Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अर्थवद्ग्रहणे नानर्थकस्य

ननु 'प्रोढवान्' इत्यत्र 'प्रादूहोढे'ति वृद्धिः स्यादत आह -

अर्थवद्ग्रहणे नानर्थकस्य।१४।

विशिष्टरूपोपादाने उपस्थितार्थस्य शब्दं प्रति विशेषणतयाऽन्वयसम्भवे त्यागे मानाभावोऽस्या मूलम्। अत्रार्थः कल्पितान्वयव्यतिरेककल्पितः, शास्त्रीयोऽपि गृह्यते इति 'सङ्ख्यायाः' इति सूत्रे भाष्ये स्पष्टम्। इयं वर्णग्रहणेषु नेति 'लस्य' इत्यत्र भाष्ये स्पष्टम्। अत एवैषा विशिष्टरूपोपादानविषयेति वृद्धाः। एतन्मूलकमेव 'येन विधि'रित्यत्र भाष्ये पठ्यते - 'अलैवानर्थकेन तदन्तविधिः' इति। किञ्च 'स्वं रूपमि'ति शास्त्रे स्वशब्देनाऽऽत्मीयवाचिनाऽर्थो गृह्यते। रूपशब्देन स्वरूपम्। एवञ्च तदुभयं शब्दस्य संज्ञीति तदर्थः। तत्रार्थो न विशेष्यस्तत्र शस्त्रीयकार्यासम्भवात्, किन्तु शब्दविशेषणम्। एवञ्चार्थविशिष्टः शब्दः संज्ञीति फलितम्। तेनैषा परिभाषा सिद्धेति भाष्ये स्पष्टम्॥१४॥

 

कामाख्या

ऊढत्वरूपानुपूर्वीविशिष्टे विधीयमाना वृद्धिरूढवद्घटकोढशब्देऽपि स्यादतः परिभाषामवतारयतिनन्वेवमिति। भाष्यमते प्रमाणमाह विशिष्टरूपोपेतिअयं भावः - न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते इत्यादिसिद्धान्ताच्छब्दाच्छब्दार्थयोपस्थितौ शब्दविशिष्टेऽर्थे अर्थविशिष्टे शब्दे च शक्तिकल्पने शक्यतावच्छेदकत्वे गौरवाल्लाघवात् खण्डशः शक्तिः कल्प्यते। तत्र लोके घटमानयेत्यादौ शब्दे आनयनादिकार्यस्य बाधादर्थविशेष्यक एव बोधः, शास्त्रे च 'राज्ञो यदि'त्यादौ अर्थस्यविशेष्यतया भानासंभवात् प्रातिपदिकादित्यनेनान्वयासंभवाच्च विशेषणत्वमेव। एवंच तत्तर्थविशिष्टस्यैव शब्दस्य ग्रहणेनार्थवत्परिभाषा सिद्धेति। अत्रार्थवत्वं च अर्थविषयकबोधजनकत्वप्रकारकवक्तृतात्पर्यीयविशेष्यता पर्याप्त्यधिकरणत्वम्। न चावयवेऽपर्याप्तस्य समुदायेऽपर्याप्तत्वमिति रीत्या दोषस्तादवस्थ इति वाच्यम्। वैयाकरणमतेऽवयवेऽपर्याप्तस्यापि समुदाये पर्याप्तिस्वीकारात्। अत एव समासग्रहणन्नियमार्थम् अन्यथा राजन् ङस् पुरुष सु इति समुदायावयवेऽपर्यप्तप्रत्ययान्ततदादिभिन्नत्वस्य समुदाये पर्याप्त्यभावेन प्रत्ययान्ततदादिभिन्नत्वाभावात् पूर्वेणाप्राप्तौ नियमत्वानुपपत्तेः। अत एव च सुसखिनेत्यस्य सिद्धिः। अन्यथाऽवयवेऽपर्याप्तसखिभिन्नत्वस्य समुदायेऽप्यपर्याप्तौ घित्वानापत्तेः। ननु लोकेऽर्थबोधकता प्रौढ इति समुदायस्यैव नोढशब्दस्येति चेन्न शास्त्रप्रक्रियानिर्वाहार्थं तत्राप्यर्थबोधकतास्वीकारादत आह अत्रार्थइत्यादि। राम इत्यादीनामेकत्वविशिष्टदशरथापत्यत्वविशिष्टपुंसरूपोऽर्थोऽन्वयव्यतिरेककल्पितः। अन्वयव्यतिरेकश्च तत्सत्वे तत्सत्वं तदभावे तदाभावः। स च सुबन्त एव सुबन्तवृत्त्यन्वयव्यतिरेकः असुबन्ते कल्प्यते। सुबन्ते कल्पितो योऽन्वयव्यतिरेकस्तत्कल्पितोऽर्थो गृह्यते इति यावत्। याव एव यावक इत्यादिसंग्रहाय शास्त्रकल्पितोऽपीत्युक्तम्। इयञ्च आनुपूर्व्यवच्छिन्नविषयताप्रयोजकपदोपदानरूपविशिष्टरूपोपादाने एव प्रवर्तते। अत एव चूडाल इत्यादौ लस्य तिबादयः कथन्नेत्याशङ्क्य धातुविहितत्वाभावेन नादेश इति भाष्ये समाहितम्। स्वं रूपसत्वे प्रमाणमाह किञ्चेत्यादिना अर्थो गृह्यत इति अर्थत्वोपलक्षितधर्मावच्छिन्नं सकलो गृह्यते इत्यर्थः। अर्थविशिष्ट इति। वै. अर्थत्वोपलक्षितधर्मावच्छिन्नविषयकबोधजनकत्वप्रकारकतात्पर्यविशेष्यतापर्याप्त्यधिकरणत्वसम्बन्धेन तेन स्वरूपयोग्यत्वमादाय प्रोढवानित्यत्र न वृद्धिः। अत्रारम्भपक्ष एव ज्यायान्। प्रत्याख्यानपक्षे सकृदुच्चरितन्यायेन 'गोतो णिदि'त्यादौ एकार्थबोधकस्यैव गवादिशब्दस्य ग्रहणं स्यात् । अन्यार्थबोधके प्रवृत्यर्थमावृत्तिः करणीया स्यादिति गौरवम् । आरम्भपक्षे तु अर्थत्वेन रूपेण सकलार्थोपस्थितेः सकलार्थबोधके गवादौ एकदैव प्रवृत्तिर्न्नावृत्तेरपेक्षेति लाघवमिति दिक्॥१४॥

परिभाषार्थमञ्जरी

नन्वस्या वर्णग्रहणेऽपि प्रवृत्तौ हरय इत्यादावयादिर्न्नस्यात्। अयतीत्यादावेव स्यादत आह इयञ्च वर्णेति। तत्र मानमाह लस्येति। तत्र हि चूडालादावादेशमाशङ्क्य अर्थवत्परिभाषया वारणे कृते, उक्तरीत्या परिभाषाया अप्रवृत्तिरुक्ता। अलैवानर्थकेति।अयं भावः - यदि वर्णग्रहणेऽपि इयं प्रवर्त्तेतानर्थकेनेति तर्हि व्यर्थम्। तस्य प्रयोजनन्तु 'एरजि'त्यादौ। अनर्थकेनापि तदन्तविधौ न यदि सिद्धिः, अस्याः प्रवृत्तौ तु व्यावर्त्त्याभाव इति। एवञ्च समुदायेन चेत् सस्तर्हि अर्थवतैवेति फलितम्। तेन हनादिग्रहणेऽपि हन्ग्रहणं नेति 'येन विधि'रिति सूत्रे भाष्ये स्पष्टम्। यत्तु कैयटानुयायिन: भ्राजिग्रहणस्य ज्ञापकतामुपपाद्य धातुसंज्ञकराजिग्रहणस्योपक्षीणत्वान्न ज्ञापकत्वमिति शब्दरत्नमनूद्यातिव्याप्तिपरिहाराय 'राजृ' इति पठितस्यानुबन्धस्यैवं सति वैयर्थ्यप्रसङ्गात्। [1]निङ्भिरित्यादौ षत्वस्याभियुक्तैरुदाहृतत्वात् तन्मन्दमिदमिति दूषणमभिदधुः तच्छेखरादिग्रन्थाज्ञानग्रहग्रस्तम्। तत्र हि धातुग्रहणं 'व्रश्चादिसूत्रे अनुवर्तमानं व्याख्यायात्रार्थे भाष्यानुग्रहो मृग्य इत्युक्तम्। एवञ्चास्य धातुग्रहणानुवादिमतानुसारित्वं स्पष्टमेव बोधितम्॥१४॥

[1]निड्भिरिति के,खे,गे