Logo

कामाख्यापरिभाषार्थमञ्जरीसहितः श्रीमन्नागोजिभट्टविरचितः परिभाषेन्दुशेखरः

अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति


अर्थवद्ग्रहणे इत्यस्यापवादमाह -  

अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति।१६

'येन विधि'रित्यत्र भाष्ये वचनरूपेण पठितैषा। तेन 'राज्ञा' 'साम्ना' इत्यादौ अल्लोपः,'दण्डी''वाग्मी' इत्यादौ 'इन्हन्' इति नियमः, 'सुपयाः' 'सुस्रोताः' इत्यादौ 'अत्वसन्तस्य' इति दीर्घः,'सुशर्म्मा' 'सुप्रथिमा' इत्यादौ 'मनः'  इति ङीब्निषेधश्च सिद्धः। अन्ये तु 'परिवेविषीध्वम्' इत्यत्र ढत्वव्यावृत्तये क्रियमाणाद् 'इणःषीध्वम्' इत्यत्राङ्गग्रहणादर्थवत्परिभाषाऽनित्या,तन्मूलकमिदमित्याहुः। 'विभाषेटः' इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहणमिति भ्रमवारणाय 'अङ्गात्' इति परे॥१६॥

 

कामाख्या

वचनरूपेणपठितैषेति। न चाणि प्रकृतिभावबाधनार्थं कार्मस्ताच्छील्य इति निपातनमस्यां ज्ञापकम्। अन्यथाऽनोऽनर्थकत्वेनैव प्रकृतिभावाप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेति वाच्यम्। भाष्ये ज्ञपकतानुक्तत्वेन एकदेशज्ञापकताया अस्वीकारात्। कर्मयतीति कर्म आनयतीत्यान् तयोः समासे तद्धिते च निपातनस्य चारितार्थ्याच्च ।न चान्कारः अस्कार इति भाष्यप्रयोगेण अनादिपदेवर्णत्वातिदेशे वर्णग्रहणेऽर्थवत्परिभाषाया अप्यप्रवृत्तौ फलितेयमिति वाच्यम्। मघवत इत्यादौ स्थानिवद्भावेनान्नन्तत्वात् सम्प्रसारणवारणाय अनि नकारं प्रश्लिष्य नान्तान्नान्तानामित्यर्थेन समाधानपरभाष्येण स्थानिवत्सूत्रेणैव सिद्धे प्रत्ययलोपसूत्रं नियमार्थन्तेन सुदृशत्प्रासाद इत्यत्र स्थानिवत्वेनासन्तत्वाद्दीर्घोनेति भाष्येण च विरोधापत्तेः। राज्ञासाम्नेति। राज्ञेत्यर्थवान् साम्नेत्यत्रानर्थकः उणादिनामव्युत्पन्नत्वपक्षे सुजम्भन इत्यादिबहुव्रीहावनिजन्त उदारणम्बोध्यम्। सुपयाइति। अव्युत्पत्तिपक्षे सुप्रजा इत्यसन्तबहुव्रीहावुदाहरणम्। सुश्रोताइति। श्रुधातोरसिप्रत्यये नुडागमे च आगमसमभिव्याहारे आगमविशिष्टस्यैवार्थवत्वमिति न्यायेनासोऽनर्थकत्वमत्र। न चात्वसन्तस्येति सूत्रेऽस्पदस्य षष्ठीनिर्दिष्टत्वाभावेन निर्दिश्यमानपरिभाषाया अप्राप्त्या यदागमपरिभाषयाऽस्पदेन तसो ग्रहणे तस्यात्रार्थवत्वेनानर्थकोदाहरणमयुक्तमिति वाच्यम् ।विच्निषपन्नश्रीशब्दात् पञ्चम्यन्तात् तसिलि श्रीतसिति, तस्य सुशब्देन समासे सुश्रीता इत्यत्रानर्थकासो ग्रहणार्थं ग्रन्थप्रवृत्तेः। सुप्रथिमेति। न चात्र शोभनः प्रथिमा यस्येति बहुव्रीहावती बहुव्रीहेरित्येव निषेधसिद्धे। एतदुदाहरणं चिन्त्यमिति वाच्यम्। असुप्रथिमेत्यस्यातिप्रथिमेत्यस्य वोपलक्षकत्वेनादोषात्। अत्र न सुप्रतिमेति बहुव्रीह्युत्तरपदकतत्पुरुषः। परिवेवीषीध्वमिति। परिपूर्वकाद्विषधातोर्विधौ लिङः सीयुटि, सलोपे, श्लाविति द्वित्वम्। अत्र धातुस्थषकारघटितषीध्वमेऽनर्थकत्वेन ढत्वाप्राप्तौ तद्व्यावृत्तये क्रियमाणमङ्गग्रहणन्तदनित्यत्वे ज्ञापकमित्यन्यत्सुगममिति दिक्॥१६॥

परिभाषार्थमञ्जरी

राज्ञा साम्न्नेत्यादाविति। ननु 'अल्लोपो न' इति सूत्रेऽदिति वर्णग्रहणे सत्वेनार्थवत्परिभाषाया अप्रवृत्तेरेवेष्टसिद्धौ अस्योपादानमसङ्गतमिति चेन्न। वर्णग्रहणे इत्यस्य वर्णमात्रग्रहणे इत्यर्थः। अत एव 'औदि'ति सूत्रेऽर्थवत्परिभाषामूलकगौणमुख्यपरिभाषाया अप्रवृत्तिमाशङ्क्य निपातपदानुवृत्त्या विशिष्टस्योद्देश्यत्वेन वर्णग्रहणमित्युक्तम्। अयमर्थः – 'निपात एकाजनाङ्' इत्यत्रापि स्पष्टो विवरणे। लस्येति भाष्यादपि तथैव प्रतिपत्तेश्च[1]इति परे इति। एवञ्च ज्ञापकमसङ्गतमिति भावः। यत्त्वत्र कैयटानुयायिन: अनोऽर्थवद्ग्रहणे कार्मादावन इत्यस्य प्रकृतिभावस्याप्राप्तौ 'नस्तद्धित' इति [2]टिलोपेनैव सिद्धे कार्म इति निपातनमेतज्ज्ञापकमित्याहुस्तत्तु विशेषविषयकत्वरूपकुठारपातेन छिन्नमिति नादरणीयं भाष्यानुयायिभिः१६॥

[1]प्रतीतेश्च इति के खे गे

[2]टिलोपे इति गे