Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः


ननु 'पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्र' इत्यादौ 'द्विगोर्लुक्' इत्यणो 'लुकि लुक्‍तद्धित' इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिरत आह -

सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः।८७।

अत्र च 'बिल्वकादिभ्यश्छस्य लुक्' इति सूत्रस्थं छग्रहणं ज्ञापकम्।तद्धि छमात्रस्य लुग्बोधनद्वारा कुकोऽनिवृत्तिर्यथा स्यादित्येतदर्थम्। कृतकुगागमा नडाद्यन्तर्गतबिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन। न चैवमपि छग्रहणं व्यर्थम्, कृतकुगागमानुवादसामर्थ्यादेव तदनिवृत्तिसिद्धेः। अन्यथा 'बिल्वादिभ्य' इत्येव वदेत्, 'लक्षणप्रतिपदोक्त'परिभाषया बिल्वादिपुरस्कारेण विहितप्रत्ययस्यैव लुग्विधानान्नातिप्रसङ्ग इति वाच्यम्, ततोऽपि प्रतिपदोक्तत्वेन 'बिल्वादिभ्योऽण' इति विकाराद्यर्थस्य लुगापत्तिवारणार्थं कुगनुवादचारितार्थ्यात्। समुच्चयार्थकचशब्दयोगे तु विधेययोरेककालिकत्वकदेशत्वनियमान्न्यायसिद्धापीयम्। यत्तु 'णाविष्ठवदि'त्यनेन पुंवत्त्वविधानमेतदनित्यत्वज्ञापनार्थम्, अन्यथा 'एतयती'त्यादौ टिलोपेनैव ङीपि निवृत्ते सन्नियोगशिष्टपरिभाषया नस्यापि निवृत्त्या 'एतयती'त्यादिसिद्धौ पुंवत्त्ववैयर्थ्यं स्पष्टमेवेति 'टेरि'ति सूत्रे कैयटः, तन्न। 'इडबिडमाचष्ट, ऐडबिडयती'त्यादौ पुंवत्त्वस्य आवश्यकत्वात्। 'ऐनेयः, श्यैनेय' इत्यादि तु स्थानिवत्त्वेन सिद्धमित्यन्यत्र विस्तरः॥८७॥

 


कामाख्या

सन्नियोगशिष्टानामिति। सन्नियोगशिष्टौ च सन्नियोगशिष्टौ च सन्नियोगशिष्टौ च सन्नियोगशिष्टास्तेषाम्। साहित्यावच्छिन्नविधेयताश्रयाणामित्यर्थः। एवमन्यतरश्चान्यतरश्चान्यतरश्चान्यतरे, तेषामपाय इति प्रत्येकं सम्बन्धः अन्यतरापाय इत्यत्र संभावित इति शेषः। शास्त्रतोऽन्यतरनिवृत्तिसंभावनायामित्यर्थः उभयोरप्यपाय। उभयोरप्यनुत्पत्तिरित्यर्थः तेन पञ्चेन्द्रः पञ्चभिरेनीभिः क्रीतः पञ्चैत इत्यत्राकारश्रवणं भवति। अन्यथानकारानुकोरनेनन्यायेन निवृत्तावपि देवदत्तहन्तृहतन्यायेन तच्छ्रवणं न स्यात्। एतेनान्यतरापाये जाते उभयोरभावेनोभयोरप्यपाय इत्यसंगतमित्यपास्तम्। केचित्तु अन्यतरापाये जाते उभोरप्यपाय इत्यस्य आदेशे तत्कृतस्थानिनिवृत्त्योभयोरप्यपाय इत्यर्थः। तेन पञ्चैत इत्यादौ नकारानुकोस्तत्कृतस्थानिनिवृत्त्या स्थानिस्थित्याऽकारश्रवणमित्याहुः। तद्धीति। छग्रहणं हीत्यर्थः। छमात्रस्येति। प्रत्ययेतरदर्शनाभावस्य लुक्पदशक्यत्वाभावात्। छप्रत्ययेतरप्रत्ययस्य विल्वकशब्दमुच्चार्यविहितत्वरूपप्रतिपदोक्तत्वाभावात् छग्रहणाभावेऽपि विल्वकशब्दमुच्चार्य विहितस्य प्रत्ययस्य लुगित्यर्थेन छस्यैव लुक्सिद्धौ क्रियमाणं छग्रहणं छस्यैवेत्यवधारणार्थम्। तेन कुको न निवृत्तिः। परिभाषाया अभावे च कुको निवृत्त्यभावोऽपि कारणाभावात् सिद्ध एवेति व्यर्थं सन्निवर्तकं परिभाषारूपं कल्पयित्वा प्राप्तनिवृत्तेरभावाय छस्यैवेत्यवधारणार्थं चरितार्थमिति बोध्यम्। ननु छग्रहणाभावे विल्वशब्दात् स्वार्थे के ततोऽदूरभवश्चेत्यणान्ताद् गहादित्वाच्छे कृतेऽणोऽपि लुक् स्यादत आह कृतकुगागमाइति। ज्ञापितेऽपि चारितार्थ्याभावं शङ्कते चैवमपीति। ननु 'विल्वादिभ्यो लुगि'ति करणेऽन्यस्यापि विल्वादिशब्दप्रकृतिकप्रत्ययस्य लुक् स्यादित्यत आह लक्षणेतिकुगनुवादचारितार्थ्यादिति। न च विल्वादिभ्यश्छस्य लुग्गित्येव वक्तव्ये विल्वकादिभ्यो लुगिति करणात् कुको निवृत्तिर्न्न भवतीति वाच्यम्। तृणवेतसशब्दयोर्नडादौ, उत्करादौ, गहादौ च पाठेन विल्वादिभ्यश्छस्य लुगित्युच्यमाने शास्त्रत्रयविहितस्यापि लुगापत्तेः। समुच्चयार्थकेति। समुच्चयः = साहित्यम्। तच्च विधेययोः समानकालिकत्वसमानदेशत्वरूपम्। तद्विशिष्टस्यैव साधुत्वेनैकस्यापायेऽपरस्य स्थितौ समानकालत्वाभावेनासाधुत्वापत्त्याऽपरोऽपि गच्छतीति फलितमिति भावः। कैयटोक्तमनूद्य दूषयति यत्विति। इडविडोऽपत्यमित्यर्थे जनपदशब्दादित्यञि 'अतश्चे'ति स्त्रियां लुक्, तत आचष्टे णिचि, इष्ठवद्भावेन पुंवद्भावेऽञ आगमने आद्यचो वृद्धिसिद्धिः। आदिना दारदमाचष्टे दारदयतीति। ननु अनित्यत्वाभावे कथमैनेय इत्यादिसिद्धिरत आह ऐनेयइति । अन्यत्र विस्तर इति 'अचः परस्मिन्निति' सूत्रे पूर्वविधिशब्दे तन्त्रेण एकत्र भावसाधनविधिशब्दाश्रयणेन च पूर्वस्यविधानं प्रति स्थितौकर्तव्यायां स्थानिवदित्यर्थाश्रयणे न सिद्धमिति शब्देन्दुशेखरे उक्तम्। वस्तुतस्तु तन्त्रस्य नोपयोगः। एतत्परिभाषयाऽपायस्य कर्तव्यत्वेन तत्प्रतिबन्धार्थं स्थानिवत्वप्रवृत्तेः सूपपादत्वादिति दिक्॥८७॥


परिभाषार्थमञ्जरी

पञ्चेन्द्राण्य इति। ननु किं नाम सन्नियोगशिष्टत्वम्ॽ न तावदनेकस्यैकविधिविधेयत्वम्। 'पुंयोगादाख्यायामि'त्यनेन ङीषि सिद्धे आनुङ्मात्रस्य इन्द्रादिभ्यः षड्भ्यो विधानेन तत्त्वाभावात् प्रकृतोदाहरणेऽप्राप्तेः। इन्द्राणीशब्दघटकेकारादिष्वतिव्याप्तेः न स्ववाचकवर्णसमुदायघटकत्वसम्बन्धेन पुंयोगाद्यर्थबोधकत्वं तत्। न च पुंयोगाद्यर्थे शास्त्रतात्पर्यविषयीभूतसाधुत्वबोधक वाक्यकल्पकत्वं तत्त्वमिति वाच्यम्। वाक्यं चेन्द्राणीशब्दे ङीषनुकौ साधू इत्याकारकं, विधेययोः पृथक् सूत्राभ्यां विधेयतया तादृशवाक्यस्यैवाभावात्। किंतु सूत्रद्वये पृथक् वाक्यकल्पनैव सा च पुंयोगाद्धेतोः प्रवृत्तिनिमित्तारोपेण स्त्रियां वर्तमानात्प्रातिपदिकान्ङीष् साधुः। इन्द्रशब्दादानुक् च साधुरित्याकारिका। न च केवलमिन्द्रेत्यस्य केवलमिन्द्रानित्यस्य वा साधुत्वे लोके तावन्मात्रस्य प्रयोगः स्यादिति वाच्यम्। ब्राह्मणीत्यादिवदिन्द्राणीत्यादेरपि सिद्धाविन्द्रेत्यादिप्रयोगव्यावर्तक'इन्द्रवरुणे'ति सूत्रवैयर्थ्यापत्त्या तादृशप्रयोगस्य लोके कल्पयितुमशक्यत्वात्। 'ऋन्नेभ्य' इति ङीपि इन्द्राणीत्यस्यैव प्राप्तेः इन्द्राणीत्यस्यैव सिद्धिः सूत्रफलमित्यपि वक्तुं[1] शक्यम्। किञ्च न साधुत्वमात्रं लौकिकप्रयोग हेतुः, किन्तु अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वरुपं परिनिष्ठितत्त्वमपि। अत एव 'शब्ददर्दुरं करोती'त्यादौ कल्प्य साधुत्वबोधकवाक्येन शब्द इत्यादिभ्यः ठगादीनां साधुत्वबोधनेऽपि तावन्मात्रस्य न प्रयोगः। अपि च पूर्व्वोक्तलक्षणे अर्थान्तरभावेन 'औत्वनिषेधः साकच्कस्य वा वक्तव्यः सादुत्वमि'ति वार्त्तिकबोधितप्रतिषेधोत्वयोः सन्नियोगशिष्टत्वानापत्त्याव्याप्तेश्च। उभाभ्यामेककालावच्छेदेन लक्ष्यभेदे गुणवृद्धि[2] प्रवर्तनात्तत्रातिव्याप्तेरर्थान्तर्भावमानिवेश्य एककालावच्छेदेन तत्कल्पकत्वं तत्त्वमिति तु दत्तजलाञ्जलिः। न च शास्त्रतात्पर्यविषयीभूतसाधुत्वबोधकवाक्यजन्यप्रतीतिविशेष्ययोरेकक्रियान्वयित्वं तत्त्वमिति वाच्यम्। तृतीयलक्षणदूषणग्रहेणैव निरस्तत्त्वात्। किञ्च तत्रापि एकक्रियान्वयित्वमि[3]त्यस्य समानानुपूर्वीकतिङन्तवाच्यक्रियान्वयित्वमित्यर्थः उतैकतिङन्तवाच्यक्रियान्वयित्वं वा। नाद्यः। गुणवृद्ध्यादावतिव्याप्तेः। नापि द्वितीयः। दोषस्य स्पष्टतया प्रकाशमानत्वात्। ननु लक्ष्यानुसाराद्विहितस्यापि ङीषः पुनर्विधानं स्वीक्रियत इति चेन्न। विहितस्य पुनर्विधाने नियमापत्तेः। पुंयोगादित्यतिरिक्तयोगविभागवैयर्थ्यापातात्। न च पूर्वोक्तविभक्तसूत्रवैयर्थ्यान्न नियम इति वाच्यम्। आनुकमात्रम् इन्द्रादिभ्यः षड्भ्यो विधीयत इति स्वपरग्रन्थविरोधात्। 'ऋन्नेभ्य' इत्यनेन  ङीपि सिद्धे 'वनो र चे'त्यनेन रादेशमात्रविधानात् अव्याप्तेः पूर्वसूत्रेणेन्द्रादिभ्यो ङीषि सिद्धेऽपि हिमादिभ्यो ङीषविधानार्थं तदनुवृत्तेरावश्यकतया प्रथमलक्षणमव्याहतमिति शङ्कापि निरस्ता। तल्लक्ष्यं तु पञ्चभिः धीवरीभिः क्रीतेत्यर्थे आर्हीयष्ठक् तस्य 'अध्यर्धपूर्वे'ति लुकीति  पञ्चधीवेति बोध्यम्। एवञ्च सन्नियोगशिष्टत्वं वैयाकरणानां दुर्वचमेवेति प्राप्ते साधारणानुसरणिमनुसृत्य ब्रूमः। इन्द्रादिभ्यो ङीष् सिद्धेर्व्विना वाक्यर्थाबोधमव्यक्तव्यत्वेन[4] अप्रामाण्यज्ञानानास्कन्दितशाब्दबोधस्यैव कार्यजनकतया सर्वांशे लक्ष्यासंस्कारकसूत्रोपात्तेभ्यः इन्द्रादिभ्यो ङीषानुकौ स्त इति महावाक्यर्थबोधस्य प्रत्येकोद्देश्यकङीषानुक्विधेयकावान्तरवाक्यार्थबोधस्य [5]वावश्यं वक्तव्यतया तद्बोधोत्तरमिन्द्रादिभ्यो ङीषः सिद्धत्वज्ञानेन तदंशे तस्य विधेयत्वाभावनिश्चायकावान्तरलक्ष्यसंस्कारकेन्द्रादिभ्य आनुगिति वाक्यार्थबोधेऽन्येभ्यस्तूभयमित्यवान्तरलक्ष्यसंस्कारकद्वितीयवाक्यार्थबोधे च जायमाने लक्ष्यसंस्कारकानुङ्मात्रविधायके अनेकस्यैकविधिविधेयत्वविषयत्वा[6]भावनिश्चयेऽपि लक्ष्यसंस्कारकपूर्व्वकालिकवाक्यार्थबोधीयतत्त्वमादाय परिभाषाप्रवृत्तेर्निर्बाधत्वात्। दृष्टा चेयं रीति'र्ञमङणनमि'ति सूत्रे भाष्ये, हलन्त्यसूत्रे शेखरादौ च। तत्राद्ये मकारानुबन्धाभावे 'ङमो ह्रस्वादचि ङमुण् न्नित्यमि'ति न्यासमभ्युपगम्य झकारभकारयो ञुट्ल्युटौ पदान्ते तयोरभावेन दूरीकृत्येवमपि पञ्च आगमास्त्रय आगमिन इति वैषम्यात् संख्यातानुदेशाभावशङ्कायां सर्वांशे लक्ष्यासंस्कारकमहावाक्यार्थबोधोऽयं संख्यासाम्यमादाय सूत्रप्रवृत्तिरित्यर्थकं सन्तु तावत् येषामागमानामागमिनःसन्ति। झकारभकारौ पदान्तौ न स्त इति कृत्वा तावपि न भविष्यत इत्युक्तम्। स्पष्टश्चायमर्थो लक्ष्यसंस्कारकालिकं संख्या साम्यं यथासंख्यं प्रवृत्तौ निमित्तमिति मन्येत पूर्वपक्षी। सिद्धान्ती तु प्रतिपत्तिकालिकमेव संख्यासाम्यं तत्प्रवृत्तौ निमित्तमित्याह सन्त्वितीत्यादिना विवरणे एवं तत्सूत्रे शेखरादौ च। द्वितीयेऽपि उत्सर्गशास्त्रीयलक्ष्यसंस्कारकवाक्यार्थबोधात्पूर्वमपवादा लक्ष्यासंस्कारका बुद्ध्या रूढा भवन्ति। लक्ष्यसंस्कारकवाक्यार्थबोधादनन्तरं लक्ष्यसंस्कारकोत्सर्गशास्त्रप्रवृत्तिरित्यर्थकं 'पूर्वं ह्यपवादा अभी'ति परिभाषाया विषयदर्शनं कृतमित्यलं पल्लवितेनेति दिक्। एवमन्यत्रापि ऊह्यम्। इडबिडेति। इडबिडोऽपत्यं जनपदेत्यञि स अतश्चेति स्त्रियां लुक्। परिभाषानित्यत्वफलं बिल्वकादिसूत्रोक्तं कैयटीयमन्यथा साधयति ऐनेय इत्यादिनास्थानिवत्वेनेति। 'अचः परे'त्यस्य तंत्रादिना पूर्वस्य स्थितौ कर्तव्यायां स्थानिवदिति द्वितीयार्थस्यापि 'न पदान्त' सूत्रीयलुका लुप्तं न स्थानिवदित्यस्य पञ्चेन्द्र इत्युदाहरणपरभाष्येण बोधनादिति भावः। अन्यथा स्थानिवद्भावाप्राप्तेस्तदुदाहरणासंगतेः। स्पष्टश्चायमर्थः स्थानिवत्सूत्रशेखरविवरणादावित्युक्तम्[7]॥८७॥

[1]वक्तुमशक्यम् इति गे

[2]गुणभेदप्रवर्तनात् इति गे

[3]अन्वयित्वं तत्त्वमिति गे

[4]अव्यक्तत्वेन इति गे

[5]चावश्यम् इति गे

[6]विषयत्व इति गे नास्ति

[7]इत्यलम् इति गे