Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः

ननु 'चेता' इत्यादौ ह्रस्वस्येकारस्य प्रमाणत आन्तर्यादकारोऽपि स्यादत आह 

यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः।१३।

अनेकविधम् = स्थानार्थगुणप्रमाणकृतम्। अत्र मानम् - 'षष्ठी स्थाने' इत्यत एकदेशानुवृत्त्या स्थानेग्रहणेऽनुवर्तमाने पुनः 'स्थानेऽन्तरतमः' इति सूत्रे स्थाने ग्रहणमेव। तद्धि तृतीयया विपरिणम्य वाक्यभेदेन स्थानिनः प्रसङ्गे जायमानः सति सम्भवे स्थानत एवान्तरतम इत्यर्थकम्। तमब्ग्रहणमेवानेकविधान्तर्यसत्तागमकम्। स्थानतः = स्थानेनेत्यर्थः। तत्र स्थानत आन्तर्यम् 'इको यणची'त्यादौ प्रसिद्धमेव। अर्थतः 'पद्दन्नि'त्यादौ स्थान्यर्थाभिधानसमर्थस्यैवाऽऽदेशतेति सिद्धान्ताद् यदर्थाभिधानसमर्थो यः, स तस्यादेश इति तत्समानार्थतत्समानवर्णपदादीनां ते। 'तृज्वत्क्रोष्टु'रिति च। गुणतो 'वाग्घरिः' इत्यादौ। प्रमाणतः 'अदसोऽसे'रित्यादौ। 'स्थानेऽन्तरतमः'सूत्रे भाष्ये स्पष्टैषा॥१३॥

 

कामाख्या

ननु इकारोकारयोः स्थाने तालुस्थानादिजन्यत्वेन सादृश्यादेकारौकाराविव मात्राकालिकत्वरूप-प्रमाणक-तत्सादृश्यादकारोऽपि स्यादत आदेशनियामिकाम्परिभाषामवतरायति चेतेत्यादिवाक्यभेदेनेति। तथा हि स्थानेऽन्तरतम इति सूत्रेऽन्तरतम इत्येकं वाक्यं पूर्वं पठनीयं तत्र स्थान इत्यनुवर्तते। एवं च प्रसङ्गे सति सदृशतम आदेश इत्यर्थः। ततः स्थाने इति वाक्यं स्थान इत्यनुवृत्तिसहितान्तरतम इत्यनुवृत्त्या तृतीयया विपरिणामेन स्थानेनेत्यर्थकम्। ततश्च प्रसङ्गे सति स्थानेन = स्थानघटितधर्मेण सदृशतम इत्यर्थः। एवं च पूर्ववाक्येनैव सिद्धे व्यर्थं सत् स्थानेनैव सदृशतम इति नियमार्थन्तेनैषा सिद्धेति। आदेशवृत्त्यतिशयत्वं च स्ववृत्तित्व स्वस्थानिवृत्तित्व स्वेतरयावदादेशावृत्तित्व इति त्रितयेन स्वविशिष्टधर्मवत्वरूपः। तेन लाकृतिरित्यत्र वकारो न। तमब्ग्रहणमेवेति। समानं स्थानं यस्येत्यर्थकसस्थान इति न्यासेनैव सिद्धेऽन्तरग्रहणसामर्थ्यादन्तरतम इत्यर्थलाभसम्भवात्तमब्ग्रहणं व्यर्थं सदनेकविधान्तर्यगमकमिति भावः। यदि हि एकं स्थानकृतमेव सादृश्यं स्यात्तदाऽतिशयत्वाभावविशिष्ट-सादृश्याप्रसिद्ध्या तद्व्यावर्तकं तमप्ग्रहणं व्यर्थं स्यादतोऽतिशयानतिशयत्वभेदेन बहुविधत्वं सादृश्यस्येति सूचयति। इको यणचीत्यादाविति।एषां लक्ष्येषु सुद्ध्युपास्य इत्यादिष्विति भावः। पद्दन्नित्यादाविति। नन्वत्र स्थानिनामनुक्त्या किं प्रतियोगिकार्थ-कृतसादृश्यवानादेशः स्यादित्याशङ्क्य स्थान्याक्षेपप्रकारं दर्शयति स्थान्यर्थाभिधानेति। चरणादीनामपि समानार्थत्वादाह समानवर्णेतिपादादीनामिति। आक्षिप्तानामिति शेषः। ननु कोशे पादादिभ्यः पृथगेव पदादयः शब्दाः सन्ति। अनेन सूत्रेण तु शसादौ पादादयः पदादयश्च प्रयोक्तव्याः अन्यत्र पादादय एवेति प्रयोगनियमव्यवस्थैव क्रियते न त्वादेशा विधीयन्ते, अन्यथा निशाशब्दस्येना निशीथिनीशब्दस्य निशादेशापत्तिः। तत्रापि स्वसमानार्थकत्वे सति स्वघटकवर्णद्वयसजातीयवर्णघटितत्वरूपसमानवर्णकत्वस्य सत्वात्। स्वघटकवर्णसजातीयेतराघटितत्वरूपस्य तस्य विवक्षणे तु नासिकादीनामप्यादेशानापत्तिर्नासायाश्च तदापत्तिरिति नेदमुदाहरणमित्यरुचेराहतृज्वदिति। यदि चानेनापि प्रयोगनियमव्यवस्थैव क्रियत इत्युच्यते चेत्तर्हि 'सर्वस्य द्वे' इत्यादिसूत्रलक्ष्याणामिदमुपलक्षणं बोध्यम्। वस्तुतस्तु स्थानेऽन्तरत इतिसूत्रस्य प्राप्यमाणानाम्मध्ये स्थानिविशिष्टधर्मवानादेशो भवतीत्यर्थः। वै. स्ववृत्तित्व स्वसजातीयेतरयावत्स्थान्यवृत्तित्व स्वप्राप्तादेशद्वयावृत्तित्वैतत्त्रितयसम्बन्धेन। एवं च चेतेत्यत्र तादृशधर्मस्तालुस्थानजन्यत्वरूप एव न त्वेकमात्रिकत्वरूपः तस्य स्वसजातीयेतरयावत्स्थान्यवृत्तित्वाभावात् । लाकृतिरित्यत्रौष्ठस्थानजन्यत्वविशिष्ट-दन्तजन्यत्व एव न तु दन्तजन्यत्वरूपस्तस्य स्वप्राप्तलकारवकाररूपादेशद्वयवृत्तित्वेनोक्तत्रितयसम्बन्धेन लकाररूपस्थानिविशिष्टत्वाभावादित्यादिप्रपञ्चोऽन्यत्र विस्तरः।।१३।। 

परिभाषार्थमञ्जरी

गुणतो वाग्घरिरितीति। गुणशब्देनोक्तत्रितयातिरिक्तं धर्ममात्रं गृह्यते। तेनानान्तर्यमेव एतयोरान्तर्य्यमिति भाष्येण न विरोधः। अत्र कैयटानुयायिनः प्रसङ्गान्[1] च तत्र तत्र रपरलपरान्नादेशानुच्चार्य 'उरण् रपर' इति न कार्य्यम्। 'आप्ज्ञापृधामीत्', 'भृञामिदि'त्यादौ दोष इति शेखरमनूद्य तदशुद्धं पठित्वा कुचोद्यम्। 'भृञामिदि'ति पाठे दोषलेशाभावादित्याहुः तन्न। तस्य स्वज्ञानप्रकाशद्वारा स्वस्वरूपप्रकाशकत्वात्। तद्ग्रन्थस्याक्षरमर्य्यादया 'वृद्धिरादैच्', 'अदेङ्गुणः' इत्यादौ[2] अनेकत्र तथा पाठे नासंगत्यप्रतीतेः समाधानस्यापि तदनुसारित्वात्। अत एव परमगुरुचरणैः यत्तु कस्यचिन्मतं खण्डयतीत्यवतारितम्। 'हलादिः शेषः', 'भृञामिदि'त्यादौ दोषाभावेऽपि तत्प्रवृत्तिकल्पने माङादौ गौरवादित्यप्युक्तम्। एवञ्च मूलकृदुपरि दूषणं जन्मान्तरीयद्वेषप्रयुक्तमित्येव वयं विभावयाम इति दिक्॥१३॥

[1]प्रसङ्गानेन इति के

[2]'वृद्धिरादैच्', 'अदेङ्गुणः' इत्यादौ इति के, खे,गे नास्ति