Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति


तदेतत् पठ्यते

क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इति।५९।

अपवादशब्दोऽत्र बाधकपरः। तदुक्तं 'गुणो यङ्लुकोः' इत्यत्र भाष्ये ''अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्ते। अजीगणत्। अत्र गणेरीत्वमपवादत्वाद् हलादिः शेषं बाधते। न गणेरीत्वमपवादत्वाद् हलादिः शेषं बाधते। किं तर्हि ? अनवकाशत्वादि''ति ग्रन्थेन। गणरूपाभ्यासान्त्यणस्येत्वमित्यर्थे हलादिः शेषेण तन्निवृत्तौ तदनवकाशमीत्वे तु कृते न तस्य प्राप्तिरन्त्यहलोऽभावात्। अभ्यासविकारेषु बाध्यबाधकभावाभावेन च साधितम्। तस्मिँश्च सति लोपे कृते सामर्थ्याच्छिष्टस्यान्त्यस्येत्वमिति न दोषः। न च येन नाप्राप्तिन्यायेनापवादत्वमप्यस्य सुवचम्, तस्य चरितार्थविषयताया उक्तत्वात्। 'इको झल्' इत्यत्र भाष्येऽपि ध्वनितमेतत्। तत्र हि 'अज्झन' इति दीर्घेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणे बाधिते दीर्घोत्तरं गुणः स्याद्दीर्घविधानं तु मिनोतेर्दीर्घे कृते 'सनि मीमा' इत्यत्र मीग्रहणेन ग्रहणेऽर्थवत्, तत्र पश्चात् प्राप्तगुणबाधनार्थम् 'इको झल्' इति कित्त्वमित्युक्तम्। अन्यथाऽपवादत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भाष्यस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव। यत्तु 'काञ्चनी'त्यादावपवादमयड्विषयेऽप्यण् भवति, क्वचिदपवादविषयेऽपीति न्यायादिति, तन्न। 'अण् कर्मणि च' इति सूत्रस्थभाष्यविरोधात्। तत्र ह्यणः पुनर्वचनमपवादविषयेऽनिवृत्त्यर्थं गोदायो व्रजतीत्याद्युक्तम्। काञ्चनीत्यादौ काञ्चनेन निर्मितेत्यर्थे शैषिकोऽण् बोध्यः। अत्रेदं बोध्यम्- 'येन नाप्राप्ते'त्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थस्तदा स्वविषये स्वेतरत् यद्यत् प्राप्नोति तद्बाध्यम्, विध्यन्तराप्राप्तविषयाभावात्। इयमेव बाध्यसामान्यचिन्तेति व्यवह्रियते। अनवकाशत्वेन बाधेऽप्येषा वक्तुं शक्या यद्युदाहरणमस्ति विनिगमनाविरहात्। यदि तु येनेत्यस्य लक्षणेनेत्यर्थः, कार्येणेत्यर्थो वा तदा बाध्यविशेषचिन्ता। अनवकाशत्वेन बाधेऽप्येतद्बाधेन सार्थक्यमुत तद्बाधेनेत्येवं विशेषचिन्ता सम्भवति यद्युदाहरणमस्ति॥ ५९॥

 

कामाख्या

येन नाप्राप्त इत्यादि निरवकाशो विधिरपवाद इति च न्यायद्वयम्। तत्राद्यस्य विषयमुक्त्वा द्वितीयस्य विषयमाह क्वचिदितिसर्वथानवकाशत्वादिति। कृतेऽप्यचारितार्थ्ये सति। क्वचिदपवादविषयेऽपीति परिभाषायाम्अपवादशब्दो बाधकपरः। सर्वथानिरवकाशपरः इत्यत्र भाष्यं प्रमाणयति। तदुक्तमित्यादिना। अभ्यासविकारे इत्यस्या भाष्ये फलं दत्तमजीगणदिति। तदुपपादयति अत्रेत्यादि। अत्यत्रभाष्योक्तशङ्कासमाधाने आह गणेरीत्वमितिइतिग्रन्थेनेति। कृते चारितार्थ्ये यो बाधकः स एवापवादशब्दप्रतिपाद्य इत्युक्तमिति भावः। अनवकाशत्वमुपपादयति गणरूपेत्यादिनाईत्वेतुकृते। इदन्न प्रकृतोपयोगि। तस्मिँश्च सतीति। अभ्यासविकारे बाध्यबाधकभावाभावे च सति। सामर्थ्यादिति। सूत्रारम्भसामर्थ्याद्गणधातोरभ्यासस्येति वैयधिकरण्यान्वय इति न दोष इति भावः। येननेति। तथा च परिभाषायामपवादशब्दस्य बाधकपरत्वेऽपि न दोष इति भावः। तस्येति। उक्तन्यायस्य यत्र चारितार्थ्यविषयस्तत्रैव प्रवृत्तिरिति पूर्वमुपपादितत्वादिति भावः। इको झलिति सूत्रभाष्यादपि तथैव लभ्यत इत्याह इकोझलिति

अयम्भावः - बुभूषतीत्यादौ गुणाप्राप्तियोग्येऽचारितार्थ्येन गुणे कृते फलाभावेन कृतेऽप्यचारितार्थ्येन गुणम्बाधित्वा दीर्घेण रूपसिद्धे इको झलिति सूत्रं किमर्थमित्याशङ्क्य दीर्घोत्तरं गुणो मा भूदित्येतदर्थं सूत्रमिति समाहितम्। न च दीर्घोत्तरं गुणे दीर्घविधानं व्यर्थमिति वाच्यम्। मिनोतेर्दीर्घे कृते सनिमीमेत्यत्र ग्रहणेन सार्थक्यात्। अन्यथेति। निरवकाशस्थलेऽप्यपवादशास्त्रप्रवृत्तौ। प्राचीनोक्तं खण्डयति यत्वितिअपवादविषये। 'नित्यं वृद्धशरादिभ्य' इति सूत्र विहितः। अनिवृत्त्यर्थमिति। अन्यथोक्तन्यायेनैवाणः सिद्धौ पुनरण्ग्रहणस्य वैयर्थ्येन भाष्यासंगतेः। शैषिकोऽणिति। शेष इत्यनेन विहितः। ननु 'वृद्धाच्छः' तस्याधिकारविषयत्वेन विधित्वाभावात्। अत्रेदंबोध्यमिति। अयं ग्रन्थः बाध्यत्वप्रयोजकधर्मवर्णनेनैव व्याख्यातः। यद्युदाहरणमस्तीति। इदमुक्तिवैचित्र्यमात्रम् 'अकः सवर्णे दीर्घः' गुणदीर्घोत्वानामपवाद इत्याद्युदाहरणस्य प्रसिद्धत्वात्॥५९॥

परिभाषार्थमञ्जरी

शैषिकोऽण् बोध्य इति। तस्य विधायकत्वस्यापि स्वीकारादिति भावः। यद्यपि मनोरमायां चाक्षुषादीनां 'तस्येदमि'त्यणा दार्षदादीनां 'संस्कृतं भक्षा' इत्यणा सिद्धिरिति शेष इति सूत्रस्य लक्षणत्वं व्यर्थम्। आर्द्रका शालेत्यादयो वृद्धास्तेषां 'वृद्धाच्छ' इत्येव छे सिद्धे चातुरर्थ्याधिकारपठितोत्करादिभ्यश्च इति उत्करादिषु तेषां पाठो ज्ञापयति नेत: प्रागर्थेषु 'राष्ट्रावारपाराद्घाखावि'त्यनेन घादयः स्युरिति अनेक ज्ञापकेनापत्यादिचतुर्थीपर्य्यन्तातिरिक्ते एवघादयो भविष्यन्तीति अधिकारत्वमस्य[1] नोपयुज्यते इत्युक्तम्। तथापि तत्रैव शैषिकान्मतुबर्थीयाच्छैषिका मतुबर्थक इत्यस्य विषय विभागलाभार्थं शैषिकत्वप्रयुक्तं कार्यं ध्वनयितुमपि क्रियमाणशैषिकाधिकारेण श्लोकस्य ज्ञापनार्थं चाधिकारस्यावश्यकत्वे विधायकत्वमपि तस्य सुवचमिति न तत्र सूत्रे निर्भरः कार्य्य इत्युपसंहारेण विधायकत्वस्यापि बोधनात्। अत एव शेखरेऽपि पूर्व्वोक्तानेकज्ञापकाश्रयणभियैव शैषिकान्मतुबर्थीयादित्यस्य विषयलाभार्थं 'तस्येदमि'त्यादावपत्यर्थस्याग्रहणार्थं च लक्षणत्वमधिकारत्वञ्चावश्यमाश्रयणीयमित्येवोक्तम्। अत एव वृद्धैः 'वृद्धाच्छ' इति तु न जाताद्यर्थेष्वेव विशेषरूपेण तत्सूत्रेण विधानात् तदन्यसंग्रहार्थमेव तस्य विधायकत्वाङ्गीकारादित्युक्तम्। विचारान्तरमपि वृद्धोक्तौ चावसेयम्। 'शेष' इति सूत्रे भाष्ये तु शेष इत्युच्यते। कः शेषो नाम इत्यैकदेशिना पृष्टे अपत्यादिचतुरर्थ्यपर्य्यन्तेभ्यो येऽन्येऽर्थाः स शेष इति सिद्धान्तिनोक्ते ततः शेषग्रहणप्रयोजनप्रश्ने 'राष्ट्रावारपाराद्घखावि'त्याद्यर्था निर्द्देशसूत्रविहितप्रत्ययानां स्वार्थिकत्वभिया शेषाधिकार इत्युत्तरिते सिद्धान्तिना, तत एकदेशी राष्ट्रेत्यादिसूत्रसंघातस्य 'तत्र जात' इत्यत्रानुवृत्तिं स्वीकृत्य सूत्रं प्रत्याख्यातवान्। ततः सिद्धान्ती यद्यनुवर्तिष्यन्ते तर्हि राष्ट्रेति सूत्रस्योत्तरत्र 'ग्रामाद्यखञावि'त्यत्रानुवृत्तौ ग्रामशब्दादिभ्योऽपि पूर्व्वपूर्वप्रत्ययप्राप्तौ 'तत्र जात' इत्यादेः प्रत्ययापेक्षायाम् अनन्तरं 'विभाषा पूर्वाह्णपराह्णाभ्याम्' इत्यस्यैव सम्बन्धप्राप्तौ च शेषाधिकार इत्याह। तत्र एकदेशी 'राष्ट्रावारपाराद्धखौ', 'ग्रामाद्यखञौ' 'राष्ट्रावारपाराद्धखाविति सम्बन्धानुवृत्तिं स्वीकृत्य प्रत्याचष्टे सूत्रम्। एवञ्च सम्बन्धानुवृत्या सूत्रप्रत्याख्यानं क्लिष्टमित्येकदेश्युक्तिरस्पष्टमेव[2]। किञ्च अधिकाराभावे[3] तत्र जात इति भाष्यविरोधाच्चैकदेश्युक्तित्वमस्य। तच्च भाष्यमनुपदमेव स्फुटी भविष्यति। ततः राष्ट्रावारपारेत्यादीनामनुवृत्तौ जाताद्यर्थे घादीनां विधानेन तेषां स्वार्थिकत्वपरिहारेऽपि अपत्यं समूह इत्याद्यर्थानां[4] इदन्तत्वव्याप्यत्वेन 'तस्येदमि'तिसूत्रेणापत्याद्यर्थे घादयः स्युस्ते मा भूवन्नित्यधिकार इत्यर्थकम्। अत उत्तरं पठति शेषवचनं घादीनामपत्यादिषु अप्रसङ्गार्थमित्युपक्रम्याग्रे [5]ज्ञापकत्वेनाधिकारार्थकत्वाभावसाधकं भाष्यं तु एकदेशिनोरुक्तिप्रत्युक्तिपरं बोध्यम्। एतत्पूर्वोत्तरभाष्यपर्य्यालोचनेन अधिकारार्थकत्वाभाव: [6]सूत्रस्येति गम्यते न विधायकत्वाभावः। विधायकत्वमस्ति वा नवेत्यंशे [7]भाष्यविचारस्यैवाभावात्। सर्वथा सूत्रप्रत्याख्यानं मनसि निधाय[8] यदि तर्हि शेषग्रह‌णं प्रत्याख्यायते तदा तस्य लक्षणतया यानि शब्दरूपाणि चाक्षुषं रूपं, दार्षदाः सक्तव इत्यादीनि तेषां सिद्धिः कथमित्याशङ्क्य क्व 'तस्येदमि'त्यणा क्वचित् 'संस्कृतं भक्षा' इत्यणा च सिद्धि‌माह कैयटः सोऽपि प्रामादिक एव। अत एव सूत्र शेषे 'तत्र जात' इत्यत्र तु सूत्रस्य लक्षणत्वमाश्रित्य एतेषां सिद्धिमभिधास्यति नागनाथ इति कैयटः संगच्छते। 'तत्र जात' इति सूत्रे भाष्ये तु शेष इत्यनुवृत्त्यैव घादीनां स्वार्थिकत्वात्सिद्धेः जाताद्यर्थनिर्द्देशो व्यर्थ इत्यर्थकं किमर्थं जाताद‌योऽर्था निर्द्दिश्यन्ते इत्युक्त्वा स्रुघ्ने आस्ते इत्यादावपि शेष इत्यस्य लक्षणात्वात्प्रत्ययप्रसङ्ग इति कैयटोक्तार्थके तत्रास्ते, तत्र शेते इत्यत्रापि प्रत्ययप्रसङ्गभिया नियमार्थं जाताद्यर्थनिर्द्देशोऽत उत्तरं पठति तत्र जातादिषु वचनं नियमार्थम्। एष्वर्थेषु घादयः स्युरिह माभूवन्। तत्रास्ते, अत्र शेते इत्युक्तम्। ततः जाताद्यर्थनिर्द्देशस्य नियामकत्वे निर्द्दिष्टार्थेषु [9]पिष्टक्षुण्णाद्यर्था निर्द्देशेन दार्षदादीनां असिद्धिशङ्कायां संस्कृतमित्यनेन सिद्धिमभिधाय भवेत् सिद्धं दार्षदाः सक्तव इति इदं तु न सिध्यति औलूखलो यावक इति। संस्कृतनाम[10] तद्भवति। यत्तत एवापकृष्याभ्यवह्रियते। न च यावक उलूखलादेवापकृष्याभ्यव हि᳙यते। अवश्यं रन्धनादिति प्रतीक्ष्यन्ते। तस्मान्नार्थो नियमेन। कस्मान्न भवति। तत्रास्ते तत्र शेते इति। अनभिधानादित्याह भगवान्। अग्रे चार्थनिर्द्देशाभावे समर्थविभक्तीनामप्याक्षेपात् लाभे तत्र जातस्तत्र भव इत्यादीनां सूत्राणां वैयर्थ्येन सिद्धान्ते प्रावृषष्टाबितीष्टयो जातार्थे इष्टस्य 'प्रावृष एण्य' इति एण्यस्य भावर्था इष्टस्य वैपरीत्यापत्तेरसङ्करेण प्रत्ययविधानार्थं तावतर्थनिर्द्देश इति सिद्धान्तितम्। यान्यसङ्कराणि कृतलब्धक्रीतकुशला इत्यादीनि तानि न कर्त्तव्यानि इत्युपसंहृतञ्च अस्माद्भाष्यात्तु उभयार्थकत्वमपि सूत्रस्य प्रतीयते। किञ्चाधिकारार्थकत्वाभावे ज्ञापकसाध्ये क्रीताद्यर्थनिर्देशानामनेकेषां कर्तव्यत्वापत्त्या विपरीतगौरवम्। तत्र जात इति सूत्रे मनोरमायामपि उभयार्थकत्वमुक्तम्। अत्रत्यभाष्यविरोधात्पूर्व्वापरस्वग्रंथविरोधाच्च। शेष इति सूत्रस्थमनोरमा तु चिन्त्यैव। [11]इदं सर्व्वं मदुक्तं मनसि निधायैवोभयार्थकत्वं सूत्रस्योक्तं शेखरे। स चोपदर्शितः प्राक्। शेषे इति सूत्रप्रत्याख्यानपरग्रंथास्तु लाघवपक्षपाति एतत्सूत्रस्थभाष्यविरोधादुपेक्ष्या एवेति दिक्। एतेन अत्र नव्यतरः काञ्चनेन निर्म्मिते इत्यर्थे शैषिकेऽणि न कुत्रापि दोष इति। तत्रेदं वक्तव्यं किं शैषिकोऽण् 'तस्येद‌मि'त्यनेन विवक्षितो निर्म्माणस्येदमर्थव्याप्यत्वात् उत शेष इत्यस्य स्वतन्त्र विधायकत्वेनाप्यङ्गीकारात्तेनेति। नाद्यः। 'वृद्धाच्छ' इत्यनेन बाधादिति भास्करेणैव दूषितत्वात्। अत एव न द्वितीयः। शेष इत्यस्य प्रत्याख्यानाच्च। अधिकारत्वे प्रयोजनानां ज्ञापकैरन्यथा[12]सिद्धेः भाष्ये प्रदर्शितत्वात्। स्वतन्त्रविधायकत्वे प्रयोजनानान्तु चाक्षुषं रूपमित्यादीनां 'तस्येद‌मि'त्यनेन सिद्धेः कैयटोपाध्यायैरुक्तत्वात्। अत एव ज्ञापकादानुमानिकवचनकल्पनेन स्थितस्य वचन‌स्य प्रत्याख्यानं न सुष्ठ्विति अभिसंधायाधिकारत्वमेवास्तु। लक्षणन्तु नातीवोपयुज्यत इति मिश्रैरुक्तं दीक्षितैरपि 'शैषिकान्मतुबर्थीयाच्छैषिकान्मतुबर्थिकः' इत्यस्य विषयविभागार्थत्वमधिकारस्य व्यवस्थाप्येवं स्थिते विधायकत्वमपि तस्य सुवचमिति नातीव तत्र निर्भरः कार्य्य इत्युक्तम्। न च काञ्चनीत्यादिसिद्ध्यर्थं विधायकत्वस्यावश्यकतया तद्वैयर्थ्योक्तिरप्रामाणिकी। अत एव भाष्ये अधिकारत्वस्यैव ज्ञापकाश्रयणादाक्षेप: कृतः इति वाच्यम्। भानुः पिताऽस्येत्यर्थे भानव इत्यस्य 'शेष' इत्यणैव सिद्धे। 'तस्येदमि'त्यपत्येऽपि बाधनार्थं कृतं भवेत्। उत्सर्गः शेष एवासौ वृद्धान्यस्य प्रयोजनमिति वार्तिककृदुक्तस्य तस्यापत्यमिति योगविभागप्रयोजनस्यासंगति प्रसंगादिति मूलमनेकप्रकारैरयोग्यान्नोच्यते। 'मयड्वैतयो'रित्यनेनैव[13] सिद्धे 'नित्यं वृद्धशरादिभ्य' इत्यत्रारम्भसामर्थ्यान्नित्यत्वलाभान्नित्यग्रहणस्य 'शरादिभ्य' इत्यनेनान्वयाङ्गीकारात् क्वचिद् वृद्धेभ्यो मयट्प्रवृत्या काञ्चनीत्यस्य साधनीयत्वादिति समाधिं वदन्तः कैयटानुयायिनः स्वस्य 'शेष' इति सूत्रान्तमनोरमामात्राध्ययनमाविष्कुर्व्वन्तः परास्ताः। किञ्च भानुः पिताऽस्येत्यर्थे भानव इत्यस्य 'शेष' इति अणा सिद्धावपि भानोरपत्यमित्यर्थे तदसिद्ध्या योगविभागसार्थक्ये वार्तिकविरोधोद्भावनमपि वार्तिकाशयाज्ञानविलसितम्। नित्यग्रहणस्य 'एकाऽचो नित्यमि'ति संग्राहकस्य कथं भवदुक्तार्थसाधकत्वं स्यादिति समाधानमपि शेखरादिग्रन्थापर्य्यालोचनमूलकम्। नित्यग्रहणस्य 'एकाऽचो नित्यमि'ति संग्राहकत्वे शरादिषु मृच्छब्दपाठस्य वैयर्थ्यप्रसङ्गात् इति भवदुक्तमनोरमोक्तदूषणानुवादोऽपि मृच्छ्ब्दपाठस्तु 'एकाऽचो नित्यमि'त्यस्यानित्यत्वबोधनार्थ इति शेखरेणैव दत्तजलाञ्जलिः। तद‌नित्यत्वे फलं तु त्वाचो रोग इत्यादावौत्सर्गिकोऽण् बोध्यः। एवञ्च मूलदूषणन्तु दूषकत्वस्वभावेनैव न युक्तेति मदुक्तिसंक्षेपमात्रांशे मात्सर्य्यमुत्सार्य्य विचारयन्त्विति दिक्॥५९॥

[1]अधिकारत्वमप्यस्य इति गे

[2]युक्तित्वं स्पष्टमेव इति गे

[3]अधिकारार्थत्वाभावे इति गे

[4]इत्याद्यर्थमिति गे

[5]ज्ञापकेन इति गे

[6]सूत्रस्य इति गे

[7]भाष्ये इति गे

[8]विधाय इति गे

[9]पिष्टक्षुस्माद्यर्था इति गे

[10]संस्कृतं नाम इति गे

[11]इदमयुक्तम्। सर्वं मनसि इति गे

[12]अन्यथानान्तस्येदमित्यनेन सिद्धे इति गे

[13]इत्येव सिद्धे इति गे