णग्रहणस्यैव ज्ञापकताभाष्याक्षरमर्य्यादया लभ्यते। न चोपपादनभाष्यविरोधः। इयाय इत्यत्र 'द्विर्वचनेऽची'ति गुणनिषेधे, द्वित्वे, अकृतव्यूहपरिभाषया दीर्घाप्रवृत्तौ, गुणे[5] सूत्रसार्थक्यं मनसि निधाय सिद्धान्तिनोक्तम्। यदयम् 'अभ्यासस्यासवर्णे' इत्यसवर्णग्रहणं करोतीत्युक्तम्। पूर्व्वोक्तमवकाशमजानत एकदेशिनः सूत्रमेव ज्ञापकमास्तु इत्यभिप्रायं मनसि कृत्वा सिद्धान्ती पृच्छति। कथं कृत्वा ज्ञापकमिति एकदेशी सूत्रस्य ज्ञापकत्वमुपपादयति। नह्यन्तरेणेत्यादिना। सिद्धान्ती स्वाशयं प्रकाशयति। नैतदस्तीत्यादिना। अत्यर्थमिति भाष्यमुपलक्षणम् इयायेत्यादेरपि भाष्यस्य सुयोजत्वात्। न चेदृशी [6]भाष्यकारशैलीति चेन्न। विप्रतिषेधसूत्रेऽन्तरङ्गपरिभाषायाः ज्ञापकं यद्यं 'वाह ऊठि'ति उठं शास्ति इत्येवोक्तत्वेन तादृशशैलेर्व्यभिचरितत्वात्[7]। किञ्चाग्रे सूत्रोपहारेऽपि असवर्णग्रहणमेव ज्ञापकमित्येवकारस्य भाष्ये दर्शनाच्चेति चेन्न। भाष्ये प्रथमत इयाय इययिथेत्यत्रान्तरङ्गत्वाद्दीर्घः स्यादित्याशङ्क्य वार्णपरिभाषया तं निवार्य्य ज्ञापकोपपादनेन परिभाषोपसंहारे इयर्त्ति रूपं नैकमुदाहरणमित्यग्रिमभाष्येण च त्वदुक्तकल्पनाया दत्तजलाञ्जलित्वादित्यवधेयं सुधीभिरिति दिक्॥५५॥

[1]अनिषेधकत्व इति के

[2]एवञ्चेति। ननु पूर्वं मूले उक्तं समानकार्यित्व इयं परिभाषायाः कुमार्यै इत्यत्र आडागमे विभक्तेर्यण ति इकारस्य तथा नित्यत्वज्ञापने प्रष्ठेत्यादौ तुगागमे इत्यादि गे।

[3]लक्षणे इति छे

[4]वैयर्थादिति गे

[5]'वृद्धौ' इति च-घपुस्तके पाठः।

[6]भाष्यकाररीतीति के

[7]व्यभिचारात् इति के