Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

असिद्धं बहिरङ्गमन्तरङ्गे

नित्यादप्यन्तरङ्गं बलीयः; अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्। तदाह -

असिद्धं बहिरङ्गमन्तरङ्गे।५०।

अन्तर्मध्ये = बहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्। एवं तदीयनिमित्तसमुदायाद् बहिर्भूताङ्गकं बहिरङ्गम्। एतच्च 'खरवसानयोः' इति सूत्रे 'असिद्धवत्' सूत्रे च भाष्यकैटयोः स्पष्टम्। अत्राङ्गशब्देन शब्दरूपं निमित्तमेव गृह्यते, शब्दशास्त्रे तस्यैव प्रधानत्वात्। तेनार्थनिमित्तकस्य न बहिरङ्गत्वम्। अत एव 'न तिसृचतसृ' इति निषेधश्चरितार्थः। अन्यथा स्त्रीत्वरूपार्थनिमित्तकतिस्रपेक्षयाऽन्तरङ्गत्वात् त्रयादेशे तदसङ्गतिः स्पष्टैव। अत एव त्रयादेशे 'स्रन्तस्य प्रतिषेधः' इति स्थानिवत्सूत्रस्थभाष्यवार्तिकादि सङ्गच्छते। एतेन 'गौधेरः, 'पचेत्' इत्यादावेयादीनामङ्गसंज्ञासापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वाद् वलिलोपो न स्यादिति परास्तम्। एयादेशादेरपरनिमित्तकत्वेनान्तरङ्गत्वाच्च। ननु 'येन विधिस्तदन्तस्य' इति सूत्रे भाष्ये 'इको यणचि' इत्यादावपि तदन्तविधौ 'स्योन' इत्यत्रान्तरङ्गत्वाद्यणो गुणबाधकत्वमिष्यते तन्न सिद्धयेत्, ऊनशब्दमाश्रित्य यणादेशो नशब्दमाश्रित्य गुण इत्यन्तरङ्गत्वाद् गुण एव स्यादित्युक्तम्। अत्र कैयट: - सिवेर्बाहुलकादौणादिके नप्रत्यये गुणवलोपोठां प्रसङ्ग ऊठपवादत्वाद्वलोपं बाधते गुणं त्वन्तरङ्गत्वाद् बाधते। गुणो ह्यङ्गसम्बन्धिनीमिग्लक्षणां लध्वीमुपधामार्द्धधातुकं चाश्रयति। ऊठ् तु वकारान्तमङ्गमनुनासिकादिकञ्च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः। तत्र कृते यण्गुणौ प्राप्नुत इति। एवञ्च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमिति चेन्न। तदन्तविधावपि बहुपदार्थापेक्षत्वरूपबहिरङ्गत्वस्य गुणे सत्त्वेन तत्र दोषकथनपरभाष्यासङ्गतेः। बहिरङ्गान्तरङ्गशब्दाभ्यां बह्वपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयाऽलाभाच्च। तथा सति 'असिद्धं बह्वपेक्षमल्पापेक्ष' इत्येव वदेत्। अत एव 'विप्रतिषेध' सूत्रेभाष्ये गुणाद्यणादेशोऽन्तरङ्गत्वादित्यस्य 'स्योन' इत्युदाहरणं न तु गुणादूडन्तरङ्गत्वादित्युक्तम्। त्वद्रीत्या तदपि वक्तमुचितम्। प्राथम्यात्तदेव वा वक्तुमुचितम्। मम त्वन्तरङ्गपरिभाषया तद्वारणासम्भवात्तन्नोक्तम्। किञ्च सिद्धान्ते नित्यत्वाद् गुणात्पूर्वमूठ्, गुणस्तु ऊठि यणाबाधितत्वादनित्यः। ऊनशब्दमाश्रित्येत्यादिभाष्येण च परिभाषायामङ्गशब्देन सप्तम्याद्यन्ततयोपात्तं शब्दरूपं निमित्तमेव गृह्यत इति स्पष्टमेवोक्तम्। यत्तु कयटेन तदन्तविधिपक्षे परत्वाद् गुणः प्राप्नोतीत्युक्तं तत्तु न शब्दमाश्रित्येत्यादिभाष्यासङ्गत्या चिन्त्यम्। वलिलोपेऽन्तरङ्गपरिभाषा न प्रवर्तत इति तु न युक्तम्, तत्सूत्रे भाष्य एव व्रश्चादिषु लोपातिप्रसङ्गमाशङ्क्योपदेशसामर्थ्यान्न। न च 'वृश्चत' इत्यादौ चारितार्थ्यम्, बहिरङ्गतया सम्प्रसारणस्यासिद्धत्वेन पूर्वमेव तत्प्राप्तेरिति भाष्योक्तेः। यत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात् 'पञ्चे'त्यत्र 'न षट्' इति निषेध इति। तच्चिन्त्यम्। नलोपस्य हि पदसंज्ञासापेक्षत्वेन बहिरङ्गत्वं वाच्यम्। तच्च न, संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणात्। 'पञ्चे'त्यत्र निषेधस्तु स्त्रियां यत् प्राप्नोति तन्नेति व्याख्यानसामर्थ्येन भूतपूर्वषट्त्वमादायेति बोध्यम्। अत एव कृति तुग्ग्रहणं चरितार्थम्। वृत्रहभ्यामित्यादौ पदत्वनिमित्तकत्वेऽपि नलोपस्य बहिरङ्गत्वाभावात्। भ्यामः पदसंज्ञानिमित्तत्वेऽपि नलोपस्य तन्निमित्तकत्वाभावात्। परम्परया निमित्तत्वमादाय बहिरङ्गत्वाश्रयणे तु न मानम्। ध्वनितं चेदं 'नलोपः सुप्' इति सूत्रे भाष्य इति तत्रैव भाष्यप्रदीपोद्द्योते निरूपितम्। अन्तरङ्गे कर्तव्ये जातं, तत्कालप्राप्तिकञ्च बहिरङ्गमसिद्धमित्यर्थः । व्रश्चादिषु पदसंस्कारपक्षे समानकालत्वमेव द्वयोरिति बोध्यम्। एतेन 'अन्तरङ्गं बहिरङ्गाद् बलीयः' इति परिभाषान्तरमित्यपास्तम्। एनामाश्रित्य 'विप्रतिषेध' सूत्रे भाष्ये तस्याः प्रत्याख्यानाच्च। इयं च त्रिपाद्यां न प्रवर्तते, त्रिपाद्या असिद्धत्वात्। अस्याञ्च 'वाह ऊठ्' सूत्रस्थमूड्ग्रहणं ज्ञापकमित्येषा सपादसप्ताध्यायीस्था। अन्यथा सम्प्रसारणमात्रविधानेन लघूपधगुणे 'वृद्धिरेचि' इति वृद्धौ 'विश्वौह' इत्यादिसिद्धस्तद्वैयर्थ्यं स्पष्टमेव। सत्यां ह्येतस्यां बहिरङ्गसम्प्रसारणस्यासिद्धत्वाल्लघूपधगुणो न स्यात्। न च 'पुगन्त' इति सूत्रे निमित्तमिको विशेषणमत एव 'भिनत्ती'त्यादौ न गुणः, एवञ्च 'नाजानन्तर्ये' इति निषेधात्कथं परिभाषाप्रवृत्तिरिति वाच्यम्। प्रत्ययस्याङ्गांश उत्थिताकाङ्क्षत्वेन तत्रैवान्वयात्। पुगन्तेत्यादौ कर्मधारयाश्रयणेन प्रत्ययपराङ्गावयवलघूपधारूपेको गुण इति 'इको गुणवृद्धी' इति सूत्रभाष्यसम्मतेऽर्थे भिनत्तीत्यादावदोषाच्च। अकारान्तोपसर्गेऽनकारान्ते चोपपदे वहेर्वाहेर्वा ण्विविचावनभिधानान्न स्त एव। वायूर्हेत्यादि तु ऊहतेः क्विपि बोध्यम्। धातूनामनेकार्थत्वान्न 'प्रादूहोढः' इत्यस्यापि प्रवृत्तिः। न च कार्यकालपक्षे त्रिपाद्यामेतत्प्रवृत्तिर्दुवरेति वाच्यम्, पूर्वं प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्य तन्निरूपितबहिरङ्गत्वाभावात्तया तस्यासिद्धत्वप्रतिपादनासम्भवात्। न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं 'पूर्वत्र' इत्यनेन वक्तुमशक्यमिति वाच्यम्, एवं हि विनिगमनाविरहादुभयोरप्यप्रवत्यापत्तेः। किञ्च 'पूर्वत्रे'त्यस्य प्रत्यक्षत्वेन तेनाऽऽनुमानिक्या अस्या बाध एवोचितः। अतः कार्यकालपक्षेऽपि त्रिपाद्यामस्या अनुपस्थितिरेव। अत एव कार्यकालपक्षमेवोपक्रम्योक्तयुक्तीरुक्त्वा 'अतोऽयुक्तोऽयं परिहारो' न वा बहिरङ्गलक्षणत्वात्' इत्युक्तं विसर्जनीयसूत्रे भाष्ये सिद्धातिना। त्रिपादीस्थेऽन्तरङ्गे कर्तव्येऽयं परिहारो न युक्त इति तदर्थः। किन्तु वचनमेवाऽऽरब्धव्यमिति तदाशयः। अत एव 'निगाल्यत' इत्यादौ लत्वार्थं 'तस्य दोषः' इति वचनमेवाऽरब्धम्। अन्यथान्तरङ्गत्वाण्णिलोपात्पूर्वं वैकल्पिकलत्वे तद्वैयर्थ्यं स्पष्टमेव। येऽपि लक्ष्यानुरोधात् आनुमानिक्याऽप्यन्तरङ्गपरिभाषया प्रत्यक्षसिद्धस्य 'पूर्वत्रे'त्यस्य बाधं वदन्ति, तेऽपि लक्षणैकचक्षुभिर्नादर्तव्या इति दिक्। अत एव 'ओमाङोश्च' इत्याङ्ग्रहणं चरितार्थम्। तद्धि 'खट्वा आ ऊढे'त्यत्र परमपि सवर्णदीर्घं बाधित्वा अन्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ पररूपार्थम्। साधनबोधकप्रत्ययोत्पत्त्यनन्तरं पूर्वं धातोरुपसर्गयोगे पश्चात् खट्वाशब्दस्य समुदायेन योगाद् गुणस्यान्तरङ्गत्वमिति 'सम्प्रसारणाच्च' इति सूत्रे भाष्ये स्पष्टम्। 'एही'त्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिः। ज्ञापकपर 'सम्प्रसारणाच्च'  इति सूत्रस्थभाष्यप्रामाण्येनानित्यं प्रकृतिवदनुकरणमित्यतिदेशमादाय लब्धाङ्त्वे एतदप्रवृत्तेः। यत्तु पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन। उपसर्गेण तत्संज्ञकशब्देन, साधनेन कारकेण तत्प्रयुक्तकार्येण च । अत एव 'अनुभूयते' इत्यादौ सकर्मकत्वात् कर्मणि लकारसिद्धिरिति। तन्न, क्रियायाः साध्यत्वेन बोधात्साध्यस्य च साधनाकाङ्क्षतया तत्सम्बन्धोत्तरमेव निश्चितक्रियाबोधेन साधनकार्यप्रवृत्त्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात्। अत एव 'सुट्कात् पूर्वः' इति सूत्रे 'पूर्वं धातुरुपसर्गेणे'त्युक्त्वा नैतत् सारं 'पूर्वं धातुः साधनेन युज्यते पश्चादुपर्गेणे'त्युक्त्वोक्तयुक्त्याऽस्यैव युक्तत्वमुक्तं 'साधनं हि क्रियां निर्वर्तयती'त्यादिना भाष्ये। उपसर्गद्योत्यार्थान्तर्भावेण धातुनैवार्थाभिधानादुक्तेषु कर्मणि लकारादिसिद्धिः। पश्चाच्छ्रोतृबोधाय द्योतकोपसर्गसम्बन्धः। एवं च अन्तरङ्गतरार्थकोपसर्गनिमित्तः सुट् संकृतीत्यवस्थायां द्वित्वादितः पूर्वं प्रवर्तते ततो द्वित्वादि। अत एव 'प्रणिदापयती'त्यादौ णत्वं 'यदागमाः' इति न्यायेन समाहितं भाष्ये। अत एव प्रत्येति 'प्रत्ययः' इत्यादिसिद्धिः। अन्यथान्तरङ्गत्वात् सवर्णदीर्घे रूपासिद्धिः। यदुपसर्गनिमित्तकं कार्यमुपसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तकत्वात्तदन्तरङ्गम्। यत्तु न तथा तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्गम्। अत एव 'न धातु' इति सूत्रे 'प्रेद्ध' इत्यत्र गुणो बहिरङ्ग इति भाष्य उक्तम्। किञ्च पूर्वमुपसर्गयोगे धातूपसर्गयोः समास ऐकस्वर्याद्यापत्तिरिति 'उपपदमतिङि'ति सूत्रे भाष्ये स्पष्टम्। भावार्थप्रत्ययस्यापि पूर्वमेवोत्पत्तिः। अत एव 'णेरध्ययने' इति निर्देशः सङ्गच्छते। इदं च सामान्यापेक्षज्ञापकं, भावतिङोऽपि पूर्वमुत्पत्तेः। अन्यथा तत्र समासापत्तिः। तिङि त्वतिङिति निषेधान्न तत्र दोषो यदि भावतिङ्युपसर्गयोगोऽस्तीत्यलम्। यत्तु विशेषापेक्षात्सामान्यापेक्षमन्तरङ्गं विशेषापेक्षे विशेषधर्मस्याधिकस्य निमित्तत्वात्। यथा 'रुदादिभ्यः सार्वधातुके' इत्यत्र रुदादित्वं सार्वधातुकत्वञ्च। तत्र सार्वधातुकत्वज्ञानाय प्रकृतेर्धातुत्वज्ञानं प्रत्ययस्य प्रत्ययत्वज्ञानं चाऽऽवश्यकमिति यासुडन्तरङ्गः। एतेन यद् 'अनुदात्तडितः', इति सूत्रे कैयटेनोक्तं 'लमात्रापेक्षयाऽन्तरङ्गास्तिबादयो 'लकारविशेषापेक्षत्वाद्बहिरङ्गाः स्यादय' इति तत्परास्तम्; विशेषापेक्षत्वेऽपि तस्य सामान्यधर्मनिमित्तकत्वाभावेन तत्त्वस्य दुरुपपादत्वात्, परनिमित्तकत्वेन स्यादीनां बहिरङ्गत्वाच्चेति। तन्न, विशेषस्य व्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात्, भाष्ये एवंविधान्तरङ्गबहिरङ्गभावस्य क्वाप्यनुल्लेखाच्च। यत्तु 'मतुप्' सूत्र भाष्ये पञ्च गावो यस्य सन्ति स पञ्चगुरित्यत्र मतुप्प्राप्तिमाशङ्क्य प्रत्येकमसामर्थ्यात् समुदायादप्रातिपदिकत्वात् समासात् समासेनोक्तत्वादिति सिद्धान्तिनोक्ते 'नैतत्सारमुक्तेऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितो यथा पाञ्चनापितिरिति पूर्वपक्ष्युक्तिर्भाष्ये। 'द्विगोर्लुगनपत्ये' इति लुग्विधानात्तद्धितार्थद्विगोस्तद्धितो भवति पञ्चगुशब्दश्च द्विगुरिति तदाशयं कैयटः। ततो 'द्वैमातुरः, पाञ्चनापितिः, पञ्चसु कपालेषु संस्कृत' इत्यादौ सावकाशद्विगोर्बहुव्रीहिणा प्रकृते परत्वाद्बाध इत्याशयेन नैष द्विगुः, कस्तर्हि बहुव्रीहिरिति सिद्धान्तिनोक्ते तमवकाशमजानानोऽपवादत्वाद् द्विगुः प्राप्नोतीति पूर्वपक्षी। अन्यपदार्थे, सुबन्तमात्रस्य विधीयमानबहुव्रीहेः संख्यायास्तद्धितार्थे विधीयमानो द्विगुविशेषविहितत्वाद् बाधकः प्राप्नोतीति कैयटः। ततः सिद्धान्त्येकदेश्याह, अन्तरङ्गत्वाद् बहुव्रीहिः। काऽन्तरङ्गता अन्यपदार्थे बहुव्रीहिर्विशिष्टेऽन्यपदार्थे द्विगुस्तस्मिँश्चास्य तद्धितेऽस्तिग्रहणं क्रियत' इति। अधिकास्त्यर्थापेक्षमत्वर्थनिमित्तो द्विगुर्बहिरङ्ग इति कैयट इति। नैषा सिद्धान्त्युक्तिरेतावताप्यपवादत्वाहानेः। अच्सामान्यापेक्ष-यणो विशिष्टसवर्णाजपेक्षदीर्घेण बाधदर्शनात्। किञ्च उक्तरीत्या परत्वेनैव बाधसिद्धेः। किञ्च अत्राधिकापेक्षत्वेनैव बहिरङ्गत्वम्। न केवलविशेषापेक्षत्वेनेति नैतद्भाष्यारूढं विशेषापेक्षस्य बहिरङ्गत्वम्। अत एव सुबन्तसामान्यापेक्षो बहुव्रीहिस्तद्विशेषापेक्षो द्विगुरिति नोक्तं भाष्ये। न चार्थकृतबहिरङ्गत्वस्यानाश्रयणादिदमयुक्तम्, एकदेश्युक्तित्वेनादोषात्। अत एवास्तिग्रहणं नोपाध्यर्थं, किन्तु अस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्गत्वमपि द्विगोर्नास्तीति प्रतिपाद्य सिद्धान्तिना 'मत्वर्थे द्विगोः प्रतिषेधो वक्तव्यः' इति वचने तत्सिद्धमित्युक्तम् । अत एव 'तदोः सः सौ' इति सूत्रेऽनन्त्ययोरिति चरितार्थम्। अन्यथा प्रत्ययसामान्यापेक्षत्वेनान्तरङ्गत्वादन्त्यस्यात्वेऽनन्त्यस्यैव सत्वे सिद्धे तद्वैयर्थ्यं स्पष्टमेव। 'पादः पत्' इति सूत्रे भाष्यकैयटयोरप्येतदन्तरङ्गत्वाभाव एव सूचित इति सुधियो विभावयन्तु। नन्वेवम् 'असुस्रुवदि'त्यत्र लघूपधगुणादुवङोऽल्पनिमित्तत्वाभावादुवङ् न स्यादिति चेत्, न। तत्रान्तःकार्यत्वरूपान्तरङ्गत्वसत्त्वात्। अन्त:कार्यत्वञ्च पूर्वोपस्थितनिमित्तकत्वमङ्गशब्दस्य निमित्तपरत्वात्। इदमन्तरङ्गत्वं लोकन्यायसिद्धमिति मनुष्योऽयं प्रातरुत्थाय शरीरकार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम्। अर्थानामपि जातिव्यक्तिलिङ्गसंख्याकारकाणां बोधक्रमः शास्त्रकृत्कल्पितस्तत्क्रमेणैव च तद् बोधकशब्दप्रादुर्भावः कल्पित इति तत्क्रमेणैव तत्कार्याणीति 'पट्व्ये'त्यादावन्तरङ्गत्वात् पूर्वं पूर्वयणादेशः परयणादेशस्य बहिरङ्गतया असिद्धत्वादित्यनेन 'अचः परस्मिन्' इति सूत्रे भाष्ये स्पष्टम्। तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव। यथा 'पट्व्येत्यत्र पदस्य विभज्यान्वाख्याने न तु जातस्य बहिरङ्गस्य तादृशेऽन्तरङ्गऽसिद्धतानियामकं प्रागुक्तलोकन्यायेन तथैव लाभादिति 'वाह ऊठ्' सूत्रे कैयटे स्पष्टम्। अत एव 'वाय्वो'रित्यादौ वलिलोपो यणः स्थानिवत्त्वेन वारितः 'अचः परस्मिन्' इत्यत्र भाष्यकृता। क्रमेणान्वाख्याने तु उक्तोदाहरणे पूर्वप्रवृत्तिकत्वमन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्ताभावादप्राप्तिरूपं बोध्यम्। यत्तु एवं रीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति। तच्चिन्त्यम्, 'स्रजिष्ठ' इत्यादौ विन्मतोर्लुकि टिलोपस्यापवादविन्मतोर्लुक्प्रवृत्त्या जातिपक्षाश्रयणेन वारणप्रयासस्य 'प्रकृत्यैकाच्' इति सूत्रप्रयोजनखण्डनावसरे भाष्यकृत्कृतस्य नैष्फल्यापत्तेः। त्वदुक्तरीत्या विन्मतोर्लुको बहिरङ्गासिद्घत्वेन अनायासतस्तद्वारणात्। भाष्य ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च। परिभाषायामङ्गशब्दस्य निमित्तपरत्वाच्च। इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य नासिद्धत्वबोधिकेति 'इच् एकाचोऽम्' इति सूत्रे भाष्ये पूर्वपक्ष्युक्तिरिति सा नादर्तव्या। 'परन्तप' इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तदप्रवृत्तेः। नव्यमतेऽपि यथोद्देशपक्षाश्रयणेनान्यथासिद्धोदाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः। आभीयेऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समान्याश्रयस्य नानेनासिद्धत्वमसिद्धत्वादिति असिद्धवत् सूत्रे भाष्ये स्पष्टम्। एवं सिचिवृद्धेर्येन नाप्रतिनानेनासिद्धत्वमसिद्धत्वादित्यसिद्धवत्सत्रे भाष्ये स्पष्टम्। एवं येन नाप्राप्तिन्यायेनान्तरङ्गबाधकत्वमूलकं न सिच्यन्तरङ्गमस्तीति 'इको गुणवृद्धी' इति सूत्रे भाष्ये स्पष्टम्॥५०॥

 

कामाख्या

नित्यादपीति। नन्विदमवतरणमयुक्तं परिभाषातुलापदार्थतात्पर्येण अकिञ्चित्करत्वादतो नित्यापेक्षयाऽन्तरङ्गस्य बलवत्वे बीजमाहेत्येवावतरणं वक्तुं युक्तमिति चेन्न। प्राचीनमते नित्यादप्यन्तरङ्गं बलीय इति परिभाषान्तरम्। तच्च यत्र नित्यस्य बहिरङ्गत्वन्तत्रैव प्रवर्तते। तेन बहिरङ्गान्तरङ्गयोरन्तरङ्गं बलीय इति सिद्धं। तन्मतं दूषयितुमुपक्रमते। नित्यादपीति। अपि शब्दात् परादपि। अत्र अन्तरङ्गत्वादिति हेतोः पक्षमात्रवृत्तित्वेनाप्रयोजकत्त्वशङ्कावारणाय अनुकूलतर्कमाह अन्तरङ्गे बहिरङ्गस्यासिद्धत्वादिति केचित्। तत्त्वविदस्तु - अन्तरङ्गे बहिरङ्गस्यासिद्धत्वादिति हेतुरेव बहिरङ्गस्यासिद्धत्वादित्यस्य बहिरङ्गविषयकज्ञानाभावादित्यर्थः। विरोधिज्ञानाभावेन लक्ष्येऽन्तरङ्गस्य निःशङ्कप्रवृत्तिरित्याहुः। पक्षदले उत्सर्गभिन्नत्वमिति विशेषणन्देयम्। तेनापवादेनान्तरङ्गबाधेऽपि न क्षतिः। अनयैव हि समकालप्राप्तबहिरङ्गस्येव जातबहिरङ्गस्याप्यसिद्धत्वसिध्या परिभाषान्तरं वृथेति भावः। अनयोर्लक्षणमाह अन्तर्मध्यइत्यादिना। अत्र मध्यत्वस्य सावधिकत्वेनावध्याकांक्षाशान्त्यर्थमाह बहिरङ्गेत्यादि। इदं च फलितार्थकथनं न तु लक्षणघटकत्वेन निवेशः अतो नान्योन्याश्रयः। अर्थात्। यन्निरूपितान्तरङ्गत्वं विवक्षितं तदीयोद्देश्यतावच्छेदकत्वेनाश्रीयमाणशब्दसमुदायघटकनिमित्तकत्वमन्तरङ्गत्वम्। यन्निरूपितबहिरङ्गत्वं विवक्षितं तदीयोद्देश्यतावच्छेदकत्वेनाश्रीयमाणशब्द-समुदायबहिर्भूतनिमित्तकत्वं बहिरङ्गत्वमिति फलितम्। यथा ग्रामणि कुलमित्यत्र अन्तरङ्गे ह्रस्वे कर्तव्ये बहिरङ्गस्य तुकोऽसिद्धत्वमिति। एवं धियति असुस्रुवदित्यादि च बोध्यम्। स्वसिद्धान्तमाह। अत्राङ्गशब्देनेति।एवकारव्यवच्छेदमाह तेनेति। अत एव अतिस्त्रिणे इत्यत्र इकोचीति विहितस्य नुमः क्लीबरूपाधिकार्थसापेक्षत्वेऽपि स्त्रिया इतीयङपेक्षया न बहिरङ्गत्वम्। अत्रार्थे मानमाह अतएवेति। अर्थकृतबहिरङ्गत्वस्यानाश्रयणादेव।

अयंभावः - तिसृणामित्यत्र परत्वात्तिस्रादेशे सकृद्गताविति न्यायेन त्रयादेशाप्राप्तौ नामीति दीर्घवारणाय निषेध आवश्यकः तत्र तिस्रादेशविधायकशास्त्रेऽधिकस्य स्त्रीत्वरूपार्थस्यापेक्षितत्वेन बहिरङ्गत्वादन्तरङ्गत्वाच्च त्रयादेशे, नुटि, दीर्घे च कृते स्थानिवद्भावेन तिस्रादेशे विकारकृतलक्ष्यभेदाभावेन लक्ष्ये लक्षणन्यायेन पुनर्दीर्घाप्राप्तौ निषेधवैयर्थ्यं स्पष्टमेवेति। न च त्रेस्त्रय इत्यत्रोद्देश्यनिमित्तयोरुपस्थितार्थद्वयेन साम्यमिति वाच्यम्। तिस्रादेशेऽपि उपस्थितार्थद्वयेन साम्येऽपि स्त्रीत्वरूपार्थेनाधिक्यात्। अतएवेति। अर्थनिमित्तकस्य बहिरङ्गत्वानाश्रयणादेव। स्रन्तस्य स्थानिवत्वप्रतिषेध इति वार्तिकस्य सकृद्गतिन्यायेन भाष्ये प्रत्याख्यानस्य चासंगतिर्बोध्या। एतेन। शब्दरूपनिमित्तस्यैवाश्रयणेन। गौधेर इत्यत्रैयादेशस्य प्रत्ययसंज्ञाऽङ्गसंज्ञासापेक्षत्वेन बहिरङ्गतया यलोपं प्रत्यसिद्धत्वाद्यलोपो न स्यात्। न च लोपस्यापि वल्संज्ञा लोपसंज्ञाद्वयसापेक्षत्वेन साम्यमिति वाच्यम्। लोपसंज्ञाविधेयकोटावाश्रयणेन निमित्तत्वाभावात् इत एवारुचेः पचेरन्नित्यस्योपादानाच्च। अत्र हि इयादेशस्य अत् संज्ञा सार्वधातुकसंज्ञाऽङ्गसंज्ञेति च तिसृणां संज्ञानां सापेक्षत्वेन बहिरङ्गत्वाद्यलोपो न स्यादित्याशङ्क्य अचः परस्मिन्नित्यस्य वाय्योरित्युदारहणदानपरकभाष्येण वलिलोपेऽन्तरङ्गपरिभाषा न प्रवर्तते इति प्राचीनमतमपास्तमिति भावः। ननु समुदायसापेक्षेयादेशापेक्षया समुदायघटकवर्णद्वयापेक्षत्वेन लोपस्यान्तरङ्गत्वं तवमतेऽपीत्यत आह एयादेशादेरपरेति। न चोक्तरीत्या उभयविधान्तरङ्गत्वस्य उभयत्रसत्वेन कथमसिद्धत्वमिति वाच्यम्। चेले क्नोपेरितिनिर्देशेन वलिलोपेऽन्तरङ्गपरिभाषानित्यत्वस्यावश्याश्रयणीयत्वेनादोषात्। वस्तुतस्तु लक्ष्यानुरोधात् अन्तर्भूतनिमित्तकत्वं शीघ्रोपस्थितिनिमित्तकत्वम् अपरनिमित्तकत्वमित्याद्यनेकविधान्तरङ्गत्वस्य ग्रन्थकृत्संमतत्वेन अन्तरङ्गत्वेन जिघृक्षितं यच्छास्त्रं तदीयान्तरङ्गत्वप्रयोजकधर्माभाववत्वरूपैकविधस्यैव बहिरङ्गत्वस्य ग्रन्थकृतसंमततया प्रकृतेऽन्तरङ्गप्रयोजकधर्मस्यापरनिमित्तकत्वस्य सत्वेन बहिरङ्गत्वाभावादिति दिक्। अपरनिमित्तकत्वमित्यत्र प्रमाणन्तु ऊकाल इति निर्देश एव। अन्यथा समाहारद्वन्दे उऊऊ३ इति स्थिते परत्वात् सवर्णदीर्घे ततो ह्रस्वे उकाल इति स्यात्। यदि च इतरेतरयोगद्वन्द्वेन निर्देशोपपत्तिरित्युच्यते तर्हि अतोऽमिति सूत्रे तपरकरणमुक्तार्थे मानम्।नपुंसके हि सर्वत्र ह्रस्वस्यैव सत्वेन तद्व्यावर्त्यालाभः। ज्ञापिते तु अश्च आश्चेति समाहारद्वन्द्वे अन्तरङ्गत्वात्सवर्णदीर्घात्पूर्वं ह्रस्वे ततो दीर्घे लक्ष्ये लक्षणन्यायेन पुनर्ह्रस्वाप्राप्तौ आ इति रूपे व्यावर्त्यलाभः सुलभः। न चैवं दुद्यूषतीत्यत्र दिव्स इति स्थिते ऊठं बाधित्वा अपरनिमित्तकत्वेनान्तरङ्गत्वात्पूर्वं द्वित्वेऽभ्यासे उकारश्रवणानापत्तिरिति वाच्यम्। घटकनिमित्तकत्वरूपान्तरङ्गस्योठ्यपि सत्वेन उभयोः साम्ये परत्वादूठि रूपसिद्धेः। वस्तुतः कर्तृक्यङन्तात् सुमनाय शब्दात्कर्त्तरि क्विपि, अलोपयलोपयोः सुमना इत्यत्र तपरकरणस्य चारितार्थ्येन ज्ञापकत्वासंभवात् फलाभावाच्च अपरनिमित्तकत्वमन्तरङ्गत्वमिति न युक्तम्। न चात्र ह्रस्वः शङ्क्यः अल्लोपस्य स्थानिवत्वात् क्वौलुप्तं न स्थानिवदिति तु न तस्य संकुचितविषयत्वात्। अत एव अदसोसेरिति सूत्रे उ इति ह्रस्वदीर्घयोः समाहारद्वन्द्व इतिकौमुदीग्रन्थः संगच्छते इति तत्त्वम्। केचित्तु अपरनिमित्तकत्वमिति स्वीकारे यः सः इत्यत्र त्यादादीनाम इत्यतः प्रागन्तरङ्गत्वाद्धल्ङ्यादिलोपापत्तिः स्यादिति वदन्ति। तत्र पूर्वनिमित्तकत्वाभाववत्वे सतीति विशेषणदानेनादोषात्। अत एव नामीति सूत्रे आमीति न्यासे नित्यत्वाद्दीर्घे नुडभावमाशङ्क्य ह्रस्वग्रहणसामर्थ्यात् साम्प्रतिकाभावेभूतपूर्वविज्ञानमिति मत्वा नुट् साधितो भाष्ये। नुटोऽन्तरङ्गत्वे तु भाष्यासंगतिः स्पष्टैव। अत एव च ऋतो भारद्वाजस्येति सूत्रे उपदेशे किं जहर्थेति भाष्यं संगच्छते। अन्यथाऽपरनिमित्तकत्वेनान्तरङ्गत्वात् पूर्वमेवेटो निषेधे ततो गुणे भाष्यासंगतिः स्पष्टैव। एङ ह्रस्वादिति सूत्रस्थ हे हरे इत्येतद्विषयकशेखरग्रन्थस्तु शङ्काकर्तृमताभिप्रायवर्णनपरो न तु स्वसिद्धान्तपर इति मान्या आहुरिति दिक्।

ननु येन विधिस्तदन्तस्येति सूत्रे यत्रापि विशेष्यं प्रक्रान्तं नास्ति तत्रापि शब्दरूपं विशेष्यमादाय तदन्तविधिरित्याशयेन इको यणचीत्यत्रापि तदन्तविधौ इगन्तस्यशब्दस्य यणन्तशब्दादेशः अजादौ शब्दे परे इत्यर्थे स्योन इत्यत्र दोषदानपरभाष्यकैयटे संज्ञारूपार्थनिमित्तकत्वेन बहिरङ्गत्वाश्रयणेन तद्विरोध इत्याशयेनाशङ्कते नन्विति। ऊठपवादत्वादिति। न च देवमाचष्टे घुरित्यत्र टिलोपणिलोपयोः स्थानिवत्वेन वलोपाप्राप्त्या ऊठि क्वौ विधिं प्रति न स्थानिवदिति निषेधात्तदप्राप्त्या तत्रोठश्चारितार्थ्येन कथमपवादत्वमिति वाच्यम्। अनुनासिकनिमित्तस्योठोऽपवादत्वमित्याशयात्। अन्तरङ्गत्वादिति। गुणे वक्ष्यमाणानि पञ्चनिमत्तानि, ऊङि वक्ष्यमाणानि तानि चत्वारि अतस्तस्यान्तरङ्गत्वमिति भावः। तान्युपपादयति। गुणोहीति। नायं मम विरोधः। किन्तु तवैवेत्याशयेन समाधत्ते तदन्तविधावपीतिभाष्यासंगतेरिति। कैयटमते। यण्यपि ऊठीव इगन्ताजादिशब्दद्वयमात्रापेक्षत्वेन गुणापेक्षयाऽन्तरङ्गत्वस्य सुवचत्वेन भाष्यासंगतिरिति भावः। न च गुणेऽपि पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वस्य वक्तुं शक्यतया उभयोरन्तरङ्गयोः परत्वाद्गुणाः स्यादिति भाष्यासंगतिरिति वाच्यम्। सिद्धान्तेऽपि त्वदुक्तान्तरङ्गत्वस्य गुणे सत्त्वेन यणोऽन्तरङ्गत्वेन गुणबाधकत्वप्रतिपादनपरभाष्यासंगतेः स्पष्टत्वात्।

ननु शब्दकृतान्तरङ्गबहिरङ्गभावस्य प्राधान्यम्। शब्दशास्त्रे शब्दस्य प्राधान्यात् अर्थकृतस्य तु गौणत्वं। एवं च प्रधानान्तरङ्गगुणदृष्ट्या यणोऽसिद्धत्वान्न संज्ञाकृतबहिरङ्गत्वाश्रयणेऽपि भाष्यासंगतिरत आहबहिरङ्गान्तरङ्गशब्दाभायामितिअयमाशयः - तदन्तविधौ यादृशस्य अन्तरङ्गबहिरङ्गशब्दार्थस्याश्रयणेन त्वया दोषो वारितः स शब्दमर्यादयाऽलभ्यमिति। ननु शक्त्या तेन शब्देन तथाऽलाभेऽपिलक्षणया तथा लाभ इत्यत आह तथासति। निर्बीजलक्षणयापेक्षया स्पष्टप्रतिपत्यर्थम् इत्येन वदेदिति भावः। ननु तथा सति मुख्यगौणबहिरङ्गान्तरङ्गभावस्य लाभसम्मभवाद्भाष्यमसंगतं स्यादतस्तथा नोपात्तमत आह अतएवेति। भवदुक्तस्यगुणापेक्षया ऊठोऽन्तरङ्गत्वस्याभावादेव।त्वद्रीत्या। संज्ञाकृतबहिरङ्गत्वमिति रीत्या। तदपि। गुणादूठोऽन्तरङ्गत्वमपि। ननु तद्बिना गुणाद्यणादेशोऽन्तरङ्गत्वादिति कथनासंगत्या तदपि कथितप्रायमित्यत आह प्राथम्यादितितद्वारणासंभवादिति। ऊठा गुणवारणासंभवात्। ननु स्वमतेऽपि गुणाद्यणादेश इति भाष्यस्योपपत्तये गुणापक्षेया पूर्वमूठः प्रवृत्तिरावश्यकी सा कथमित्यत आह किञ्चेतियणाबाधित्वादिति। लक्ष्यानुरोधाद्बाधकाबाधितकृताकृतप्रसंगित्वस्यैव नित्यत्वस्याश्रयणादिति भावः। ननु तवमतेऽपि सिऊना इति समुदायस्योभयत्राश्रयणाद्घटकत्वघटितत्वाभावेन भाष्यमसंगतं स्यादत आह ऊनाशब्दमाश्रित्येति। सप्तम्याद्यन्तयेति बहिरङ्गत्वेन जिघृक्षितशास्त्रघटकयत्किञ्चित्पदेनाश्रीयमाणशब्दसमुदायघटकवृत्तिविषयताप्रयोजकसप्तम्यन्तपञ्चम्यन्तान्यतरपदघटितत्वन्तत्त्वमिति फलितम्। यथा बहिरङ्गत्वेन जिघृक्षितशास्त्र'मिको यणची'ति तद्घटकाचीति पदेनाश्रीयमाणशब्दसमुदायः ऊन इति तद्घटकः न इति।तद्वृत्तिविषयताप्रयोजकसप्तम्यन्तार्धधातुकपदघटितत्वेन गुणास्यान्तरङ्गत्वम्। एवमन्यत्रापि। न च 'वाह ऊठि'त्यत्र सप्तम्यन्तपदाभावेन 'पुगन्ते'तिशास्त्रस्य तम्प्रत्यन्तरङ्गत्वाभावेन ज्ञापकतापरभाष्यविरोध इति वाच्यम्। समकालप्राप्तिकान्तरङ्गत्वकुक्षावेवोभयत्र सप्तम्यन्तपदप्रवेशः। ज्ञापकतापरभाष्यन्तु जातासिद्धत्वाभिप्रायकम्। तत्र चान्त एव सप्तम्यन्तपदप्रवेश इत्यदोषात्। न च समकालप्राप्तिकान्तरङ्गत्वलक्षणे उभयत्र सप्तम्यन्तपदप्रवेशे अन्तरङ्गत्वादियङ् रियति यियतीतिभाष्यविरोधः। तत्र हिगुणशास्त्रीयसप्तम्यन्तपदेनाश्रीयमाणस्त्विति तद्घटकनिमित्तकत्वाभावेनेयङोऽन्तरङ्गत्वं न स्यादिति वाच्यम्। पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वस्य सत्त्वेनादोषात्। अतएव। न चैवमसुस्रुवदित्यत्रत्य शङ्काग्रन्थः संगच्छते।

मान्यास्तु - बहिरङ्त्वेन जिघृक्षितशास्त्रविशिष्टशास्त्रनिमित्तत्वमन्तरङ्गत्वम्, वै. स्वीयोद्देश्यतावच्छेदकत्वेनाश्रीयमाणशब्दसमुदायघटकनिमित्तकत्वाभाववत्व स्वघटकौपश्लेषिकाधिकरणबोधकसप्तम्यन्तपञ्चम्यन्तान्यतरपदप्रयोज्योपस्थितीयविषयतापर्याप्त्यधिकरणीभूतसमुदायघटकपर्याप्तोपस्थितीयप्रकारतासमानाधिकरणविषयताप्रयोजकसप्तम्यन्तपञ्चम्यन्तान्यतरपदघटितत्वाभाववत्वैतदुभयसम्बन्धेन। एवं च प्रकृते ऊकाल वाह ऊठ् इत्यादौ च ना काप्यनुपपत्तिरित्याहुः।

गौधेरः पचेरन्नित्यत्रोक्तशङ्कायां प्राचीनोक्तसमाधानं खण्डयति वलिलोपइति। एतत् फलन्तु क्नोपयति, यातिः पचेदित्यदिः। अत्र मानन्तु स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवदिति वार्तिकस्थयलोपस्य वाय्वोरितिभाष्योदाहरणम्। अत्र वलिलोपे कर्तव्ये यणः स्थानिवत्वस्य न पदान्तेति निषेधवारणाय यलोप इति वार्तिके उक्तम्। परिभाषाप्रवृत्तौ तु तदसंगतिः स्पष्टैवेति प्राचीनमतम् न युक्तम्। चेले क्नोपेरिति निर्देशेन परिभाषाऽनित्यत्वकल्पनेन भविष्यति गम्यादय इति निर्देशेन प्रकृतिप्रत्ययनिमित्तकस्यान्तरन्ते कर्तव्ये नासिद्धत्वमिति कल्पनेन च सकलदोषपरिहारसंभवात्। स्वरदीर्घ इति वार्तिके यलोपग्रहणेन परिभाषायामागमादेशातिरिक्तस्यैव निमित्तस्याङ्गपदेन ग्रहणमिति बोधनेन वलिलोपस्यान्तरङ्गत्वाभावादिति केचित्।

ननु पञ्चेत्यत्र टापोऽभावाय षट्संज्ञा वक्तव्या तदर्थं च कार्यकालपक्षे षट्संज्ञादृष्ट्या नलोपासिद्धत्वमवश्यं वक्तव्यं तच्च संज्ञाकृतबहिरङ्गत्व एवोपपद्यत इति संज्ञाकृतमपि बहिरङ्गत्वं वक्तव्यमित्यांशङ्क्य समाधत्ते यत्वित्यादिव्याख्यानसामर्थ्येनेति। इदं कार्यकालपक्षे। यथोद्देशे तु लुगर्थं पूर्वजातं षट्त्वम् आनुमानिकस्थानिवद्भावेनादाय सिद्धम्। नलोपः सुबित्यनेन षट्संज्ञादृष्ट्या नलोपासिद्धत्वं तु न तत्रत्यभाष्येण तत्र घिसंज्ञाया एव ग्रहणात्। तत्र हि भाष्ये दण्डिदत्तौदत्तदण्डिनावित्यत्र नलोपस्य घिसंज्ञादृष्ट्याऽसिद्धत्वेन घित्वाभावात् पूर्वनिपातानियमफलमुक्त्वायदा घित्वन्तदापूर्वनिपातो यदा पूर्वनिपातस्तदा नलोपे घित्वमित्यन्योन्याश्रयमाशङ्क्य संज्ञाग्रहणसामर्थ्यात् यसा पूर्वपदत्वे घित्वं भावि तस्य पूर्वनिपात इत्यर्थेन समाहितम्। तत्र अन्यस्यापि संज्ञाया ग्रहणे षट्संज्ञादृष्ट्या नलोपासिद्धत्वेन सार्थक्यसम्भावात् सामर्थ्योक्तेरसंगत्यापत्तेः। केचित्तु व्याख्यानसामर्थ्येनेत्यस्य व्याख्यानबलेनेत्यर्थः भूतपूर्वषट्त्वमादायेत्यस्य लुगर्थं पूर्वं भूतं जातं यत्षट्त्वं संकेतसम्बन्धेन षट्पदवत्वरूपं तत् स्थानिवद्भावेनादायेत्यर्थः। यथाश्रुतं तु न युक्तम्। प्रियपञ्चा द्रौपदीत्यत्र ङीप्डापोरभावाय तादृशव्याख्यानस्यावश्यकत्वेन सामर्थ्यस्योपक्षीणत्वादित्याहुः। अतएवेति। संज्ञाकृतबहिरङ्गत्वस्यानाश्रयणादेव। ध्वनितमिति। तत्र हि वृत्रहभ्यामित्यादौ सन्निपातपरिभाषया तुगभावमुपपाद्य कृति तुग्ग्रहणं प्रत्याख्यातं न त्वन्तरङ्गपरिभाषया।

अथ पदार्थं निरूप्य वाक्यार्थं निरूपयति अन्तरङ्गेत्यादिना। अथ जातबहिरङ्गत्वस्यासिद्धत्वे किं फलमिति चेदत्रोच्यते। पचावेदमिति। अत्रैकादेशस्य पूर्वान्तवद्भावेन लोट्सम्बन्धित्वमादाय'एत ऐ' इत्यैत्वे प्राप्ते पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन गुणस्य बहिरङ्गत्वेनासिद्धत्वान्न भवति। न च इत ऐ इति न्यासेन सिद्धिरिति वाच्यम्। भवानीत्यत्राप्यापत्तेः। न च तक्रन्यायेन त्यादेशेन इत ऐ इत्यस्य बाधेनादेष इति वाच्यम्। पचावेदमित्यत्र 'आमेत' इत्यनेनामापत्तेर्दुर्वारत्वात्। न चात्र प्रतिपदोक्तस्यैकारस्य ग्रहणेन न दोष इति वाच्यम्। एधस्व पचस्वेति येषु कर्मसु तेभ्य एधस्वपचस्वेभ्य इत्यत्र प्रतिपदोक्तस्यैकारसत्वेनामापत्तेर्दुर्वारत्वात्। केचित्तु आमेत इत्यादिषु आत्मनेपदानुवृत्या पचावेदमिति संसाध्य एधस्वपचस्वेभ्य इत्येव फलमिति वदन्ति। ननु आत्मनेपदमुच्चार्य विहितस्य एकारस्य आम् ऐ इत्यार्थेन नोक्तदोष इति किं फलमिति चेन्न, हे जगदस्व इत्यत्र ह्रस्वस्यासिद्धत्वेन टाप् नेति फलसंभवात्। यदि चात्र सन्निपातपरिभाषया टापोऽभावः इत्युच्यते तर्हि यासेत्यत्रापि उक्तपरिभाषया टाबनापत्तिः। न च जगदस्वेत्यत्र सत्यपि टापि पुनर्ह्रस्वेन सिद्धिरिति वाच्यम्। लक्ष्येलक्षणन्यायेन पुनर्ह्रस्वाप्रवृत्तेः। अत्रत्यलक्ष्यत्वादिविचारः अत्यत्रदर्शितरीत्याऽनुसंधेयः। केचित्तु स्वयं भवतीति स्वयम्भूस्तस्मै स्वयम्भुवे इत्यत्र प्रत्ययलक्षणेन क्पिप्परत्वमादाय वकारस्य छ्वोरिति प्राप्तस्योठो वारणमेतत्फलमिति वदन्तीति। तन्न छकारसाहचर्येण प्रत्ययानिमित्तकस्यैव वकारस्य ग्रहणेनादोषात्। यत्तु असूषूददित्यत्र णौचङीति ह्रस्वस्यासिद्धित्वाल्लघुपधगुणाभावः फलमिति। तन्न, क्नोः कित्वेन प्रत्ययोपदेशकालिकलघूपधस्यैव गुणविधानेनादोषात्। न चैवं तोतोर्तीत्यत्र गुणानापत्तिरिति वाच्यम्। यङ्लुकश्छान्दसत्वेनादोषात्। तुर्वीधातोर्वनिपि तोर्वेत्यत्र कथं गुण इति न वक्तुं शक्यः न धात्विति निषेधेन गुणस्यानिष्टत्वात्। तत्प्रत्याख्याने फलैक्याय तादृशप्रयोगस्यानभिधानात्। एवं रीत्या फलमन्विष्य स्वबुद्धिविलासो विधेय इति दिक्।

समकालप्राप्तासिद्धत्वफलन्तु रियति, पियति, असुस्रुवदिति। अत्र लघूपधगुणापेक्षया इयङादिसिद्धिः। अयजे इन्द्रमित्यित्र अयज इ इन्द्रमित्यवस्थायां दीर्घापेक्षया गुणस्यान्तरङ्गत्वम्। पट्वा मृद्वा इत्यत्र पटु ई आ इति स्थिते पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वेन पूर्वयणादेशस्यान्तरङ्गत्वमिति बोध्यम्। अत एव ओमाङोश्चेत्यत्राङ्ग्रहणं चरितार्थमिति। मूलोक्तदिशाऽवसेयम्।

नन्वेवं वृश्चतीत्यादौ भविष्यत्प्राप्तिकस्यापि संप्रसारणस्य वलोपदृष्ट्याऽसिद्धत्वोक्तिरसंगता स्यादित्यत आह वृश्चत्यादिष्वितिएतेनेति। अर्थद्वयस्याप्यनयैव संग्रहेण। एनामिति। असिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषाम्। तस्याः।अन्तरङ्गबहिरङ्गाद्वलीय इत्यस्याः। अन्तरङ्गशास्त्रत्वमस्यांलिङ्गमिति।सामर्थ्यं सर्वशब्दानां लिङ्गमित्यभिधीयते इत्यभियुक्तोक्तेः उपस्थितिप्रयोजकं चिह्नमन्तरङ्गशास्त्रत्वमिति भावः। अर्थात् परिभाषा अन्तरङ्गशास्त्रं गत्वा प्रतिपादयति यत्त्वं बहिरङ्गशास्त्रं नास्तीति जानीहि। तत्फलमाह इयञ्चेति। त्रिपादीस्थेऽन्तरङ्गशास्त्रे न प्रवर्तते इत्यर्थः। अत एव आगच्छहे पयोऽट्,आगच्छ हे पयोद् इत्यत्रोत्वदृष्ट्या प्लुतस्यासिद्धत्वं भाष्योक्तं संगच्छते। अन्यथा बहिरङ्गस्य प्लुतस्य त्रिपादिस्थतया परिभाषाया अप्राप्त्या परत्वात्प्लुत एव स्यात् , उत्वदृष्ट्या प्लुतस्य आश्रयणेन सिद्धत्वात्। अत एव पूर्वत्रासिद्धमित्यनेन त्रैपादिकान्तरङ्गस्य शास्त्रत्वेन रूपेणासिद्धतया न परिभाषा प्रवृत्तिः। सर्वमिदं शेखरे स्वादिसन्धौ स्पष्टम्। त्रिपाद्यामप्रवृत्तौ फलन्तु अभिषेणयति, अभिषुणोति,राज्ञः, सर्वेषामित्यादिषु अन्तरङ्गे त्रैपादिके कर्तव्ये णत्वादौ बहिरङ्गस्य त्रैपादिकस्य षत्वादेर्न्नानयाऽसिद्धिः। कथमेतस्यास्त्रिपाद्यामप्रवृत्तिरत आह अस्याञ्चेति। तद्वैयर्थ्यमिति। न च प्रष्ठौह इत्यादौ 'ऊडिदं पदे'त्यादिविहितस्वरो न स्यात्। ऊठोऽभावेन सूत्राप्रवृत्तेरिति वाच्यम्। उपधापदमुच्चार्य विहितस्यैवोठो ग्रहणं कर्तव्यमिति स्वरविधायकसूत्रस्थभाष्यवार्तिकेन प्रकृते स्वरस्यानिष्ठत्वात् परिभाषायां ज्ञापकतापरभाष्याच्च। प्रष्ठौह इति तत्सूत्रोदाहरणं कौमुद्यां वृत्त्यानुसारेण। सिद्धान्ते तु जूरः तूरेत्येव तदुदाहरणमिति मान्याः। केचित्तु स्वरविधायके 'वाह ऊठि'त्यत्र च ह्रस्व एव कर्तव्ये दीर्घविधानं ज्ञापकम्। तद्धि 'एत्येधत्यूठ्सु' इत्येतदर्थं क्रियते। इदानीं च लघूपधगुणे वृद्धिरेचीत्येव सिद्धम्। ज्ञापितायामस्यन्तु वाह ऊठित्यस्यासिद्धत्वेन लघूपधगुणाप्राप्तौ वृद्धिरेचीत्यस्याप्रावृत्तौ वृद्ध्यनापत्या एत्येधत्यूठ्स्वित्येतत्प्रवृत्तिसम्पादनेन दीर्घविधानं चरितार्थम्। वृद्धिविधायके उड् करणे तु अवतीति ऊः, जनस्य ऊः जनौरित्यादौ ज्वरत्वरेत्यूठि वृद्ध्यानापत्तेः 'ज्वरत्वरे'त्यत्र ह्रस्वकरणे जूः जूराविति न स्यादित्याहुरिति दिक्। बहिरङ्गसंप्रसारणस्येति। भपदाक्षिप्ताजादिप्रत्ययनिमित्तकत्वेन संप्रसारणस्य बहिरङ्गत्वम्। न च संप्रसारणस्याबहिरङ्गत्वेऽपि पूर्वरूपस्य बहिरङ्गत्वाभावाद्गुणो निर्बाध इति वाच्यम्। हल् इति ज्ञापकेन पूर्वरूपे संप्रसारणतुल्यत्वज्ञापनेनादोषात्। अत एव हूतमित्यादौ पूर्वरूपोत्तरं दीर्घसिद्धिः। स्थानिवत्वेन तु न निर्वाहः संप्रसारणत्वस्याल्मात्रवृत्तित्वेन स्थानिवत्वाप्रवृत्तेः। 'अचः परस्मिन्नि'त्यनेनापि न दीर्घविधौ निषेधात् स्वविधित्वाच्च। एवं च संप्रसारणनिष्ठं बहिरङ्गत्वमपि पूर्वरूपस्येति न दोषः। अत एव जागृह् इत्यत्र संप्रसारणस्यासिद्धत्ववत् पूर्वरूपस्याप्यसिद्धत्वाद्रुगादिर्न्न। न चाचः परस्मिन्निति स्थानिवद्भावेन ऋदुपधत्वाभावान्नेदं फलमिति वाच्यम्। अभ्यासकार्ये तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्धकीभूतं स्थानिवत्वन्नेति कल्पनेन तत्वाप्रवृत्तेः। प्राचीनरीत्या नाजानन्तर्य इति निषेधात् परिभाषाज्ञापकत्वं विघटयति पुगन्तेति। न गुण इति येन नाव्यवधानन्यायेन भेत्तेत्यत्र गुणः भिनत्तीत्यत्रानेकवर्णव्यवधाननान्नेति भावः। उत्थिताकांक्षेति। इदमयुक्तम्। अङ्गपदार्थस्य पित्रादिपदार्थवत् सनिरूपकत्वाभात् सङ्केतसम्बन्धेनाङ्गपदवत्वस्यैवाङ्गपदार्थत्वाच्च। किञ्च पुगन्तेत्यस्यैकवर्णव्यवधाने प्रवृत्तावपि 'नाजानान्तर्ये'ति परिभाषायास्तत्र प्रवृत्तौ मानाभावात्। कर्मधारयाश्रयणेनेति। लघ्वी चासावुपधा लघूपधा। पुकि अन्तः पुगन्तः। पुगन्तश्च लघूपधा च पूगन्तलघूपधन्तस्येत्यर्थाश्रयणान्न दोष इति भावः। ननु अकारान्तोपसर्गे प्रौह इत्यत्र लघूपधगुणेऽपि एङि पररूपमित्यनेन वृद्धिं बाधित्वा पररूपे उक्तरूपासिद्ध्या अनकारान्ते वार्य्यूह इत्यादौ गुणे सति रूपासिद्ध्याच ऊठ्ग्रहणस्य कथं ज्ञापकत्वमत आह अकरान्तोपसर्गेइत्यादि। 'विभाषा पूर्वाह्णे'ति सूत्रे प्रष्ठौह आगतं प्रष्ठवाड्रूप्यमिति भाष्ये लौकिकविग्रहे प्रष्ठौह इति प्रयोगाल्लोकेऽपि क्वचित् ण्विरिति बोधनादिति भावः। ननु ऊहतेः क्विपि वार्य्यूह इतिवत् प्रौह इत्यपि स्यादत आह प्रौहइत्यादि। ऊठोऽभावेन वृद्धेरप्राप्तेरिति भावः। कैयटोक्तरीतिमनुसृत्य प्राचामुक्तिं खण्डयितुमुपक्रमते कार्यकालेति।पूर्वंप्रति। परिभाषां प्रति परस्य त्रिपादीस्थान्तरङ्गशास्त्रस्य पूर्वस्य सापादिकबहिरङ्गस्येति केचित्। वस्तुतस्तु पूर्वं प्रति सापादिकबहिरङ्गं प्रति परस्य त्रैपादिकान्तरङ्गशास्त्रस्य 'पूर्वत्रासिद्ध'मित्यनेनासिद्धत्वादन्तरङ्गाभावे तन्निरूपितबहिरङ्गत्वस्याप्यभावः परस्परसापेक्षान्तरङ्गत्वबहिरङ्गत्वयोरभावेन परिभाषाया अप्रवृत्तिरिति भावः। ननु 'पूर्वत्रासिद्ध'मित्यतः प्रागेव त्रैपादिकान्तरङ्गे परिभाषा प्रवर्ततां तदानीमन्तरङ्गबहिरङ्गयोः सत्वादित्याशयेन शङ्कते चानयेतिएवंहीति। पूर्वपरीभावे नियामकाभावे हि। वस्तुतो विनिगमकमस्तीत्याह किञ्चेतिअस्याबाधएवेति। परिभाषातः पूर्वंप्रवृत्तिरिति भावः।

तत्त्वविदस्तु - परिभाषा द्विविधाः काश्चिच्छास्त्रत्वसंपादिकाः काश्चिच्छास्त्रत्वावच्छिन्नोद्देश्यिकाः। तत्र यया विना आप्रामाण्यज्ञानानास्कन्दितसाधुत्वप्रकारकबोधजकत्वरूपशास्त्रत्वं न संभवति। तस्याः त्रिपाद्यामपि प्रवृत्तिः। यथा तस्मिन्नित्यादेः यया विनापि निरुक्तशास्त्रत्वमस्ति। तस्यास्त्रिपाद्यामप्रवृत्तिः परं शास्त्रमसिद्धमित्यर्थकपूर्वत्रासिद्धमित्यनेन त्रैपादिकस्यासिद्धत्वात्। यथा आसिद्धं बहिरङ्गमन्तरङ्गे इत्यादेरिति वर्णयन्ति। अतएव। उभयपक्षे त्रिपाद्यामस्याः अनुपस्थितेरिष्टत्वादेव। किन्तुवचनमेवेति। सुद्ध्युपास्य इत्यादौ संयोगान्तलोपवारणाय यणः प्रतिषेधो वक्तव्यः, चक्र्यत्रेत्यत्र संयोगादिलोपाभावाय। निगाल्यत इत्यत्र 'अचि विभाषे'ति लत्वार्थं व्रीहिवापाणीत्यादौ णत्वाय च 'तस्य दोषः संयोगादिलोपलत्वणत्वेषु'। कृतस्यापत्यं कार्तिरित्यादौ 'रदाभ्या'मिति नत्वाभावाय निष्ठानत्वमवृद्धेः। नृमतोऽपत्यं नार्मत इत्यादौ 'मादुपधाया' इति वत्वाभावार्थं नृमतोवत्वप्रतिषेधः। नार्कुटो नार्पत्य इत्यत्र विसर्गाभावायविसर्जनीयोऽनुत्तरपदे। इत्यादि वचनानि कर्तव्यानीति भावः। न च त्रिपाद्यां प्रवृत्तिस्वीकुर्वतामस्माकम् उक्तवार्तिकाकरणरूपलाघवमिति वाच्यम्। संयोगान्तलोपे झलोऽपकर्षणेन वारणसंभवान्मन्मतेऽप्यकरणसंभवात्। नृमतः ऋमच्छब्दस्याप्युपलक्षणत्वेन तस्मात् क्यजन्ताल्लङि आर्मत्यादित्यत्र आटश्चेति वृद्धेर्बहिरङ्गत्वाभावेन वत्ववारणाय नृमतो वत्वप्रतिषेध इत्यस्य तावप्यावश्यकत्वात्। ऋधातोः क्ते तत आचारक्विबन्ताल्लङि आर्तदित्यत्र वृद्धेर्बहिरङ्गत्वाभावेन। नत्वाभावार्थं निष्ठानत्वमवृद्धेरित्यस्य तवाप्यावश्यकत्वात्। कल्पप्प्रत्यान्तात् ऋकल्पशब्दादाचारक्विबन्ताल्लङि आर्कल्पदित्यत्र विसर्गवारणाय 'विसर्जनीयोऽनुत्तरपदे' इत्यस्य तवाप्यावश्यकत्वात्। प्लायते प्राहिणोदित्याद्यर्थं तस्य दोषः संयोगादिलोपलत्वणत्वेष्वित्यस्य तवाप्यावश्यकत्वादिति दिक्।

केचित्तु विसर्जनीयोऽनुत्तरपदे इति वार्तिकेन उभयथर्क्षु इत्यादिनिर्देशेन च खर्विशिष्टस्य रेफस्य खरनिमित्तको विसर्जनीयो न भवतीति कल्प्यते। वै. स्वाव्यवहितपूर्वाच्स्थानिकत्व स्वनिमित्तकत्वोभयसम्बन्धेन। अत्र निमित्तता तद्भावभावितामात्रेण तेन उपार्च्छतीत्यादौ न दोषः। प्रथमसम्बन्धनिवेशाद् दास्याः पुत्र इत्यादौ न दोषः। अव्यवहितपूर्वेत्युक्त्या होतुः पुत्रः इत्यादौ न दोषः। अच्पदोपादानात् शार्ङ्गिश्च्छिन्धीत्यादौ न दोषः। द्वितीयसम्बन्धदानात्धातः पश्य इत्यादौ न दोष इति वदन्ति। अतएवेति। कार्यकालपक्षेऽपि अन्तरङ्गपरिभाषायास्त्रिपाद्यामप्रवृत्तत्वादेव। ननु धर्मिग्राहकमानेन जातबहिरङ्गासिद्धत्वबोधनेऽपि समकालप्राप्तबहिरङ्गासिद्धत्वं कथमित्यत आह अतएवओमाङोश्चेति। समकालप्राप्तस्याप्यसिद्धत्वबोधकत्वादेव। न च खट्वा आ ऊठौ इति स्थितेऽपवात्वाद्दीर्घे ज्ञापनोत्तरं स्वांशे कथं चारितार्थ्यमिति वाच्यम्। अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते इति बलेन अन्तरङ्गबहिरङ्गाभावाविषये दैत्यारिरित्यादौ चारितार्थस्य दीर्घस्य अत्रान्तरङ्गेण गुणेन बाधसंभवात्। ननु पट्व्या मृद्व्येत्यत्र पूर्वयण इव पूर्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वस्य दीर्घस्यैव सत्वेन गुणस्य कथन्तदित्यत आह साधनबोधकेति। ननु आङ्पूर्वकेण्धातोरेहीति तदनुकरणे एहिशब्दे अनुकार्यघटकैकारे पूर्वान्तवद्भावेनाङ्त्वादनुकरणं प्रकृतिवदित्यतिदेशेन लब्धाङ्त्वे अनुकरणेन एहीत्यनेन षष्ठ्यन्तशिवशब्दस्य समासे प्राप्तवृद्धिबाधनार्थम् आङ्ग्रहणस्य चारितार्थ्येन कथं ज्ञापकत्वमत आह एहीत्यनुकरणस्येति। धातूपसर्गयोः कार्यमन्तरङ्गमिति प्राचीनमतं नागेशसम्मतं पूर्वोक्तरीत्याऽन्तरङ्गत्वोपपादनादिति भ्रमवारणाय तन्मतमुपपाद्य खण्डयति यत्वित्यादिनातत्सम्बन्धोत्तरमेव। साधनप्रयुक्तकार्यसम्बन्धोत्तरमेव। न च साधनसम्बन्धात् पूर्वं क्रियाबोधकत्वाभावात् कथं धातुत्वमिति वाच्यम्। भाव्युपसर्गसम्बन्धादुपक्रम एव विशिष्टक्रियावाचित्वात्। अत एव धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा धातुत्वं धर्मभावश्च तथान्यदपि दृश्यतामिति हरिकारिका संगच्छते। अतएव। साधनयोगस्य प्राथम्यादेव उक्तयुक्त्या। क्रियायाः साध्यत्वेनेत्यादि युक्त्या। निर्वर्तयति। संपादयति। उक्तेषु। अनुभूयते सुखमित्यादिषु। साधनबोधकशब्दनिमित्तककार्यापेक्षया उपसर्गार्थनिमित्तककार्यस्य शीघ्रोपस्थितनिमित्तकत्वेनान्तरङ्गत्वात्पूर्वमेवोपस्थितिः। तेन संचस्कारेत्यत्र लिडपेक्षया भूषणरूपोपसर्गार्थस्य प्रथमतरमेवोपस्थितत्वेन तन्निमित्तकः सुट् लिट्निमित्तकद्वित्वापेक्षयाऽन्तरङ्गतर इत्याशयेनाह एवंचेत्यादिनाअतएव। पूर्वं साधनयोगादेव। पुकः पूर्वमेव णत्वे परिभाषाया अनुपयोग इति भावः। अतएवेति। साधनबोधकप्रत्यययोगस्य पूर्वं स्वीकारादेव। अन्यथा। पूर्वमुपसर्गयोगे। न धातुलोप इति सूत्रस्थभाष्यविरोधपरिहारपूर्वकं पूर्वोक्तमेव स्पष्टयति यदुपसर्गेत्यादियत्तुतथा। नोपसर्गार्थनिमित्तकं किन्तु उपसर्गसंज्ञकशब्दसम्बन्धनिमित्तकं तद्बहिरङ्गमिति स्वीकार्यम्। भाष्येउक्तमिति। धात्वंशलोपनिमित्ते आर्धधातुके सति गुणो न भवतीत्यर्थे क्तप्रत्ययनिमित्तके नकारलोपे सति प्रेद्ध इत्यत्र आद्गुण इत्यस्यापि निषेधमाशंक्य न धात्विति निषेधापेक्षया उपसर्गसापेक्षगुणस्य बहिरङ्गत्वेनासिद्धत्वान्निषेध्याभावेन निषेधाप्रवृत्तिरिति तत्रोक्तम्। पूर्वमुपसर्गयोगे तु क्तप्रत्ययसापेक्षनिषेधस्यैव बहिर

परिभाषार्थमञ्जरी

अत एव न तिसृ इति। ननु इदं ज्ञापकं किं सूत्रकाररीत्या उत वार्तिककाररीत्या, भाष्काररीत्या वा। नाद्यः। समर्थग्रहणेन परिभाषाया अनित्यत्वज्ञापनेन तत्सार्थक्यात्। न च 'षत्वतुकोरसिद्ध' इति सूत्रस्थतुग्ग्रहणं ज्ञापकमस्त्येवेति वाच्यम्। सम‌नकालप्राप्तिकस्य जातस्य वा बहिरङ्गस्यासिद्धत्वप्रतिपादकपरिभाषावाच्यांशद्वये क्रमेणाङ्ग्रहणोठ्ग्रहणयोर्ज्ञापकत्ववदंश द्वयेप्यनित्यत्वस्यावश्यकतया[1] तन्मध्ये द्वितीयांशस्य 'षत्वतुकोरसिद्ध' इति सूत्रस्थतुग्ग्रहणस्य ज्ञापकत्वादनित्यत्वेन अक्षद्युरित्यादिसिद्धावपि द्वितीयांशस्यानित्यत्वाभावेन तिसृ‌णामित्याद्यसिद्ध्यापत्तेः तस्याप्यनित्यत्वस्यावश्यकत्वेन तदनित्यत्वस्यानेन बोधनात्। किञ्च 'नाजानन्तर्य्य' इति परिभाषाया आभावे प्रमाणाभावस्याग्रे एतत्परिभाषाव्याख्यावसरे वक्ष्यमाणतया तज्ज्ञापकत्वेन तुग्ग्रहणास्योपक्षीणत्वात्परिभाषाया अनित्यत्वे एतस्यैवाश्रयणीयत्वात्। 'वर्णो वर्णेने'ति सूत्रे विप्रतिषेधक्रमे[2] वीरपुरुषको ग्राम इत्यादौ समानाधिकरणसमासाद्बहुव्रीहिर्विप्रतिषेधेनेति विप्रतिषेधखण्डक नैष युक्तो विप्रतिषेधः। अन्तरङ्गः कर्म्मधारयः। काऽन्तरङ्गताॽ स्वपदार्थे कर्म्मधारयः अन्यपदार्थे बहुव्रीहिरिति भाष्ये[3] पञ्च गावो यस्य सन्ति स पञ्चगुरित्यत्र मतुप्प्राप्नोतीत्याशङ्कयऽन्तरङ्गत्वाद्बहुव्रीहिः। कान्तरङ्गताॽ अन्यपदार्थे बहुव्रीहिः। अस्ति त्ववशिष्टेऽन्यपदार्थे द्विगुरिति भाष्येण चार्थकृतबहिरङ्गत्वादेः बोधनात् प्रकृते पूर्वोक्तनिषेधेनार्थकृतबहिरङ्गत्वाभावबोधनं समर्थग्रहणेन परिभाषाया अनित्यत्वबोधनं चेत्यत्र विनिगमकाभाव इति तु न शङ्काकलङ्कः। कार्य्यकालं संज्ञापरिभाषम्, भस्येत्युपस्थितमिदं भवति, 'यचि भमि'ति एकदेशिभाष्यस्य कार्य्यकालपक्षे संज्ञाशास्त्राणां वाक्यैकवाक्यताबोधकत्ववत् पूर्व्वोक्तमतुप्सूत्रस्थभाष्यस्यैकदेश्युक्तित्वेपि तद्बोधकत्वं बोध्यम्। किञ्च 'वर्णो वर्णेने'ति सूत्रस्थभाष्ये[4] तु सिद्धान्तभाष्यत्वेन तद्बोधकत्वमव्याहतमेवेति दिक्। न द्वितीय:। 'नुमचिरतृज्वद्भावगुणेभ्योनुट्पूर्वविप्रतिषेधेने'ति वार्तिके चतस्रचिरेत्यनुक्त्वा सामान्यतोऽचिरनुटोः पूर्वविप्रतिषेधप्रतिपादकवार्तिककृतापि समर्थग्रहणेन तदभ्युपगमात्। अन्यथा तिस्रभावे रादेशस्यैवाप्राप्तेः। पूर्व्वविप्रतिषेधोक्तिकथनमेवा[5]सङ्गतं स्यात्। न तृतीय:। बाध्यविशेषचिन्तायां मध्येऽपवादन्यायेन दीर्घोत्त्वयोरेव बाधः स्यात् न गुणस्येत्यवश्याश्रयणीयायां बाध्यसामान्यचिन्तायाम् अविशेषणात् स्वविषये प्राप्तनुटोऽपि चिरेण बाधे 'नुमचिरे'ति वार्त्तिके रादेशनुटो: पूर्वविप्रतिषेधोऽसङ्गत इत्याशङ्क्य 'न तिस्री'तिज्ञापकान्नुडिति तृज्वत्सूत्रस्थभाष्येण तदनित्यत्वाभ्युपगमात्। न चार्थकृतबहिरङ्गस्यानाश्रयणेन भाष्यवार्तिकयोः प्रवृत्त्या [6] तदनित्यत्वे ज्ञापकत्वमिति वाच्यम्। 'वर्णो वर्णेने'त्यादिसूत्रस्थभाष्यविरोधेन तथा कल्पयितुमशक्यत्वात्। पूर्व्वोक्तभाष्यवदर्थकृतबहिरङ्गत्वाभावबोधकप्रत्यक्षभाष्यस्यानुपलम्भाच्च। अत एव वक्ष्यमाणस्थानिवत्सूत्रस्थभाष्यविरोधोऽपि नेति चेन्न। अत्रान्तरङ्गशब्देन इत्यस्याग्रे प्राय इति शेषेण सर्व्वसामञ्जस्यात्। तेनेत्यस्य प्रायः शब्दरूपनिमित्तत्वाश्रयणेनेत्यर्थः। अर्थनिमित्तकस्येत्यस्य सर्वं वाक्यमिति न्यायेन अर्थनिमित्तकस्यैव इत्यर्थः। [7]ननु अर्थनिमित्तकबहिरङ्गत्वाश्रयणे 'वर्णो वर्णेने'त्यादिभाष्यवत्संज्ञाकृतशब्दनिमित्तकृतबहिरङ्गत्वाश्रयणेन[8]न मानमित्याशङ्क्याह अत एव न तिस्रीति। अन्यथा इत्यस्यार्थकृतबहिरङ्गत्वस्यैवाश्रयणे इत्यर्थः। अत एव 'एकाजि'ति कर्म्मधारयो वर्त्तिपदार्थस्य प्रधानत्वेनान्तरङ्गत्वादित्याद्यर्थकृतबहिरङ्गात्वाश्रयक'निपात एकाजनाङि'ति सूत्रस्थशेखरग्रन्थः संगच्छते। किञ्च अत्राङ्गशब्देन शब्दरूपं निमित्तमेव गृह्यते। इत्यनुक्त्वा शब्दरूपं निमित्तं गृह्यत इत्युक्तमपि संगच्छते। ननु इदं सर्व्वमसत्। तथाहि अन्तरङ्गत्वाज्जातेऽपि त्रयादेशेऽन्तरङ्गप्रवृत्त्युत्तरं बहिरङ्गशास्त्रप्रवृत्तेः सर्वसम्मतत्वेन पश्चात्तिस्रादेशे जाते न तिस्रित्यस्य सार्थक्यात्[9] कथं ज्ञापकत्वोपपादनमिति चेन्न। अर्थकृतबहिरङ्गत्वस्यैवाश्रयणे स्त्र्यर्थनिमित्तकतिस्रपेक्षयाऽन्तरङ्गत्वात् त्रयादेशे पश्चात्तिस्रादेशेऽपि 'नामी'ति दीर्घदृष्ट्या स्त्र्यर्थनिमित्तकत्वेन तिस्रादेशस्य बहिरङ्गत्वादसिद्धत्वे दीर्घस्यैवाप्राप्तौ निषेधवैयर्थ्येन तज्ज्ञापकत्वमित्याशयात्। एतेन त्रिशब्दार्थसमवेत‌सङ्ख्यासमर्प्पके आमि त्रयादेश इत्यर्थकस्य 'त्रेस्त्रय' इत्यस्य माधवमते गौणेऽप्रवृत्त्या प्रियतिसृणामित्यादौ निषेधस्य चरितार्थत्वात्। अन्तरङ्गप्रवृत्त्युत्तरं बहिरङ्गप्रवृत्तेः सर्व्वसम्मतत्वेन त्रयादेशे कृते स्थानिवद्भावात्तिस्रादेशे अदोषाच्चेति भाष्यानारूढमार्गमवलम्ब्य ग्रन्थार्थं चाविज्ञाय दूषणगणावभासं प्रयुञ्जाना: आधुनिकतराः प्रत्युक्ता इति दिक्। एवमेव सर्व्वत्रार्थसंज्ञाकृतबहिरङ्गत्वानाश्रयकग्रन्था योजयितुं शक्या इति मात्सर्य्यमुत्सार्य सुधीभिरुह्यम्। एतेन गौधेर इति। एतेनेत्यस्यार्थसंज्ञाशब्दरूपनिमित्तकृतान्तरङ्गबहिरङ्गत्वाश्रयणेनेत्यर्थः। तदेवाह एयादेशादेरिति। चो हेतौ।

अयं भावः। धियतीत्यादौ प्रक्रियाक्रमेण पूर्व्वोपस्थितनिमित्तकत्वरूपान्तरङ्गत्वस्य गुणे सत्त्वेऽपि लक्ष्यानुसारात्तदाच्छाद्यप्रयोगीयोच्चारणक्रमेण पूर्व्वोपस्थितत्वरूपान्तरङ्गत्वमादाय एवेयङ्प्रवृत्तिवत्प्रकृत्तेऽपि संज्ञाकृतबहिरङ्गत्वस्यैवेयादेशे[10] सत्यपि तदा छाद्यपरनिमित्तकत्वरूपान्तरङ्गत्वमादायेष्टसिद्धौ संज्ञाकृतबहिरङ्गत्वेनेयादेरसिद्धत्वे लोपाप्राप्तौ परिभाषाया अनित्यत्वात् लोपविषये तदप्रवृत्तेरवश्यं वाच्यतया लोपविधायकसूत्रस्थवृश्चतीत्यादिषु परिभाषया संप्रसारणस्यासिद्धत्वेन प्राप्तलोपवारकवकारोपदेशसामर्थ्यप्रतिपादकभाष्यविरोधसहनं त्वनुचितमिति। यथा श्रुतं तु न साधु। 'दीर्घोऽकित' इति सूत्रस्थछो छेदने इत्यस्यमादात्वे, लिटि, छाशब्दस्य द्वित्वे, छा छा इत्यवस्थायाम् अन्तरङ्गत्वात्तुकि, अजन्ताभ्यासाभावेन ह᳙स्वाप्राप्तिमाशङ्क्य यंयम्यतेत्यत्र दीर्घवारणायकृताकिद्ग्रहणस्याजन्ताभ्यासस्य पूर्व्वोक्त्तोदाहरणे असत्वात्तदप्राप्तौ वैयर्थ्येनाकिद्वचनमन्यत्र किदन्तस्यालोऽन्त्यनिवृत्त्यर्थमिति ज्ञापकेन समाधाय विप्रतिषेधात्सिद्धम्। नैतानि सन्ति प्रयोजनानि। इत्युक्त्वाऽकिद्ग्रहणज्ञापितांशस्य पूर्व्वोक्तस्यानावश्यकत्वं बोधयित्वा वर्णाश्रयत्त्वात्तुकोऽन्तरङ्गत्वेन ह्रस्वस्य चाङ्गत्वेन बहिरङ्गत्वादयुक्तो विप्रतिषेध इत्यर्थक[11]कैयट-विवरणावतारिततदन्त[12]ग्रहणाद्वा। अथवा नैवं विज्ञायते अभ्यासस्याजन्तस्येति। कथं तर्हि अभ्यासस्य योऽच् इति भाष्येण तदनुवाद‌ककैयटविवरणाभ्यामेतद्भाष्यानुवादकह᳙स्व इति सूत्रस्थशेखरग्रन्थेन च संज्ञाकृततत्त्वस्याश्रयणात्। अभ्याससंज्ञाप्रवृत्तिकाले स्थानिद्वारा साक्षाद्वा सन्निहितानां हलामेवानुगत इति नुग्विधानात् निवृत्तेर्ज्ञापितत्त्वेन न दोष इति समाधिस्थविवरणेन वार्णादाङ्गमित्यस्य चोभयोरादेशत्वे एव प्रवृत्तिरित्याग्रहपूर्व्वकह᳙स्वाभावप्रतिपादकह᳙स्व इति सूत्रस्थशेखरग्रन्थेन च समाधानात्। तुकि कृतेऽपि हलादिः शेषेण तन्निवृत्तौ ह᳙स्वसौलभ्येन वार्णपरिभाषया ह᳙स्वसौलभ्येन च तद्भाष्यमेकदेश्युक्तिरिति तु नाशङ्कनीयम्। किञ्च अन्तराङ्गत्वाद्यादेशापेक्षया पदद्वयनिमित्तसमाससंज्ञाप्रयोज्या प्रातिपदिकसंज्ञासापेक्षत्वेन बहिरङ्गलुकः प्राबल्यप्रतिपादकभाष्येण अन्तरङ्ग-ईत्वापेक्षया [13]समाससंज्ञापेक्षबहिरङ्गल्यपः प्राबल्यबोधकभाष्येण प्रकृतपरिभाषाज्ञापकपर-'वाह ऊठ्'सूत्रस्थभाष्येण च तत्त्वाश्रयणबोधनाच्च। अपि च 'एङ् ह्रस्वात् सम्बुद्धे'रित्यस्य 'पदान्तादि'त्यादिसूत्रस्थशेखरग्रन्थादपि संज्ञाकृतान्तरङ्गबहिरङ्गभावाश्रयणलाभाच्चेति तत्प्रदर्शनानुसरण्येकदिक्। विद्यमानमपि संज्ञाकृतान्तरङ्गबहिरङ्गभावमाच्छाद्य लक्ष्यानु रोध्यन्तरङ्गबहिरङ्गभावग्रहणे भाष्यान्तरमुपपादयन् तदुपपादिकामन्यथा कैयटोक्तिमनुवदति। अत्र कैयट इत्यादिना।संज्ञापेक्षस्यापीति। अपि शब्दो भाष्योक्तोनशब्दमाश्रित्य यणादेशो, नशब्दमाश्रित्य गुण इत्यन्तरङ्गबहिरङ्गभावस्य समुच्चायकः। तदसमुच्चायकत्वे तद्व्याख्यानेऽप्रवृत्त्यापतेः। भाष्यासंगतेरिति। गुणे संज्ञाकृतबहिरङ्गत्वमाश्रित्यान्तरङ्गत्वादूठमङ्गीकुर्व्वत: कैयटस्यान्तरङ्गत्वाद्यणपेक्षया गुण एव स्यादिति दोषप्रतिपादकभाष्यविरोधापत्तेरावश्यमूठ्विषये विद्यमानमपि गुणे संज्ञाकृतबहिरङ्गत्वमाच्छाद्य मदुक्तरीत्यानित्यत्वेनैव पूर्व्वमूठं संपाद्याग्रिमभाष्येऽपि गुणे तत्त्वमाच्छाद्य भाष्यस्य सुयोजत्वादिति भावः। एवञ्च लक्ष्यानुरोध्यन्तरङ्गबहिरङ्गभाव इति फलितम्। ननु लक्ष्यानुरोध्यन्तरङ्गबहिरङ्गभावस्यावश्यकत्वे ऊठविषये गुणशास्त्रे संज्ञाकृतबहिरङ्गत्वमाश्रित्योत्तरभाष्ये गुणे तदनाश्रित्य भाष्यं सुयोज्यमिति क्व कैयटस्य विरोध इति चेत् बाढम्। मदुक्तरीत्या नित्यत्वेनैव गुणबाधसिद्धौ वैरूप्येण भाष्ययोजनस्य परिभाषया बाधनस्य चानुचितत्वात्। स्पष्टश्चयमर्थो नित्यत्वान्तरङ्गत्वयुक्तत्वेऽपि 'चङी'त्यस्य नित्यत्वेनैव 'णौचङ्युपधे'त्यस्य बाधनेन भाष्ये। तथा 'एत्येधत्यूठ्स्वि'ति सूत्रे शब्दरत्नेऽस्यैव[14] पूर्व्वं मूले च। एतेन संज्ञाकृतान्तरङ्गबहिरङ्गत्वस्य गुणसत्वनेति मूलग्रन्थं प्रत्याहारत्रयं तदादितदन्तविधी च द्वे इत्येवं यणोऽपि पञ्चकाश्रयत्वात् पुनरपि समत्वादिति ग्रन्थेन दूषयित्वा च कैयटभूषणं कुर्व्वन्तो भकारे दकारमङ्गीचक्रुः केचित्। किञ्च यथाश्रुतेऽपि गुणेऽग् इक् लघूपधा आर्धधातुकगुणानां षण्णां सत्त्वेन कथं साम्यप्रतिपादनमिति त एवैकान्ते प्रष्टव्या इति दिक्। बह्वपेक्षत्वाल्पापेक्षत्वयोरिति।सर्व्वं वाक्यं सावधरणमिति न्यायेन तयोरेवेत्यर्थः। एवञ्चान्यविधस्यापि अन्तरङ्गबहिरङ्गभावस्य ग्रहीतुं शक्यत्वेन [15]संज्ञाकृततत्त्वमाश्रित्य भाष्यविरुद्धान्तरङ्गबहिरङ्गभावकल्पनं[16] तवानुचितमिति भावः। अन्तरङ्गशब्देनेति। प्रकृतिविषये इत्यर्थः। यथाश्रुतन्तु न साधु। पूर्वोक्तरीत्यानेकविधान्तरङ्गबहिरङ्गभावमध्ये शब्दरूपं निमित्तमाश्रित्य[17] भाष्यप्रवृत्तिरित्युक्त्या प्रथमदूषणस्य तवाप्यङ्गशब्देन शब्दरूपं निमित्तं ग्राह्यमित्यत्र मदुक्तानेकपूर्वोक्तभाष्यविरोधादवश्यमाश्रयणीयेन [18]संज्ञादिकृतान्तरङ्गबहिरङ्गभावेन द्वितीयदूषणस्य ऊठो नित्यत्वेनापि गुणो[19] वारयितुं शक्यत्वेन तृतीयदूषणस्यानयैव रीत्या[20] चतुर्थस्य तदादितदन्तविध्युपक्रमादूनशब्दमाश्रित्येत्युक्तं भाष्ये इत्युक्त्या मूलोक्तपञ्चमदूषणस्य च क्रमेण परिहर्तुं शक्यत्वात्। किञ्च संज्ञाकृततत्वानाश्रयणे पूर्वोक्तानेकभाष्यव्याकोपाच्चेति दिक्। संज्ञाकृतबहिरङ्गत्वस्येति। अस्य प्रकृते इति शेषः। एतत्परिभाषाविषये यथोद्देशपक्षस्यैव वक्ष्यमाणत्वादेतद्दृष्ट्या नलोपस्यासिद्धत्वेनानया लोपस्यासिद्धत्वप्रतिपादनायोगादिति भावः। किञ्चानन्तरस्येति न्यायेन ङीप एव निषेध इति शङ्काया भाष्योक्तव्याख्याने[21] वारणीयत्वाच्चेत्याशयः[22]। अत एव वृद्धैरपि अन्यत्र संज्ञाकृततत्त्वाश्रयणेऽपि अत्र तदनाश्रयणमित्युपसंहारोऽस्य कृत इति ध्येयम्। अत एव कृतीति। अत एवेत्यस्य नलोपविषये संज्ञाकृतबहिरङ्गत्वानाश्रयणादेवेत्यर्थः। न मानमिति। अत्र विषये इत्यर्थः। यथाश्रुतं तु न साधीयः। परिभाषाज्ञापकपरभाष्येण संज्ञाकृतबहिरङ्गत्वस्य लाभेन पूर्वोक्तानेकभाष्येण च प्रथमदूषणस्यापरनिमित्तकत्वान्तरङ्गत्वस्य नलोपे सत्वात् परिभाषया तुग्वारणस्य कर्तुमशक्यत्वेन कृति तुग्ग्रहणस्य सार्थक्यात्। द्वितीयदूषणस्य चोद्धर्तुं शक्यत्वात्। पदार्थमुक्त्वा वाक्यार्थमाह। अन्तरङ्गे कर्तव्ये इति।त्रिपाद्यां न प्रवर्तत इति। यत्तु कैयटानुयायिनः। अनयान्तरङ्गं बलीय इत्यस्याः प्रत्याख्यानेऽपि प्रत्यङ्गवर्तीति लोकन्यायसिद्ध्याचः परस्मिन्निति सूत्रभाष्योक्तपरिभाषायाः प्रत्याख्यानाभावेनास्याः त्रिपाद्यां प्रवृत्तौ न बाधकमित्यूचुः तत्त्वनवधानग्रस्तम्। पूर्वप्रदर्शिताचः परस्मिन्निति [23]सूत्रभाष्यात् प्रत्यङ्गवर्तिलोकन्यायसिद्धोऽयमर्थ इति यत्र युगपदुभयप्रसङ्गः। तत्रैव प्रवर्तमानो 'वाह ऊठ्' सूत्रीयासिद्धपरिभाषाया न संग्राहक इति पूर्वमुक्त्वा अग्रे च लोकन्यायसिद्धायाः त्रिपाद्यां प्रवृत्तिस्वीकारेण परस्परविरोधात्। तथाहि त्रिपादीस्थपूर्वपरशास्त्राणां यद्युगपदेकत्र प्रसंगस्तदा प्रवृत्तिर्युक्ता स्यात्तदेव न । पूर्वं प्रति परासिद्धत्वेन युगपत्प्राप्त्यभावात्। किञ्च पूर्वत्रेत्यनेन शास्त्रसिद्धायाः परिभाषायाः यादृशविरोधेन बाधस्तादृशविरोधस्यात्रापि सत्वात्। अनुमिताया अपि बाधने लोकन्यायसिद्धाया बाधने तस्य श्रमाभावाच्चेति दिक्। यथा गुरुवत् गुरुपुत्रे इति लोकन्यायेन हन्तेः कार्यं वधेःस्यात् किं स्थानिवत्सूत्रेणेत्याशङ्क्य स्वरूपेति परिभाषाणां हन्तेः कार्यं वधेः न स्यादिति तदित्युक्तं तथा [24]प्रकृतेऽपीति भावः। बहिरङ्गसम्प्रसारणस्यासिद्धत्वादिति। एतेन संज्ञाकृतबहिरङ्गत्वस्य परम्परया प्रत्ययनिमित्तकबहिरङ्गत्वस्य च ग्रहणं परिभाषायां सूचितम्। अत्र देवानां प्रियः कश्चित्। अत्र सम्प्रसारणपदेन संप्रसारणस्थानी लक्ष्यते। एवं च संप्रसारणस्यासिद्धत्वादित्यस्य संप्रसारणस्थानिकपूर्वरूपस्य सिद्धत्वादित्यर्थः। तथा च नवीनमते न संज्ञाकृतबहिरङ्गत्वस्य नवा परम्परया प्रत्ययनिमित्तकबहिरङ्गत्वस्य प्राप्तिरित्याह।तत्तु विप्रतिषेधसूत्रस्थयदयं 'वाह ऊठ्' इति ऊठं शास्तीति परिभाषा ज्ञापकपरभाष्यस्थज्ञापकोपपादककैयटग्रन्थीयगुणे कृते वृद्धौ कृतायामिति ग्रन्थ व्यापारसत्यां च परिभाषायां विभक्तिनिमित्तकसंप्रसारणस्य असिद्धत्वाद्गुणाभावे रूपासिद्धौ ऊठ्ग्रहणमिति विवरणग्रन्थेन लघुभाण्डस्थितलघुमर्कटबद्धमुष्टिस्थचणकतुल्यत्वं प्रापितमिति। न च मत्कृतयत्नमपेक्षते। एवं च तन्मताज्ञानपूर्विका युक्तिरिति बोध्यम्। न च 'वाह ऊठ्'सूत्रस्थभाष्यस्थसंप्रसारणपदे लक्षणेति पदाशय इति चेत्तर्हि प्रापितस्त्वदीयनवीनग्रन्थाभिनिवेशस्त्वयैव दत्तजलाञ्जलित्वम्। किञ्च नवीनप्राचीनोभयमार्गभ्रष्टस्य तवजनैरसंभाष्यतैवायातीति कथं न पर्यालोचयेः। [25]न प्राचीननवीनैः संप्रसारणपदस्य भाष्यस्थस्य तादृशोऽर्थः कृतः। ननु भाष्यस्थ संप्रसारणपदेऽवश्यं लक्षणाभ्युपेया विभक्तिनिमित्तक संप्रसारणस्यासिद्धत्वादिति विवणस्य त्वयमर्थः। विभक्तिनिमित्तकसंप्रसारणस्थानिकस्येति एवं च न विरोधः। अन्यथापूर्वं संप्रसारणे पश्चात्पूर्वरूपेण संप्रसारणस्यापहारे संप्रसारणाभावेनान्तरङ्गगुणदृष्ट्या संप्रसारणस्यासिद्धत्वं वक्तुम् अशक्यं स्यात्। पूर्वस्य परस्य वा कार्याभावेन संप्रसारणत्वस्य अल्वृत्तित्वेन अल्मात्रवृत्तित्वेन परिभाषाप्रवृत्तिरूपां शास्त्रीयकार्येऽतिदेशप्रवृत्तिभावेन[26] च 'अचः परिस्मिन्', 'स्थानिवदादेश' 'अन्तादिवच्चे'त्यन्यतमसूत्रेणातिदिष्टे संप्रसारणत्वे इष्टसिद्धिरिति तु नाशङ्क्यमिति चेन्न। 'वाह ऊठ्' इत्यस्याङ्गाधिकारस्थत्वेन तदन्तविधौ वाहान्तं यदङ्गं तस्य सम्प्रसारणमित्यर्थेऽङ्गावयवयणद्वयस्यापि युग‌पत्संप्रसारणे प्राप्तौ 'न सम्प्रसारण' इति निषेधज्ञापकेन परस्य यण: पूर्व्वं संप्रासारणे तदानीं पूर्व्वरूपे नित्यत्वात्कर्तव्ये द्वितीयसंप्रसारणस्याप्राप्तौ निषेधस्याप्यप्राप्त्या पूर्व्वरूपे 'अचः परस्मिन्नि'तिस्थानिवत्वे परत्वात्प्राप्तगुणप्रवृत्तिप्रतिबन्धे पश्चात्प्राप्तद्वितीयसंप्रसारणस्य 'न संप्रसारणमि'ति निषेधे कर्त्तव्ये'अचः परस्मिन्नि'त्यादिनाऽतिदिष्टसंप्रसारणत्वमादाय तस्यापि निषेधे पश्चात्परिभाषया असिद्धत्वे बोधनीये वाक्यसंज्ञापक्षे संप्रसारणाच्चेत्यस्यारोपितसंप्रसारणादित्यर्थस्यावश्यकतया संप्रसारणत्वस्य वाक्यवर्णोभयवृत्तित्वेनाल्मात्रवृत्तित्वाभावेनान्तादिवत्सूत्रस्य पिबन्ती त्यत्रान्तरङ्गत्वाच्छबकारात्पकारयोरेकादेशे पूर्व्वान्तत्वेनातिदिष्टशित्वामादाय पिबादेश प्रवृत्तिकरणवत्प्रकृतेप्यतिदेशकरणेनादोषात्। पश्चाद् द्वितीयसंप्रसारणे तस्य निषेधे सिद्धमिष्टहूत[27] इत्यत्रासंप्ररणत्वाद्दीर्घो न स्यादित्याशङ्क्य दीर्घविधिसामर्थ्याद् अन्तवत्वाद्वे[28]ति भाष्यव्याख्यानपरहल इति सामर्थ्याद्वर्णवृत्तिधर्मस्याप्यतिदेश इति विवरणन्तु वर्णसंज्ञापक्षमाश्रित्य प्रवृत्तमिति नास्माकं प्रतिकूलतामावहति। किञ्च भाष्येऽपि मदुक्तरीत्यैव व्याख्योचिता। अन्यथा पक्षयोर्भेदो न स्यादिति दिक्। निषेधसूत्रस्य व्यध विव्याध्यादौ व्यवहिते चारितार्थ्यात्। यु+उ+अन्+अस् इत्यत्रान्तरङ्गपरिभाषाया अनित्यत्वेन दीर्घाप्रवृत्तौ पूर्व्वरूपे पश्चादेकादेशे पूर्वस्य यण: संप्रसारणनिषेधे कर्त्तव्ये सवर्णदीर्घस्य 'अचः परस्मिन्नि'ति स्थानिवत्वेन संप्रसारणत्वेऽपि पुनः पूर्व्वोक्तातिदेशेनैव उकारव्यवधानेऽपि निषेधो न स्यादित्याशङ्क्य 'व्यथ' इति सूत्रे यग्रहणेनैव सिद्धे 'ष्यङ: संप्रसारणमि'ति सूत्रात्संप्रसारणपदेऽनुवर्तमाने पुन: संप्रसारणपदस्य व्यवहितव्यथ इत्यादिसूत्रविहितसंप्रसारणनिषेधफलकस्य वैयर्थ्यात् व्यवहितेऽपि निषेधः सिद्ध इति न यून इत्यादावनुपपत्तिरित्यर्थस्यान्यत्र स्पष्टतया प्रकृते वकारोत्तराकाराव्यवधाने निषेधस्याप्राप्त्या कथं निषेधसंचार इति तु न वाच्यम्। न च निर्द्दिश्यमानपरिभाषया वाह एव स्थानिवत्त्वेन पूर्व्वयण: संप्रसारणस्य प्राप्तेरेवाभावादेतावान् पूर्वोक्तः सर्वोऽपि प्रबन्धः निष्फल एवेति वाच्यम्। सूत्रे षष्ठ्यन्ततयोच्चार्यमाणं सजातीयस्थानिनिरूपितसम्बन्धेन युज्यते इत्यर्थकनिर्द्दिश्यमानपरिभाषाया अत्रानवतारात्। यत्सूत्रे साक्षात् षष्ठ्यन्ततयोच्चार्यमाणं वाह इति न तस्य स्थानित्वम्। यस्य चार्थिकं स्थानित्वं वकारस्य नासौ सूत्रे षष्ठ्यन्ततया निर्दिष्टः। अत एव वाहो वा शब्दस्य संप्रसारणमूठ् स्यादिति प्राचीनोक्तमर्थमनूद्य नासौ सूत्रार्थः। किन्तु यथा कथञ्चित्फलितार्थकथनपरतया योज्यम् इति मनोरमोक्तं संगच्छते। न च कार्यकालपक्षे 'वाह ऊठि'त्यादिसूत्रेषु संप्रसारणविधायकेषु इग्यण इत्युपस्थित्या वाहोऽवयवयण इत्याद्यर्थेऽवयवषष्ठीनिर्देशेऽपि निर्द्देश्यमानपरिभाषायाः स्वीकारेणोक्तदोषतादवस्थ्यम्। किञ्च संप्रसारणनिमित्तस्योपस्थितस्य यण्विशेषणत्वेन येन नाव्येतीति न्यायात् परस्यैव संप्रसारणप्राप्तेः 'न संप्रसारणमि'ति सूत्रमपि व्यर्थमिति वाच्यम्। एतन्मते 'ष्यङः संप्रसारणमि'त्यादिसूत्रस्थभाष्यप्रामाण्येन संज्ञासूत्राणां वाक्यैकवाक्यतायाः स्वीकार इत्यदोषात्। न च संज्ञाकृतबहिरङ्गत्वस्याप्याश्रयणे तव बहिरङ्गत्वेनाभिमतसंप्रसारणापेक्षयाऽनेकसंज्ञासापेक्षत्वस्य गुणसत्वेन ज्ञापकत्वोच्छेदापत्तिरिति वाच्यम्। संज्ञाकृतबहिरङ्गत्वानाश्रयणवादिनापि परम्परया बहिर्भूतप्रत्ययनिमित्तत्वेन तत्त्वाश्रयणवत् मयापि तत्त्वस्य वक्तुं शक्यत्वेन बहिर्भूतप्रत्ययनिमित्तकसंज्ञासापेक्षत्वस्य वक्तुं शक्यत्वेन च ज्ञापकस्य सुस्थत्वादित्येक इति दिक्। एवञ्च 'नाजानन्तर्य्ये' इत्यनेन परिभाषाश्रयणं सूचितमिति बोध्यम्। अन्यथा तदसत्वेनैव समादधीत्। किन्तु वचनमेवारब्धव्यमिति। तच्च विसर्ज्जनीयोत्तरपदे इति वक्तव्यमित्या कारकम् उत्तरपदनिमित्तकरेफस्य न विसर्ज्जनीय इति तदर्थः। सर्प्पिष्पाशादौ तु पाशादेरुत्तरपदत्वाभावादेव न दोषः। दास्याः पुत्र इत्यलुक्समासे तु पुत्रस्योत्तरपदत्वेऽपि न रेफस्तन्निमित्तकः किन्तु पदान्तनिमित्तकः। नार्कुटादौ तु रेफोत्तरपदनिमित्तक ऋकारस्य तद्धितनिमित्तकवृद्धौ आद्यत्वस्यापेक्षणात्। तच्च कुटोऽवयवोऽकारापेक्षयैव वाच्यम्। ततश्चोत्तरपदनिमित्तकत्वं नार्कुटादौ रेफस्य स्पष्टमेवेति बोध्यम्। येऽपीति। कैयटादयः। विसर्ज्जनीयसूत्रशेषे कैयटेन यदा तु लक्ष्यदर्शनवशाद्बहिरङ्गपरिभाषाश्रीयते। तदा रामस्तिष्ठतीत्यादौ रूत्वविसर्गसत्वानां चक्रके इष्टतो व्यवस्था तदा युक्त एव परिहारो, न वा बहिरङ्गलक्षणत्वादित्युक्तम्। लक्षणैकचक्षुर्भिरिति। ननु भाष्यकारस्य लक्ष्यैकचक्षुष्कत्वेन तन्मते तदादरो युक्त इति चेन्।न असूया कर्तव्येति भाष्येण[29] लक्ष्यानुरोधस्य सर्व्वत्राप्रयोजकत्वबोधनादित्याशयात्। अत्र तु भगवता वार्तिककारेणानुगमस्य कृतत्वात्। अन्यथा सर्व्वशास्त्रस्यैवोन्मज्जनप्रसङ्गः, कृतेऽपि 'न वे'ति सूत्रे 'हृक्रोरन्यतरस्यामि'त्यन्यतरस्यां पदे गत्यन्तराभावेन क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन प्रवृत्तेर्वाक्यभेदस्य चावश्यकतया लक्ष्यानुरोधादेव सर्व्वत्रेष्टसिद्धौ सूत्रमास्त्वित्याशयात्। न तत्सूत्रस्थलक्ष्यानुरोधदिशापि वार्तिकमकर्तव्यतापदवीं प्राप्नोतीति दिक्। ननु एहीत्येतत्तिङन्तपदघटक-एहीत्युभयोः परस्परसमभिव्याहृतयोः प्रत्येकमनुकरणे पश्चाच्छिवशब्दसम्बन्धे पश्चादनुकार्य्येण देवेत्यस्य संबन्धे अनुकार्ये पूर्व्वान्तवद्भावेनाङत्वात् पररूपप्राप्तौ संहिताया अविवक्षया संध्यभावेन पश्चात्तत्र विद्यमानाङत्वस्य प्रकृतिवदित्यतिदेशे[30] वृद्धिबाधनार्थं तस्यावश्यकत्वेन कथं भाष्योक्तं ज्ञापकमत आह एहीत्यनुकरणस्येति।एहीत्येवं यत्प्रत्येकमनुकरणं तस्येत्यर्थः। एहीत्यस्यानुकरणे फलं तु तिङन्तावयवस्य ए इत्यस्येदमनुकरणमिति बोधकत्वमेवेति बोध्यम्। एवञ्च वस्तुतस्तु आङत्वस्य तत्रैकदेशनिष्ठत्वेऽपि समुदायस्यानिष्ठत्वेऽपि प्रकृत्यधर्म्मत्वात्पररूपस्याङमात्रकार्य्यत्वाच्चात्रातिदेशस्यैवासम्भव इति भाष्यं सम्यगेव। एवञ्चेदं प्राचामनुरोधेनेति बोध्यमिति ग्रन्थदूषणन्तु न चमत्काराधायकमिति बोध्यम्। अनुकार्य्ये फलाभावेनाङत्त्वस्य तत्रातिदेष्टुमशक्यत्वेनायमसङ्गतो ग्रन्थ इत्यपि कैश्चिदुक्तं न सम्यक्। ननु सम्बन्ध्यर्थमतिदिष्टस्याङ्त्वस्य संहिताया अविवक्षया सन्धेर्निवृत्तौ तत्र सत्त्वे मानाभाव इति चेन्न। ऋलृक्सूत्रस्थभाष्यविरोधात्। तत्र हि प्रकृतिवदित्यतिदेशस्य द्विः पचन्त्वित्याह। अग्नी इत्याहेत्युदाहरणमुक्तम्। तत्र भवदुक्तरीत्याऽनुकार्य्ये पचन्त्वित्यादावतिदेशेन तिङन्तत्वे पदत्वे च तिङन्तत्वस्य निवृत्तौ पूर्वोक्तातिदेशेन कथमनुकरणेऽतिदेष्टुं शक्येतेति तद्विरोधः स्पष्ट एवेति। ननु अनुकरणे परम्परयातिदेश इति भाष्यातात्पर्य्यमिति चेत्समं प्रकृतेऽपीति दिक्। अन्तरङ्गत्वाद्बहुब्रीहिरिति। इदमपि भाष्यमर्थकृतबहिरङ्गत्वाश्रयणेमानमित्युक्तम्। ननु [31]सिद्धान्तिना प्रकृतेऽर्थकृतान्तरङ्गबहिरङ्गभावस्यानाश्रयणात्पूर्व्वोक्तेः। किञ्चाधिकापेक्षेत्यादिनान्तरङ्ग-बहिरङ्गभावयोजन‌मयुक्तमित्यशङ्क्य समाधत्ते - न चार्थ कृतेत्यादिना। न चेत्यस्याग्रे सिद्धान्तिनेतिशेषः। इद‌मिति। पूर्व्वोक्तान्तरङ्गबहिरङ्गभाव योजनमित्यर्थः। एकदेश्युक्तित्वेनेति। एकदेश्युक्त्यभिप्रायकत्वेनेत्यर्थः॥५॰॥

[1]अवश्यं वाच्यतया इति के,खे,गे

[2]प्रक्रमे इति खे

[3]भाष्येण इति के,खे

[4]भाष्यस्य इति खे, गे

[5]एव इति खे नास्ति

[6]न इति के,खे अधिकः

[7]ननु शब्दरूपनिमित्तग्रहणे मूलोक्तशब्दशास्त्रेत्यादियुक्तिसत्वेऽपि अर्थनिमित्तकबहिरङ्गत्वाश्रयणे वर्णो वर्णेनेत्यादिभाष्यवत् प्रायः शब्दवत् रूपनिमित्ताश्रयणे भाष्यादिकिञ्चिदपि न मानमित्याशङ्क्याह। इति घपुस्तके पाठः।

[8]आश्रयणे इति खे

[9]सार्थक्ये इति के

[10]एयाद्यादेशे इति के

[11] इत्यर्थ कैयट इति गे

[12]तदंगाग्रहणाद्वा इति के।तदंताग्रहणाद्वा इति खे

[13]समाससंज्ञासापेक्ष इति के,खे,गे

[14]अत्रैव के,खे,गे

[15]संज्ञाकृतं तत्त्वम् इति के,गे

[16]बहिरङ्गकल्पना इति के,खे

[17]निमित्तमादाय इति खे

[18]संज्ञाकृत इति के

[19]गुणस्य इति के,खे,गे

[20]युक्त्या इति के,खे

[21]व्याख्यानेनैव इति खे,गे

[22]चेत्यप्याशयः इति गे

[23]सूत्रस्थ इति गे

[24]प्रकृतेति इति खे,गे

[25]नहि इति के

[26]प्रवृत्यभावेन इति के

[27]पश्चाद् द्वितीयसंप्रसारणे तस्य निषेधे सिद्धमिष्टहृत इति घपुस्तके अधिकः पाठः। के,गे च पुस्तके नास्ति।

[28]अन्तरङ्गत्वाद्वेति इति छपुस्तके पाठः।

[29]भाष्ये इति गे

[30]नातिदेशे इति के,गे,चे अधिकः पाठः।

[31]सिद्धान्तेन इति के