विधिनियमसम्भवे विधिरेव ज्यायान्
विधिनियमसम्भवे विधिरेव ज्यायान्।१०९।
नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात्परिकल्पनमुक्तानुवाददोषश्चेति लाघवाद्विधिरेवैति बोध्यम्। 'यस्य हलः' इत्यत्र 'इजादेः सनुमः' इत्यादौ च भाष्ये स्पष्टेयम्॥१०९॥
कामाख्या
विधिनियमेति। विधिरत्यन्तमप्राप्तौ नियमः पाक्षिको सति। तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते॥ इति जैमिनिः। तत्र विधौ सोमेन यजेदिति अत्र यागस्य केनाप्यप्राप्तेर्विधिः। व्रीहीन् वहन्तीति अत्र तण्डुलनिष्पादकस्यावघातस्य लोकसिद्धत्वाच्छास्त्रेणावघातो विधातुमयोग्योऽपि विधीयते। तत्र नियमः अवघातसिद्धतण्डुलेनैव यागोऽपूर्वसाधकः न नखादिसिद्धेनेति पाक्षिकसिद्धावघातबोधकत्वान्नियमत्वम्। पञ्च पञ्च नखा भक्ष्या इति परिसंख्या। रागतो भक्षणं यथा पञ्च पञ्च नखानां प्राप्तं तथा श्वादिमांसानामपि। तेषामभक्ष्यत्वबोधनाय लोकतः सिद्धमपिपञ्च नखभक्षणमनेन विधीयत इति। तत्र स्वोपात्ते पञ्च नखादौ अन्यत्र श्वादौ च प्राप्तभक्षणविधायकत्वात् परिसंख्यात्वम्। शास्त्रे तु नियमपदेन परिसंख्यैवोच्यते। यथा समासस्य विधीयमानप्रातिपदिकसंज्ञायाः समासेऽन्यत्र च प्राप्तत्वात् परिसंख्यात्वम्। तत्रार्थवत्सूत्रेण प्राप्तैव संज्ञा समासातिरिक्तपूर्वभागपदघटिते तद्व्यावृत्त्यर्थमनूद्यते इति अश्रुताऽन्यनिवृत्तिः प्राप्तस्यानुवादः स्पष्टः। इदञ्च विधिमुखेन प्रवृत्तौ बोध्यम्। निषेधमुखेन प्रवृत्तौ तु समासपदस्य समासातिरिक्ते पूर्वभागपदघटिते भवतीत्यस्य न भवतीत्यर्थे च लक्षणयाऽर्थस्तदा लक्षणैव गौरवमिति विधिसंभवे नियमो न युक्त इति तत्त्वम्॥१०९॥
नास्ति।