उणादयोऽव्युत्पन्नानि प्रातिपदिकानि
ननु 'अतः कृकमी'त्यत्र कमि ग्रहणेन सिद्धे, कंसग्रहणं व्यर्थम्, अत आह -
उणादयोऽव्युत्पन्नानि प्रातिपदिकानि।२२।
इदमेवास्या ज्ञापकमिति कैयटादयः। कंसेस्तु न, कंसोऽनभिधानात्। 'प्रत्ययस्य लुगि'त्यादौ भाष्ये स्पष्टा। 'ण्वुल्तृचौ' इत्यादौ भाष्ये व्युत्पन्नानीत्यपि। इदं शाकटायनरीत्या। पाणिनेस्त्वव्युत्पत्तिपक्षे एवेति शब्देन्दुशेखरे निरूपितम्। 'आयनेयी'ति सूत्रे भाष्ये स्फुटमेतत्॥२२॥
कामाख्या
गोहितमित्यत्र गोशब्दस्योणादिनिष्पन्नतया उणादिविषये विशेषं वक्तुमवतारयति नन्वत इति। कमिग्रहणेन सिद्ध इति धातुग्रहणे तदादिविधिना कंसादावुत्तरपदे इत्यर्थात्। अव्युत्पन्नानीति प्रकृतिप्रत्ययविभागज्ञानपूर्वकपाणिनिशास्त्रप्रवृत्त्यभाववन्तीत्यर्थः। उणादय इत्यस्य उणाद्यन्तानीत्यर्थः। सर्पिषा यजुषेत्यादो षत्वादिकन्तु 'उणादयो बहुलमि'ति सूत्रे बहुलग्रहणात्। ण्वुल्तृचावित्यादि। तत्र हि तृचश्चकारोऽप्तृन्निति विशेषणार्थः अन्यथा मातरावित्यादावपि प्राप्नोतीत्युक्त्वा नप्त्रादिग्रहणस्य नियमार्थत्वेन समाहितम्। यदि त्वव्युत्पन्नानीत्येव स्यात्तर्हि नप्त्रादिशब्दानामव्युत्पन्नत्वेन दीर्घाप्राप्त्या नियमार्थकत्वकथनमसंगतं स्यात्। वस्तुतो नायं भाष्यसिद्धान्त इत्याह इदमिति। भाष्ये स्फुटमेतदिति। तत्र हि शमेःखः शंख इत्यादावीनादीनाशङ्क्य प्रातिपदिकविज्ञानाच्च भगवतः पाणिनेः सिद्ध इत्युक्तम्। प्रकृतिप्रत्ययविभागशून्यप्रातिपदिकविज्ञानादिति हि तदर्थ इति संक्षेपः॥२२॥
नास्ति।